________________
२९२ न्यायविनिश्चयविवरणे
[३२२ सादृश्योपकल्पनमुपपन्नमिति कश्चित् ; सोऽप्यनिश्चितवस्तुवादी; तथा सति निर्विवादापत्तेः । तथा हि-यदि चेतनं कर्म तर्हि तस्याभ्युदयप्रत्यवायनिबन्धनतया स्वत एवाधिगमात् न कस्यचिदपि तत्र विवादः स्यात् । अस्ति च, अनुष्ठानरूपं तदिति कस्यचित्', प्राकृतमित्यन्यस्य, आत्मगुणविशेष इत्यपरस्य', बहुलं तद्दर्शनात् । अधिगतेऽपि तस्मिन्ननन्तरफलादर्शनाशक्त्यारोपतो विवादः ५ सम्भवतीति चेत् ; उच्यते
अतस्मिन् तद्ग्रहत्वं चेदारोपो नाधिगच्छति । आत्मनस्तस्य बोधत्वमस्वसंवेदिनः कथम् ॥१७०३॥ अधिगच्छति चेत्तस्माद्विवादोपजनिः कथम् । अविवादानुकूलं यत्तथा तस्यात्मवेदनम् ॥१७०४॥ आरोपान्तरतस्तस्याधिगतस्याप्यनिश्चयात् । विवादोत्पत्तिहेतुत्वं यदि तत्रोपकल्प्यते ॥१७०५॥ तदारोपान्तरेऽप्येवं प्रसङ्गस्यानिवर्तनम् । अनवस्थाभयावाहि कथं शक्यनिराक्रियम् ॥१७०६॥ तस्मादचेतनं कर्म तत्त्वज्ञैरनुमन्यताम् । तत्रानुष्ठानरूपत्वं यत्परैः परिकल्पितम् ॥१७०७॥ तदयुक्तमनुष्ठानादत्रैवोपक्षयं गतात् । परलोके फलोत्पत्तेवतियाऽप्यव्यवस्थितेः ॥१७०८॥ नापि तत्माकृतं तस्य तत्प्रकृत्यैव सङ्गतेः ।। तस्याश्चाचेतनत्वेन तत्फलानुभवात्ययात् ॥१७०९॥ चिच्छायासक्रमात् साऽपि चेतनैवेति चेतसात् (चेदसत् )। विस्तरेण पुरा तत्र तत्सङ्क्रान्तेनिषेधनात् ॥१७१०॥ प्रकृतौ कर्मभोगस्तन्नास्ति तस्य कथं पुनः । पुंसि कल्पनया भावो यत्स भोक्त ति कथ्यताम् ॥१७११॥ तत्त्वतो न हि पुंसोऽस्ति तद्भोगोऽनभ्युपागमात् । नेदानीमुपचाराच्चेत्यभोक्तैव स सर्वथा ॥१७१२॥ न च भोगमकुर्वाण कर्मातीवप्रसञ्जनात् । तन्न साङ्ख्योदितं कर्म युक्तियुक्तमुदीक्ष्यते ॥१७१३॥
१ कश्चिद्विपश्चिन्मान्यसेप्यनि-आ०, ब०, ५०। २ "मीमांसकस्य"-ता. टि०। ३ "प्रकृतेः प्रधानस्य विकारः प्राकृतम्"-ता० टि०। ४ "सांख्यस्य"-ता० टि०। ५ “वैशेषिकस्य"ताटिका द्रष्टव्यम्-न्यायकुमु० टि०पू०३। ६ "स्वस्य"-ता० टि०। ७-स्थापयावाहि आ०. ब०, प०।८"अतिप्रसगांदित्यर्थः"-ता०टि।