________________
[રાર
२८८
न्यायविनिश्चयविवरणे प्रत्यक्षवदिति चेत् ? कथं गृद्धवाराहादिप्रत्यक्षस्य ? तस्यास्मदादिप्रत्यक्षविलक्षणत्वेन तद्धर्मयोजनस्यासम्भवादिति चेत्, न; सर्वज्ञप्रत्यक्षस्यापि तद्विलक्ष गत्वाविशेषात् । कथमेवमपि एकेन्द्रियोपजनितस्यैव तस्याशेषेन्द्रियार्थविषयत्वं गृद्धवराहादौ तस्य स्वविषयानतिक्रमेणैव दूरसूक्ष्माद्यवलोक
नातिशयभावात् नेन्द्रियान्तरविषयनिरूपणेनेति चेत् ? इन्द्रियजत्वाविशेष स एव तदतिशयः ५ कस्मात् ! तदीयादिन्द्रिय शक्तिविशेषादिति चेत्; तर्हि तत एव सार्वज्ञं प्रत्यक्षमिन्द्रियान्तरार्थविषयमपि भवेत् । नन्विदमनुपपन्नम्, शक्तिविशेषादपि स्वार्थानतिलङ्घनेनैवेन्द्रियज्ञानस्यातिशयोपरत्तेरिति चेत्, स्वेन्द्रियानतिलङ्घनेनैवेत्यपि भवेत् । तथा चेत्, न; सत्यस्वप्नादावन्यथाऽपि तदतिशयदर्शनात् । तदतिलङ्घने वा स्वार्थातिलङ्घनमप्यविरुद्धम्, अत एव 'चक्षुःश्रवसो भुजङ्गाः' इति कविप्रवादोऽपि । ततो दुर्भाषितमिदम्
"यजातीयैः प्रमाणैस्तु यजातीयार्थदर्शनम् । दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ।। यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टौ स्यान रूपे श्रोत्रवृत्तितः ॥"
[ मी० श्लो० चोदना० श्लो० ११३-१४ ] इति । १५ किमर्थं तर्हि तत्रेन्द्रियभेदपरिकल्पनम् एकस्मादेव तस्मात् सकलेन्द्रियार्थप्रतिपत्तेरिति
चेत् ? न; कदाचिदत्ततः ( दततः ) कदाचिदन्यतः कदाचिततः सर्वादपि तत्प्रतिपत्तेः । अन्यथाs स्मदादौ वामेतरनयनभेदोऽपि न भवेत् प्रयोजनभेदाभावात् । तथापि स्वहेतुबलायातस्तद्भेदो भवत्येवेति समानं भवेदिन्द्रियाभेदेऽपि । केवलमभ्युपगम एवायं न च तस्याक्षजत्वभिप्रेतं जैनस्य॑ ।
"बहिरन्तरप्युभयथा च करणमविघाति नार्थकृत् ।" [बृहत्स्व० श्लो० १२९] इत्या २० नायात् । कथं तर्हि तत्र प्रत्यक्षव्यपदेशः तस्याक्षप्रतिगमानादेवोपपत्तेरिति चेत् ? न तस्य
व्युत्पत्तिमानिमितत्वात्, वैशद्यस्यैव तदुपलक्षितस्य प्रवृत्तिनिमित्तत्वात् , सति तस्मिन् तदभावेऽपि गोत्वादेव गोव्यपदेशवत् । वैशद्यमपि तत्प्रतिगमनादेव रूपादिवेदने दृष्टं तत्कथं तदभावेऽपि चेत् ? आस्तामेतत् , कथं पुनरिन्द्रियनिरपेक्षं न प्रत्यक्षम् ? तद्भावभावनियमस्य दर्शनादिति चेत् ; तत
एव आलोकनिरपेक्षमपि न भवेत् । भवत्येव "जातिविशेषाणां संस्कृतचक्षुषां च तदभावेऽपि तत्प्रति. २५ पत्तेरिति चेत्; समानमन्यत्र, सुखादिवेदनस्येन्द्रियाभावेऽपि प्रतिवेदनात् । तदपि तदपेक्षमेव प्रत्यक्ष
१ प्रत्यक्षस्य । २ एतदति-ता० । ३ -यविशे-पा०, ब०, प० । ४ इन्द्रियात् । ५ कदाचित्ततः
प० । ७ सर्वज्ञज्ञानस्य । ८ "अभ्युपगम्य चाक्षजत्वं सर्बज्ञज्ञा. नस्यातीन्द्रियार्थसाक्षात्कारित्वं समर्थितं नार्थतः, तज्ज्ञानस्य घातिकर्मचतुष्टयक्षय भूतत्वात् ।"-प्रमेयक० पृ० २५९ । ९ “अक्षाश्रितत्वञ्च व्युत्पत्तिनिमित्तं शब्दस्य न तु प्रवृत्तिनिमित्तम् । अनेन तु अशाश्रितेनैकाथंसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते तदेव च शब्दस्य प्रवृत्तिनिमित्तम् ।"-न्यायबि० टी० प्र०११। न्यायकुमु०पृ०२६, टि०२॥ १०-प्र-आ०, ब०, प०। ११ तद्भावाभाव-आ०, ब०, १०॥ १२ "नक्तञ्चराणां मार्जारादीनाम्"-ता. टि०। १३ सुखादिवेदनम् ।