________________
३२२१-२२] ३ प्रवंचनप्रस्तावः
२९१ विज्ञानमञ्जसा स्पष्टं विप्रकृष्टे विरुद्धयते।
न स्वप्रेक्षणिकादेवों ज्ञानावृतिविवेकतः ॥२१॥ इति । विज्ञानं सकलवेदनं विप्रकृष्टे देशकालस्वभावव्यवहिते' वस्तुनि अजसा प्रवृत्तं स्पष्टं परिस्फुटं न विरुद्धयते। कुत एतत् ? ज्ञानावृतेः ज्ञानावरणस्य विवेकतः विश्लेषन इति । तात्पर्यमत्र-सति अवैशद्यसम्भवे तेन विरुद्धयेत, न चायमस्ति, तन्निमित्तावरणस्य तत्राभावात् , ५ तदभावस्य च निरूपणात् । अत्रैव 'स्वप्न' इत्यादि निदर्शनम् । स्वजश्व स्वाप ईक्षणिकाच - ग्रामडाकिन्यः स्वप्नेक्षणिकास्त आदयो यस्य समाहितचित्तादेस्तस्य वा तस्येव । वा शब्दस्येवार्थत्वात् । यथैव हि सत्यस्वप्नादौ विज्ञानं विप्रकृष्टविषयमपि स्पष्टं तदावरणविगमे तद्विरोधिनस्तदस्पष्टत्वस्याभावात् ,तथा सकलज्ञविज्ञानमयीति भावः । न च सत्यस्वप्नादिज्ञानं तादृशमसिद्धमेव; कार्यतो लोकप्रसिद्धत्वात् ।
साम्प्रतं प्रतिपादितार्थसङ्ग्रहार्थं श्लोकानाचक्षाणः प्रथममात्मनो ज्ञानात्मकत्वे सर्वस्य सर्वदर्शित्वपर्यनुयोगम् आवरणविवेकवैचित्र्येण परिहरन्नाह
ततः संसारिणः सर्वे कथञ्चिच्चेतनात्मकाः ।
तत्तत्स्वभावतो ज्ञानं सर्वत्र शबलायते ॥२२॥ इति । संसारिणो भवप्रबन्धानुबन्धिनो जीवाः कथश्चित् न सर्वात्मना चेतनात्मकाः स्वपरविषय- १५ परिज्ञानस्वभावाः । कुत एतत् ? ततोऽनन्तरोक्ताज्ज्ञानावृतिविवेकात् । 'कथश्चित्' इत्यत्रापि योज्यम् । कथञ्चित केनचित् क्षयोपशमविशेषप्रकारेण भवतो न सर्वात्मना, ततः सर्वात्मनैव' तदात्मत्वोपपत्तेः। यत एवं तत्तस्मात् ज्ञानं प्रक्रमात् संसारिसम्बन्धि सर्वत्र सर्वस्मिन् स्वरूपे अर्थरूपे च शवलायते स्पष्टास्पष्टतरतमादिविविधप्रतिभासरूपतया चित्रीभवति । तदपि कुतः ? तत्स्वभावतः तस्य तद्विवेकस्य स्वभावः शबलज्ञानजननहेतुः शक्तिभेदस्तत इति ।
बोधावरणविश्लेषवैचित्र्ये सति जन्मिनाम् । भवति ज्ञानवैचित्र्यं स्पष्टास्पष्टादिरूपतः ॥१७००॥ मणौ प्रकाशवैचित्र्यं मलविश्लेषभेदतः। विलोकयन्तो नैवात्र विवदन्ते विपश्चितः ॥१७०१॥ ततो युक्तमशेषज्ञस्वभावस्यापि देहिनः ।
कथञ्चिज्ज्ञत्वमप्युक्तमुपपतिसमन्वयात् ॥१७०२॥ भवतु नामैवमिदम् , परं तत्र वक्तव्यम्-यत्तदावरणं तदपि चेतनमेव "कर्मजं लोकवैचित्र्यं चेतना मानसं च तत् ।" [ अभिध० को० ४.१ ] इति वचनात् । ततो न तत्र मदिरादि
२५
१-हितव-पा०, ब०, प० । २ तस्केन प्रा०, ब०, प० । ३-रमन्येव त-आ०, ब०, ५०। ४ प्राणिप्रका-प्रा०, ब०, ५०। ५-पन्तु नै-पा०, ब०, प.। ६ बौद्धः प्राह ।