________________
३।२०] ३ प्रवचनप्रस्तावः
२८७ दिन्यप्रवृत्तेः तदप्रवृत्तिलक्षणादनुपलम्भात् अभाव एव तस्येति; तत्र न तावत्तस्याभावो नीरूप एव; तस्य प्रमाणाविषयत्वात् । न ह्यसौ अतद्रूपादव्यावृत्त एव तद्विषयः, तदतद्विभागाभावापत्तेः। व्यावृत्तश्चेत्; न; व्यावृत्तिशक्तिवैकल्ये तदनुपपत्तेः । तच्छक्तिभावे च नीरूपत्वव्यापत्तेः, शक्तिप्रधानरूपत्वात् भावानाम् । भवतु पर्युदासवृत्त्या किश्चिज्ज्ञत्वमेव तदभाव इति चेत्; तदपि न प्रतिनियतपुरुषाधिष्ठानम्, तस्य तदभावत्वेनाभीष्टत्वात् । सकलदेशकालवर्तिपुरुष परिषदधिष्ठानस्य तु तस्य कथं ५ निरवशेषतत्परिज्ञानविकलेन प्रतिवेदनम् ? अधिष्ठानप्रतिवेदन एवाधिष्ठेयप्रतिवेदनोपपत्तेः । तत्परि- - ज्ञानवत्वे तु कस्यचित् कथन्न तस्यैव निरुपद्रवं सकलवेदित्वमापद्येत यतः “सर्वज्ञोऽयमिति ह्येवम्" [ मी० श्लो०] इत्यादि मीमांसकस्य परत्र चिन्तितं दूषणं स्वगृहं प्रत्युपगतं न भवेत् । तन्नानुपलम्भादपि अभावापरनामधेयात् सर्वत्र सर्वदा सर्वज्ञाभावसाधनमुपपन्नम् । किञ्च, अयमनुपलम्भो वादिनः स्वस्य वा भवेत्, सर्वस्य वा गत्यन्तरासम्भवात् ! तत्रोभयत्रापि दोषमावेदयन्नाह- . १०
सकलज्ञस्य नास्तित्वे स्वसर्वानुपलम्भयोः।
आरेकासिद्धते तस्याप्याग्दर्शनतोऽगतः ॥२०॥ इति ।
न हि सर्वज्ञाभावस.धने स्वानुपलम्भस्य गमकत्वम्; तस्य परचेतोवृत्तिविशेषे सत्यपि भावेन व्यभिचारिणः संशयहेतुत्वात् । न हि तत्र नियोगतः प्रत्यक्षादीनामन्यतमस्य प्रवृत्तिरेव, प्रथमदर्शन एव तदवधारणात् 'मुखोऽयं पण्डितो वा' इत्यादिविमर्शाभावापत्तेः । न चानवधा- १५ रितोऽपि सं नास्त्येव, पुनः कुतश्चित् कार्यविशेषात् तदस्तित्वस्य निर्णयात् । नापि सर्वसम्बन्धिन; तस्यैवासिद्धः । तदेवाह-'तस्याप्यर्वाग्दर्शनतोऽगतेः' इति । तस्यापि सर्वसम्बन्धिनोऽनुपलम्भस्यापि, अपि शब्दान्न केवलं सर्वज्ञस्य अगतेः अगतिश्च तस्याग्दिर्शनतः। अर्वाचो हि वस्तुभागस्य दर्शनमस्मदादिप्रत्यक्षं तत्कथं तस्य सर्वविषयत्वं यतः सर्वसम्बन्धिनोऽनुपलम्भस्य ततोऽवगतिः।
यत्पुनरत्रानुमानम्-सर्वेऽपि सर्वज्ञं नोपलभन्ते पुरुषत्वादे रथ्यापुरुषवदिति; तदपि न सम्यक् सर्वेषामग्दिर्शनतोऽनवगमेन हेतोराश्रयासिद्धेः । न चास्ति पुरुषत्वादेः सर्वज्ञत्वोपलम्भेनविरोधः, सोऽर्वान्दर्शिनि सम्भवन्नपि न सर्वज्ञे स्यात् , तेनात्मनोऽन्यस्य च सर्वज्ञतया दर्शनसम्भवात् । स एव नास्तीति चेत्, न; अन्यतः तन्नास्तित्वेऽनुपलम्भस्य वैफल्यापत्तेः । तत एव सर्वसम्बन्धिन इति चेत् न; परस्पराश्रयात्-सिद्धे तन्नास्तित्वे तदनुपलम्भस्य ततोऽपि तन्ना स्तित्वस्य २५ सिद्धेः । अतो नानुमानादपि सिद्धिस्तदनुपलम्भस्येति न तस्मादभावः सर्वज्ञस्य ।
नापि वक्तृत्वादेः; द्वितीयप्रस्तावे तन्निषेधस्याप्यभिहितत्वात् । भावस्तु तस्यानुमानतो निरूपितो निरूपयिष्यते च । कथं पुनः सर्वज्ञविज्ञानस्याक्षजत्वे सूक्ष्मान्तरितदूरगोचरत्वमस्मदादि
१-वृत्तेश्चेत् आ०, ब०, प०। २-पपरीक्षाधि-आ०, न०, प० । ३ संशयामावापत्तेः । ४ परचेतोवृत्तिविशेषः। ५ -ज्ञसम्बन्धिनस्तस्यैवासिद्धेः य-आ०, ब०, प०। ६-लंभनेन वि-पा०, ब०, प० । ७-धस्ततोऽर्वाग्द-आ०, ब०, प०। ८-दर्शिन्यसंभवान्नापि सर्वज्ञे प्रा०, ब०, ५० । ९ सत्त्वादि-आ०, ब०, १०।
२०