________________
३ प्रवचनप्रस्तावः
३।१७ ]
२८३ तत्त्वान्यत्वविकल्पाभ्यामवक्तव्यैव कल्पना । अवस्तुत्वाद्विकल्पस्य वस्तुनैव (वस्तुन्येव) च सम्भवात् ॥१६८०॥ इति चेत्तदवाच्यत्वविकल्पोऽप कथं तदा । तत्र यत्तव शोभेत तदवाच्यत्ववागियम् ॥१६८१॥ कथं वा कल्पितस्यास्ति शास्त्रेण प्रतिबोधनम् ।
किं वन्ध्यासुतबोधार्थ शास्त्रं किमपि वीक्षितम् ? ॥१६८२॥ तन्नाद्वैतनिरूपणं शास्त्रात् । प्रत्यक्षादेस्तु ततो निरूपणे विचारसहमेव तदेष्टव्यम् , अन्यथा तद्वैयर्थ्यात् । तत्र यदि वचनं तत्प्रणेतरि विप्रलम्भनशंकनात् न प्रमाणं प्रत्यक्षादिकमपि न भवेत् , तद्धतावक्षादावपि तच्छकनाविशेषात् । एतदेव त्रिभिरन्तरश्लोकैः व्याचिख्यासुराह
परीक्षाक्षमवाक्यार्थपरिनिष्ठितचेतसाम्।
अदृष्टदोषाशङ्कायाममानं सकलं भवेत् ॥१६॥ इति । परीक्षा प्रसिद्धप्रत्यक्षादिरूपां क्षमत इति परीक्षाक्षमः स चासौ वाक्यस्य प्रवचनस्यार्थी जोगदिस्तत्र परिनिष्ठितं परि समन्तान्निष्ठितमचलप्रवृत्तिकं चेतो ज्ञानं येषां तेषां भगवताम् अदृष्टे प्रत्यक्षाद्यविषये धर्मतत्कारणादौ अदृष्टस्य वा तद्विषयस्य दोषस्याशङ्कायां पुरुषाणां विचित्राभिसधित्वेन प्रत्यक्षादिविषये विप्रलँम्भासम्भवेऽप्यतद्विषये तत्सम्भवस्यारेकायाम् अमानमप्रमाणं संकलं १५ प्रत्यक्षमन्यद्वा भवेत् तत्कारणेऽपि चक्षुरादावदृष्टपूर्वे तद्विषये तदाशङ्कनस्यानिवृत्तेः । अथ प्रत्यक्षादौ निश्चितप्रामाण्यतदन्तरसाश्यविशेषात् विशेषप्रतिपत्तेर्न तत्कारणेषु तदाशङ्कनम्, प्रवचनेऽपि समानमेतत्-तत्रापि प्रत्यक्षानुमेयविषयनिश्चितप्रामाण्यतदन्तरसदृशभावप्रतिपत्तेरविशेषात् । एतदेवाह
प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः।।
दर्शनादर्शनाध्यासात् कचिद् वृत्तसमत्वतः ॥ १७ ॥ इति । २०
प्रत्यक्षमित्यनुमानस्यापि ग्रहणं तत्पूर्वकत्वात् तच्च आगमश्च तयोः क्वचित् अपूर्वार्थेऽत्यन्तपरोक्षे च प्रामाण्यमिष्टं युगपद्वचनं तयोस्तुल्यत्वप्रतिपादनेन प्रवचनस्याप्रामाण्ये प्रत्यक्षादेरपि तदवश्यमिति प्रतिपादनार्थम् । कुतस्तयोः प्रामाण्यम् ? वृत्तेन प्रमाणतया निश्चितेन तदन्तरेण समत्वात् । तदेव कुत इति चेत् ? गुणदोषयोर्ये दर्शनादर्शने तयोरध्यासात् । यथैव हि अपूर्वार्थे प्रत्यक्षादौ तस्य तत्कारणस्य वा गुणदर्शनाद्दोवस्य चादर्शनात् प्रामाण्यम्, एवं प्रवचनस्यापि तदेषि- २५ तव्यमित्यर्थः । न प्रत्यक्षादौ गुणकृतं प्रामाण्यं तत्कारणे तदभावादिति चेत्; न; तस्याप्यञ्जनसंस्कारादेस्तत्रोपलम्भात् । सताऽपि तेन दोष एवापोद्यते न प्रामाण्यमापाद्यते, दोषाभावादेव प्रामाण्यस्यौसर्गिकस्यैवापत्तेरिति चेत्; उच्यते-यदि न तेन तस्यापवादः किं स्यात् ? अप्रामाण्यमिति चेत्; न;
१-शक्किना न आ०, ब०, ५०। २ वाक्यप्र-पा०, ब०, ५०। ३ भगवद्विषयस्य । ४ -उम्भस-पा०, ब०, प०। ५ सकळप-आ०, ५०, प०। ६ युगपत्तद्-आ०, ब०, ५०। ७ -स्तुल्यकृत्व-मा०, २०, ५०। ८ मीमांसकः प्राह ।