________________
न्यायविनिश्चयविवरणे
[ ३२०
तत्त्वज्ञैरवलोकनात् । अतत्त्वज्ञप्रतिपत्स्यपेक्षया तु तदनियमकल्पनमनुपपन्नम् अतिप्रसङ्गात् । सहकारित्वेऽपि किमेवं न नियमः इन्द्रियज्ञानविलक्षणस्यैव सत्यस्वमादावपि प्रत्यक्षस्यावेक्षणादिति चेत् ? किमेवं तव विलक्षणप्रतीतियोंगिप्रत्यक्षे न भवति ? भवत्येव, अन्यथा सत्यस्वप्नज्ञानेऽपि तदभावापत्तेरिति चेत्; तर्हि "यजातीयैः प्रमाणेः" [ मी० श्लो० ] इत्यादि दुरवबोध५ विजृम्भितं भवेत् । तन्न किञ्चिदेतत् ।
२९०
कथं पुनरात्मनस्तदुपादानत्वं तस्याचेतनत्वे चिद्रूपतया परिणामासम्भवात् न परिणामादुपादानत्वम् अपि तु समवायिकारणत्वमिति चेत्; किं पुनस्तत्कारणत्वं नाम ? स्वात्मन्यारम्भइति चेत्; कीदृशस्तस्यात्मा ? नित्यो व्यापीति चेत्; न; तदारब्धस्थापि नित्य सर्वगतत्वप्रसङ्गात् क्वचित् कदाचिच्च तस्य भावे न तदात्मन्यारम्भः स्यात् तस्य क्वाचित्कादिरूपाभावात्, अनभ्युपगमात् । १० अस्त्येव देशतस्तदभ्युपगम इति चेत्; न; वस्तुतो देशवत्त्वे तस्य कार्यत्वेन घटादिवदनित्यत्वापत्तेः । कल्पनया तद्वत्त्वे तु उपादानत्वमपि कल्पितमेवेति निरुपादानमेव तत्त्वतः प्रत्यक्षादिज्ञानमनुज्ञातं भवेत् । तन्न समवायिकारणत्वेन तस्यैव उपादानत्वमुपपन्नम् । कुतो वा नित्यः पृथिव्यादिरेव तस्य समवायिकारणं न भवेत् यतोऽयमायासः, आत्मकल्पनायाम् अचेतनत्वस्याविशेषात् ? 'न पार्थिवादिपरमाणुसमवेतं ज्ञानम् अस्मदादिप्रत्यक्षत्वात्, यत्तत्समवेतं न तत्तथा यथा तद्रूपादि, तथा १५ च ज्ञानम्, तस्मान्न तत्समवेतम्' इत्यनुमानेन प्रतिबन्धादिति चेत्; आत्मसमवेतमपि न भवेत्, तत्सर्वगतत्वादिवदेवास्मदादिप्रत्यक्षत्वाभावापत्तेः । हि तत्सर्वगतत्वमस्मदादेः प्रत्यक्षम्, अविवादेन "सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्वात् " [ ] इत्यादेरनुमानस्य वैफल्योपनिपातात् । साधनाव्यतिरेकी च दृष्टान्तः मानसप्रत्यक्षविषयतया परमाणुरूपादेरप्यस्मदादिप्रत्यक्षत्वात्, अन्यथा 'यावान् कश्चिद् गुणः स सर्वोऽप क्वचिदाश्रितः' इति व्याप्त्यपरिज्ञानात् कथमिदमनुमानम् — २० “बुद्ध्यादयः क्वचिदाश्रिता गुणत्वाद्रूपादिवत् " [ ] इति ? अथारमदादिबाह्येन्द्रियप्रत्यक्षत्वादिति हेतुः; तन्न; असिद्धत्वात् । न हि तत्प्रत्यक्षत्वं बुद्धेरस्ति शरीरदर्शनेऽपि तद्विकल्पे संशयात् । तन्नानुमानप्रतिबन्धात् ज्ञानस्य तत्परमाणुसमवायः शक्य प्रतिबन्धः, यत आत्मैव तत्र समवाय हेतुरिति कल्प्येत । भवतु चेतन एवात्मा तत्रोपादानं तस्य तथापरिणामोपपत्तेरिति चेत्; तस्यापि कथन्न गेलकादिवत् शरीरे सर्वत्रापि दर्शनव्यापारः ? तत्स्वभावस्यान्यथात्वायोगादिति चेत् ; सत्यमिदम्; यदि न किञ्चिदपि तस्यावरणं भवेत् । भवति च तदस्तित्वस्यावेदितत्वात्, गोलकादौ तु तद्व्यापारः तत्र कर्मपटलस्य स्वच्छत्वेनाप्रतिरोधकत्वात् । अभिहितं चैतत् " - " कथञ्चित्स्वप्र देशेषु स्यात् कर्म पटलाच्छता " इति । ततो युक्तमक्षानपेक्षं केवलिनः प्रत्यक्षम् तत्र वैशद्यस्य पुष्कलत्वात् । तस्य चावरणविवेकनिबन्धनत्वेन अक्षव्यापारपराधीनत्वाभावात् ।
२५
1
तल्लक्षणस्य
एतदेवाह -
१ तस्याभावेन आ०, ब०, प० । २ आत्मनः । ३ - पत्तिः क-आ०, ब०, प० । ४-यशक्यं प्रतिबन्धनं य-आ०, ब०, प० । ५ न्यायवि० श्लो० ३६१ ।