________________
३1२३ ]
३ प्रवचनप्रस्तावः
तस्याचेतनधर्मणः ।
नापि वैशेषिकाभीष्टं चेतनात्मगुणत्वस्य निषेधादव्यवस्थितेः ॥१७१४॥ आत्मनश्चेतनत्वञ्च यथास्थानं निवेदितम् ।
निवेदयिष्यते चातरत्यज्यतां तत्र विभ्रमः ॥१७१५॥
ततः स्याद्वादिपरिकल्पितमेव पौगलिकं कर्मोपपन्नं तस्यैव चेतनात्मविभ्रम निबन्धनतया ५ मदिरादिनिदर्शनबलेन प्रतिपत्तेः । कथं पुनश्चेतन आत्मा तादृशमनर्थमूलं कर्मारभेत तत्परित्यागस्यैव तत्रोपपत्तेः, न च तस्य परप्रभुपारवश्यम्, अनभ्युपगमात्; इत्यप्यचोद्यम् ; मिथ्याज्ञानबलेन तस्यापि तदुपपत्तेः । तथाहि - विवादापन्नं कर्म मिथ्याज्ञानोपनिबद्धम्, आत्मनि तद्विभ्रमहेतुत्वात्, तदुपयुक्तविषादिवत् । न चाश्रयासिद्धत्वं साधनस्य; कर्मसद्भावस्य निवेदितत्वात् । तन्निबन्धनतया विभ्रमस्यापि निरूपितत्वान्न स्वरूपासिद्धत्वमपि । यथाऽवस्थितस्वपरज्ञान स्वभावस्यात्मनो मिथ्याज्ञानमेव कथं १० यतस्तदुपनिबद्धमात्मनि कर्म भवेदिति चेत् ? न तस्यापि तत्पूर्वोपार्जित कर्मचलादुत्पत्तेः', तस्यापि तत्प्राक्कालभावि मिथ्याज्ञानात्, एवमनादित्वात् मिथ्याज्ञानतदुपनिबद्ध कर्मप्रबन्धस्येत्युपपन्नं चेतनस्याप्यात्मनः कर्मोपकल्पनम् । कथं पुनरमूर्त्तस्यात्मनो मूर्त्तेन कर्ममलेनाभिसम्बम्धो मूर्त्तस्यैव मण्यादेर्मूर्त्तमलसम्बन्धस्योपलम्भादिति चेत् ? न; आकाशस्यामूर्तस्यापि मूर्त्तेन जलधरपटलादिनाऽभिसम्बन्धप्रतिपत्तेः । न च मण्यादावपि मूर्त्तिरेव मलसम्बन्धनिबन्धनम् ; तन्मात्रे तत्प्रसङ्गात् । न चैवम्, १५ उपकल्पितविशुद्धिविशेषे तदभावात् । अपि तु तद्गतः कश्चित् स्निग्धत्वादिरूपः परिणतिविशेष' एव, तस्य चात्मन्यपि मिथ्याज्ञानादिस्वभावस्य भावात् उपपन्न एव कर्ममलाभिसम्बन्धः । न चैकान्तेनामूर्त्त एव संसारी जीवः तस्यानादिमूर्त कर्मसम्बन्धात् तत्प्रदेशानुप्रवेशरूपात् कथञ्चिन्मूर्त्तत्वस्यापि भावात् । तदेवाह —
२९३
अभिन्नो भिन्नजातीयैर्जीवः स्याच्चेतनः स्वयम् । इति ।
जीवः प्राणभृदात्मा प्रक्रमवशात्तस्यैव जीवपदेनाभिधानात् । भिन्नजातीयैः पुद्गलपरिणामरूपतया स्वतो विलक्षणैः कर्ममलैः अभिन्नोऽविष्वग्भूतः स्यात् भवेत् । स्यात् कथञ्चिद्वा बन्धकारेण । यद्येवं मूर्त्तो नीवस्तर्हि तन्मलबन्धवदचेतन एव स्यादिति चेत्; न; तस्य स्वयं स्वलक्षणतश्चेतनत्वात्, अन्यथा संसारानुपपत्तेः । दुःखानुभवप्रबन्धो हि संसारः, स कथमचेतनस्य स्याद् घटादिवत् ? स्यादेव चिच्छायासकमादिति चेत्; न; तस्य निराकरणात् । अत एव न २५ चेतनासमवायादपि । अपि च,
चेतनासमवायेन संसारी व्योम किन्न वः । तत्रापि समवायस्य भावान्नित्यविभुत्वतः ॥ १७१६ ॥ समवायस्य भावेऽपि चेतना तत्र नास्ति चेत् ।
जीवे कुतः ? स्वहेतोश्चेत् समवायो वृथा भवेत् ॥ १७१७||
२०
३०
१- दुपपत्तेः ता० । २ - षणवन्त - आ० ब०, प० । ३- द्वा प्रबन्ध - आ०, ब, प० । ४- ये च सं-आ० ब०, प० ।