________________
२८४ न्यायविनिश्चयविवरणे
[३१८ प्रामाण्यकारणे समर्थे सति तदनुपपत्तेः । अप्रामाण्यदोषोऽपि समर्थ इति चेत् ; युगपत्तहिं तदुभयं प्राप्नुयात् ।
तथा च भ्रान्तविज्ञानात्तदर्थे वृत्त्यवर्त्तने । युगपत् प्राप्नुयातां ते प्रमाणत्वेतरत्वतः ॥१६८३॥ अक्षादिकं प्रमाणत्वे दोषे यदि न शक्तिमत् । ज्ञानं कथं तदा तस्मादप्रामाण्यं यदाश्रयम् ? ॥१६८४॥ प्रामाण्ये तस्य सामर्थ्य नष्टं न ज्ञानजन्मनि । यदि स्वतः प्रमाणत्वं तदा तस्योच्यतां कथम् ? ॥१६८५॥ ज्ञानसामर्थ्यतो भावि प्रामाण्यं चेत् तदा भवेत् । स्वतो यदन्यतः शक्तिस्तदा तत्परतो न किम् ? ॥१६८६॥ सामर्थ्यात् परतस्तच्चेत् गुणतः परतो न किम् ? ।
यतो गुणेभ्यो दोषाणामपवादः प्रकल्प्यते ॥१६८७॥ सति च ततस्तदपवादे मुणत एव प्रामाण्यं तदपवादस्यैव गुणत्वात् । न तस्य तत्त्वमभावरूपत्वाच्चेत्; तर्हि नियमवैकल्यस्यापि हि हेतोर्न दोषत्वमिति कथमनुमानाभावस्यःप्रामाण्यमपि १५ दोषतः स्यात् ? तद्वैकल्यस्य दोषत्ववद् गुणत्वमपि तदपवादस्येति तत एव प्रामाण्यं न स्वतः ।
ततो गुणादिदृष्टयादेरध्यक्षादिवदञ्जसा ।
प्रामाण्यमागमेऽपीति सूक्तमुक्त स्वयं बुधैः ।।१६८८॥ न हि प्रवचनकारणैर्गुणस्य तदर्थज्ञानस्य दोषस्य रागादेरसिद्ध एव दर्शनादर्शनाध्यासो निर्बाधत्वेन तत्सिद्धेः । तथा हि-यत्स्वविषये निर्बाधं वचनं तद्गुणवन्निर्दोषकारणकं यथा किञ्चिज्ज२० लशैत्यादिविषयमस्मदादिवचनम् , तथा च विवादापन्नं प्रवचनम् । न चेदमसिद्धमेव प्रत्यक्षादिना तद्विषये प्रवचनेन तदगोचरे तस्य बाधनात् । तदेवाह
तज्ज्ञानपूर्वकं तय॑मनुमानसमीक्षितम् । इति । तज्ज्ञानं गुणवन्निर्दोषज्ञानं तत्पूर्वकं प्रवचनमनुमानेन समीक्षितं सम्यगवलोकितम् । तदेव कुतः ? तक्यं तर्कज्ञानवेद्यं यत इति । न हि यन्निर्बाधं वचनं तदुक्तज्ञानपूर्वकमिति तर्काभावे २५ सम्भवत्यनुमानमिति भावः ।
यत्पुनरत्र प्रज्ञाकरचोद्यम्
"बाधकस्य पुरो भावः सर्वविज्ञानसम्भवी । परं तु बाधकाभावः तत्राप्याकाश्यते न किम् ?॥[प्र० वार्तिकाल० ११]इति;
१ "यदा स्वतः प्रमाणत्वं तदान्यन्नैव गृह्यते" -मी० श्लो० चोदनां० श्लो० ५२ । २ "तस्माद् गुणेभ्यो दोषाणामभावस्तदभावतः। अप्रामाण्यद्वयासत्त्वम्"."- मी० श्लो० चोदना श्लो० ६५ । ३ “अथ गुणतो दोषापवादमभ्युपगम्याह"-ता० टि०। ४ तज्ज्ञान-पा०, व०, प०।