________________
२८२
न्यायविनिश्चयविवरणे
[ ३।१५
तद्वचनस्य प्रत्यक्षादिना बाधनम् तस्य तद्विषयत्वात् । यदि हि प्रत्यक्षादेः स्वर्गादिविषयत्वं भवत्यपि तेन तस्य बाधनम् —'अयमन्यथा स्वर्गादिरन्यथा चानेन प्रतिपादितः' इति, न चैवम्, तस्यात्यन्तपरोक्षत्त्रात् । नापि शास्त्रेण; तस्यापि तदवयवस्य पूर्वापरभागभाविनः परस्परविरोधिन एव प्रतिपत्तेः । शास्त्रान्तरमपौरुषेयं तस्य बाधकम् अन्यथैव तेन स्वर्गादेरभिधानादिति चेत्; न; तंदसम्भवास्य (वात् ५ अस्य ) सम्भवतोऽप्यगुणवद्वक्तृत्वेनाप्रामाण्यस्य निवेदनात् । ' कीदृशात् पुनर्बाधकाभावात् तद्वचने विश्वासः ? तात्कालिकादिति चेत्; न; प्रत्यागमेऽपि तत्सम्भवात् । सार्वकालिकादिति चेत्;
बहुना पालेन तद्विश्वासः परापरकालभावितदभावप्रतीक्षायामेव संसारस्योपक्षयात्' इत्यपि न केवलं प्रवचनप्रामाण्यं प्रतिरुणद्धि प्रत्यक्षादावप्यस्याविशेषात् । सत्यम्, अत एवाविचार सहमपि, तत्प्रामाण्यं व्यवहारादभ्युपगम्यते " प्रामाण्यं व्यवहारेण" [ प्र० वा० १७ ] इति वचनादिति १० चेत्; किं पुनस्तदभ्युपगमस्य फलम् ? तन्निबन्धनो व्यवहार एवेति चेत्; न तर्हि शास्त्रमर्थवत्, तस्योभयस्यापि लोकव्यवहारादेव प्रतिपत्तेः । न सर्वस्य ततस्तत्प्रतिपत्तिः केषाञ्चिद् व्यामोहात्, अत एव परस्परविरुद्धं तेवां तल्लक्षणप्रणयनम् । तदुक्तम्
" न सर्वो व्यवहारेण प्रामाण्यमवगच्छति ।
प्रमाणलक्षणं तेन परस्परविरोधवत् ||" [ प्र० वार्तिकाल १७ ] इति । ततो यथावस्थितव्यवहारोपदर्शनेन तद्व्यामोहव्यवच्छेदाय फलवदेव शास्त्रम्, " शास्त्रं मोहनिवर्तनम् ” [ प्र० वा० १.७ ] इति वचनादिति चेत्; का पुनस्तदनिवर्तने परिग्लानिः ? प्रमाणसाध्यस्य पुरुषार्थस्याप्राप्तिरेव, अनिवर्तितव्यामोहात् प्रमाणात्तदनुपपत्तेरिति चेत्; न; तद्विपरीतस्यापि तस्य विचारासह त्वेन ततस्तात्त्विकस्य पुरुषार्थस्यासिद्धेः, अन्यथा तदसहत्वविरोधात् । अतात्त्विकस्य विभ्रमोपदर्शितकलधौत कलशराशिवदशक्यैव प्राप्तिरिति न किञ्चिद्व्यामोह निवर्तनेन २० यतस्तदर्था शास्त्रप्रवृत्तिः । अपि च, अविचारसहस्यापि यदि प्रत्यक्षादेर्व्यवहारात् प्रामाण्यं प्रवचनस्यापि स्यात् । न हि व्यवहारी क्वचिदाप्तवचनं न प्रमाणयत्येव, बहुलं ततोऽपि तद्विषये प्रवृत्त्यादिव्यव - हारस्योपलम्भात् । अक्षोदक्षमत्वान्न तत्र तत्क्षममिति विलक्षणभाषितम्, अस्याक्षादावपि तुल्यत्वात् । माभूत्तदपि प्रमाणम्, अद्वैतसंवेदनस्यैव तत्त्वत्तः प्रमाणं स्योपगमात् शास्त्रस्यापि तन्निरूपणार्थत्वादिति चेत्; कस्य पुनः शास्त्रेण तन्निरूपणम् ? विनेयस्येति चेत्; उच्यते
1
विनेयस्तदनन्यश्चेत् व्यर्थं शास्त्रं ततो गतेः ।
१५
२५
३०
अन्यश्चेत् कथमद्वैतं विरोधेनोपपीडनात् ॥ १६७७॥ अन्यः कल्पनयैवासौ न तत्त्वेनेति चेत् कथम् । कल्पनाऽपि तदद्वैते तदन्या शक्यकल्पना || १६७८॥ साऽपि करूपनयैवान्या न तु वस्तुत इत्यपि । दुर्विदग्धानामनवस्थोपबृंहणात् ॥ १६७९ ॥ ॥
दु
१ तदसम्भवस्य सं- ता० । २ णखोप- प० ।