________________
३३१५ ] ३ प्रवचनप्रस्तावः
२८१ ततो न तथागतागमवत् साङ्ख्याद्यागमस्यापि तत्त्वतः सोपायहेयोपादेयगोचरत्वमुपपन्नम् । प्रवचनस्य तु तदुपपत्तिमदेव प्रामाण्यात् , तस्य च अविसंवादादेव लिङ्गादवगमात् । कथमिदानी तस्यात्यन्तपरोक्षे धर्मादौ तदवगमः तत्राविसंवादस्याप्रतिपत्तेः ? कालान्तरे तत्रापि प्रतिपत्तिरिति चेत् ; नं; सति प्रामाण्यावगमे ततस्तद्विषये धर्मादौ प्रवृत्तिः, ततश्चाविसंवादोपलम्भः, ततोऽपि तदवगम इति चक्रकदोषात् । तन्न तत्र तदवगम इति चेत्, न; प्रत्यक्षादेरप्येवं तदवगमाभावप्रसङ्गात् । न ५ हि तत्रापि तदुत्पत्तिसमय एव संवादः संशयाद्यभावापत्तेः, प्रवृत्तिवैयर्थ्याच्च, अर्थक्रियायाः . संवादरूपत्वेन तदैव प्राप्तः। कालान्तरभाविनि च संवादे चक्रकदोषस्य तादवस्थ्यात् । कारणशुद्धिपरिज्ञानात्तत्र तदवगमो न संवादादिति चेत्, न; तत्परिज्ञानेऽप्यन्यतस्तत्परिज्ञानात् तदवगमे अनवस्था सक्तेः । प्रत्यक्षादेः प्रामाण्यावगमात्तच्छुद्धिपरिज्ञाने च परस्पराश्रयात्तदवगमात् कारणशुद्धिपरिज्ञानम् , ततश्च तदवगम इति। प्रसिद्धप्रामाण्यापरप्रत्यक्षादिसमानसामग्री- १० प्रभवत्वेन तत्र तन्निर्णय इति चेत्; अनुकूलमाचरसि, प्रवचनेऽपि तेनैव तन्निर्णयात् । विद्यते हि तत्राप्यत्यन्तपरोक्षविषये निश्चितप्रामाण्यप्रत्यक्षादिविषयप्रवचनसमानसामग्रीप्रभवत्वम्, उभयत्रापि सम्प्रदायाविच्छेदेन समानकर्तृत्वप्रतिपत्तेः । समानस्यापि कर्तुः कचिद्विप्रलम्भसम्भवे चक्षुरादावप्यनाश्वासापत्तेः । एतदेवाह
विश्वलोकाधिकज्ञाने विप्रलम्भनशङ्किनः।
प्रामाण्यं कथमक्षादौ चञ्चले प्रमिमीमहे ॥ १५ ॥ इति । विश्वः सर्वः लोकः प्राणिवर्गः, लोकयति पश्यतीति लोक इति व्युत्पत्तेः, तस्मादधिकं सर्वद्रव्यपर्यायतत्त्वसाक्षात्कारित्वेनोत्कृष्टं केवलाख्यं ज्ञानं यस्य पुरुषविशेषस्य स विश्वलोकाधिकज्ञानः पूर्व निर्णीतो निर्णेप्यमाणश्च तत्र विप्रलम्भनं वञ्चनं वीतरागाणामपि सरागवच्चेष्टासम्भवात् , आशकन्त इत्येवं शीला वयं वादिप्रतिवाद्यादयः प्रामाण्यम् अविप्रलम्भनम् अक्षादौ आदिपदात् २० लिङ्गादावपि कथं न कथञ्चित् प्रमिमीमहे निश्चिनुमहे, तत्रापि कदाचिद्विप्रलम्भस्योपलम्भात् अन्यथा इन्द्रियादिौन्त्याभा (न्त्यमा ) वापत्तेः । दोषवत्येव तत्र तदुपलम्भो न निर्दोष इत्यपि न युक्तम्; पुरुषेऽपि तुल्यत्वात् । दोषवानेव सर्वोऽपि पुरुष इति चेत्, इन्द्रियादिरपि सर्वस्तथा किन्न भवति ? बहुलमविप्रलम्भस्यापि तत्रोपलम्भादिति चेत् न; पुरुषस्यापि प्रत्यक्षानुमानविषये सर्वत्राप्यविप्रलम्भस्यैव प्रतिपत्तेः । तत्राविप्रलम्भनेऽपि स्वर्गादौ भवत्यपि विपलम्भनः पुरुषाणां विप्रलम्भेतरनियमासम्भवेन २५ चञ्चलत्वादित्यपि न युक्तम्; अक्षादावपि तन्नियमाभावेन चञ्चलत्वस्याविशेषात् । अत एवोक्तम्'चञ्चले इति । भवतु तत्राक्षादेविप्रलम्भनं यत्र तज्ज्ञाने बाधकप्रत्ययोपनिपातः, यत्र तु स नास्ति तत्राविप्रलम्भनमेवाङ्गीकर्तव्यम्, अन्यथा प्रवृत्तिनिवृत्त्यादिसकलव्यवहारविलोपप्रसङ्गादिति चेत् ; इष्टं चेष्टितम्; स्वर्गादावपि भगवतस्तद्वचने तँदभावादेव अविप्रलम्भप्रतिपत्तेः । न हि तत्रापि
१ न सति वचनस्य प्रा-आ०, ब०, ५०। २ -भ्रान्तो भावा-ता०। ३ भवति विआ०, ब०, प०। ४ बाधकप्रत्ययाभावादेव ।
३६