________________
न्यायविनिश्चयविवरणे
[ ३१९
संवादासम्भवाभावात् [ समयाविप्रलम्भने ] ॥ १९ ॥ इति । संवाद: अर्थतथाभावः तस्याऽसम्भवः तस्याभावात् संवादभावादिति यावत् । नेदानीं तत्र तद्भावोऽनुपलम्भात्, कालान्तरभाविनश्च ततः कथमिदानीं प्रामाण्यनिर्णयो यतः प्रवृत्तिरिति चेत् ? प्रत्यक्षादौ कथम् ? तत्रापि पश्चादेव तद्भावात् । अत एव अनिर्णीतप्रामाण्यादेव ततः प्रवृत्तिरिष्यते ५ तद्विषयस्य जलादेरप्राप्तावपि पीडाबाहुल्या भावात् । न चैवं प्रवचनादपि तादृशादेव तपश्चरणादौ प्रवृत्तिकल्पनमुपपन्नम् । तेहाहुल का लोकनादिति चेत्; न; तस्य प्रत्यक्षादावपि तुल्यत्वात् । तथा हि
अर्क क्षीरादजक्षीरमविविच्यैव यः पिबेत् ।
तस्य भूयान् परिक्लेशः किं त्वया नावलोक्यते ॥ १६९२ ॥ हारसर्पाविभागेन दीर्घं किञ्चिदनिश्चितम् ।
कण्ठे समासजन्मर्त्यः किन्न मृत्युमपि व्रजेत् ॥ १६९३॥
ततो यथा तत्र पश्चाद्भाविनोऽपि तद्भावस्य कारणपरिशुद्धिज्ञा गदध्यवसाये ततः प्रागेव तन्निर्णयः तथा प्रवचनेऽपि । तदेवाह - 'समया विप्रलम्भने ' इति । समयः सम् समीचीनः प्रवचनहेतुः अयो बोधस्तस्य अविप्रलम्भनमविप्रतीसारः तस्मिन्, 'संवादासम्भवाभावात् १५ आगमः प्रमाणमतिलौकिके' इति ।
१०
२०
२८६
२५
स्यान्मतम् – यदि कचित् सर्वज्ञः सम्भवति भवत्यपि तदा तज्जानपूर्वकत्वेन प्रवचनस्याविसंवादसम्भवः, न चैवं प्रमाणाभावात् । न हि तंत्र प्रत्यक्षं प्रमाणम् तस्यासर्वविषयत्वे तेन तज्ज्ञत्वस्य क्वचिदप्रतिवेदनात्, विषयिप्रतिपत्तेः विषयप्रतिपत्तिमन्तरेणानुपपत्तेः । सर्वविषयत्वे तु तत्प्रत्यक्षवतोऽपि सर्वज्ञत्वम् । तथा तमप्यन्यस्य प्रत्यक्षादवगच्छतः सर्वज्ञत्वमिति सर्वज्ञमेकमन्त्रिच्छतः सर्वज्ञबहुलत्वमव्याहतप्रवाहमापद्येत । तदुक्तम्
" सर्वज्ञोऽयमिति ह्येवं तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ कल्पनीयाश्व सर्वज्ञा भवेयुर्बहवस्तव । य एव स्यादसर्वज्ञः स सर्वज्ञं न बुद्धयते ॥"
[ मी० श्लो० चोदना ० श्लो० १३४ - १३५ ] इति । प्रत्यक्षाभावे च नानुमानम्; तस्य प्रत्यक्षतः साध्यसाधनसम्बन्धप्रतिपत्तौ सत्यामेवोत्पत्तेः । साध्यस्य च सकलवेदिनः प्रत्यक्षेणग्रहणे ततस्तल्लिङ्गसम्बन्धं स्याशक्य प्रतिपत्तिकत्वादिति, तदतिदुर्मतम्; प्रत्यक्षाविषयेऽपि तस्मिन्ननुमानप्रवृत्तेः " परोक्षोऽपि " इत्यादिनी प्रतिपादनात् ।
यदपि परस्य दुर्विलसितम् - प्रत्यक्षादेः प्रमाणपञ्चकस्य वस्तुसत्तावबोधकस्य सर्ववे
१ अनिर्णीतप्रामाण्यादेव । २ पीडाबाहुलक । ३ मीमांसकस्य । ४ - नानु - आ०, ब०, प० । ५ "गृहीतसम्बन्धस्यैकदेशदर्शनाद सन्निकृष्टेऽर्थे बुद्धिरनुमानमिति मीमांसकाः ।" - ता० टि० । ६ न्यायवि० श्लो० ३।३ ।