________________
३।१९]
३ प्रवचनप्रस्तावः
२८५ तन्न युक्तम्, परापरसकलकालभाविनो बाधाविरहस्य प्रथमत एव तर्कज्ञानबलेनाध्यवसायात् तद्विषयपरापराशंसानुपसर्पणेनानवस्थादोषानुत्पत्तेः साधनासिद्धिकल्पनस्यानवकाशात् । न तर्कादप्यप्रमाणात् प्रवचनस्य बाधाविरहनिश्चयोऽतिप्रसङ्गात् ,. प्रामाण्यं च तस्य निधिनत्वात्, तदप्यन्यतस्तर्कात् , तत्राप्येवं कल्पनायामनवस्थानात् कथं प्रवचने तद्विरहनिश्चयो यतो यथोक्तसाध्यसिद्धिरिति चेत् ? अत्राह
मानं वस्तुबलादेव [ सर्ववस्तुनिबन्धनम् ] ॥ १८ ॥ इति
मानं प्रमाणं तर्क इति तयग्रहणेन तर्कस्याक्षेपात् । वस्तुशब्देन च स एव तय उच्यते तस्य बलं सामर्थ्य तत इति । एतदुक्तं भवति
निर्बाधत्वं हि तर्कस्य वेद्यते चेत् तदन्यतः । । अनवस्थानदोषः स्यान्नैवं तस्य स्वतो गतेः ॥ १६८९ ॥ इत्थमेतदवश्यं च प्रपत्तव्यं मनीषिणाम् । वितर्कमिच्छतां नो चेत् वितर्को नावतिष्ठते ॥ १६९० ॥ विना च न वितण किञ्चिदिष्टं प्रसिद्ध्यति ।
मानमेव व्यवस्थायाः तत्प्रसादादवस्थितः ॥ १६९१ ॥ ततो युक्तं वस्तुबलादेव मानं तर्क इति । तस्य स्वरूपमाह-'सर्ववस्तुनिबन्धनम्' १५ इति । सर्व निरवशेषं वस्तु साध्यसाधनभावाभिमतं निबद्धयते विषयत्वेन यस्मिन् तत्तथोक्तम् , अन्यथा अनुमानानुपपत्तेरिति । निरूपितं चैतत् । अथवा वस्तु प्रवचनं तस्य बलं ततः, मानं तदेव प्रवचनम्, न पुनर्निर्दोषगुणवज्ज्ञानपूर्वकत्वात् , तस्यैव तत्रापौरुषेयत्वेनासम्भवादिति मतं मीमांसकस्य । तत्रेदं दूषणम्-'सर्ववस्तुनिबन्धनम्' इति । सर्व प्रवचन तिपाद्यं विधिनियोगभावनाद्यनेकविकल्पं वस्तु तन्निबन्धनं तद्विषयं मानं भवेत् प्रवचनम् । कथं हि नाम सर्वस्पापि २० विध्यादेस्ततः प्रतिपत्तौ तदन्यतमस्यैव तदर्थत्वम् ? तस्यैव निःश्रेयसहेतुत्वादिति चेत् कुत एतत् ? वेदादेवेति चेत्; न; तेन हि तदपरत्रापि तद्धेतृत्वप्रतिपादनात् । सम्प्रदायादिति चेत्; न; सम्प्रदातुरसर्वदर्शित्वे ततोऽपि तदनुपपत्तेः । सर्वदर्शित्वे तु कथं पुरुषगुणस्याभावः प्रवचने येन तत्कृतमेव प्रामाण्यं न भवेत् । ततो युक्त यथोक्तज्ञानपूर्वकत्वं प्रवचनस्य । यदि अपौरुषेयस्यापि पुरुषविशेषगुणबलादेवार्थतत्त्वनिश्चयः प्रवचनस्य पौरुषेयत्वमेव किन्न भवति ? इति मन्वान आह- २५ ... आगमः पौरुषेयः स्यात् प्रमाणमतिलौकिके । इति ।।
आगच्छति गुरुपर्वक्रमेणागमयत्यनेन संसारतत्कारणादितत्त्वमिति वा आगमः प्रवचैनं स पौरुषेयः पुरुषकृतः स्यात् भवेत्, तत्र पुरुषगुणसम्बन्धस्य सर्वथा परिहर्तुमशक्यत्वात्, अत एव च प्रमाणम् । यदि प्रत्यक्षादिविषये सिद्धसाधनमिति चेत् ; न; अतिलौकिके लोके जीतं लौकिक ' प्रत्यक्षादि तदतिक्रान्तम् अतिलौकिकम् अत्यन्तपरोक्षं तत्रेति । कुत एतदिति चेत् ? अत्राह- ३० - १ -स्तर्कादेस्त-५०। २ सयंप्रमाणेन आ०, ५०, ५०। ३ -नं पौ-०, ब०, प० । ४ "तर्हि"-ता०दि०। ५ ज्ञातं आ०, ब०, प०। ६ "जाते इति सूत्रेण जाताथै ठण"-ता०टि०।