________________
१०
१५
२०
२५
२८०
न्यायविनिश्वयविवरणे
समवायस्य तत्तत्र "तेस्त्रम्" इत्यादि शोभताम् ॥ १६६२ ॥ ततो न गुणसम्बन्धात् संसारः कापि सम्भवी । " न च वै सशरीरस्य" इत्यादि तस्मादसद्वचः ॥ १६६३ ॥ निर्वाणमपि संसाराभावे दुरुपकल्पनम् ।
संसारच्युतिरूपं यन्निर्वाणं तद्विदो कथं वा गुणयोगस्य नित्यस्यास्ति यस निवृत्तिवः प्राह वेदो निर्वाणमात्मनः || १६६५ ॥ गुणस्यैव निवृत्तेश्चेन्निर्वाणं परिकल्प्यते ।
तस्यैव सति तद्योगे निवृत्तिः सम्भवेत् कथम् ॥ १६६६ ॥ तद्योगेऽपि निवृतिश्चेन्निवर्तकबला ततः ।
प्रवृत्तिरपि तद्योगाभागे किन्न प्रवर्तकात् ॥ १६६७ ॥ योगाभावे कथं पुंसि प्रवृत्तिस्तस्य चेत् कथम् । योगे सति ततस्तस्य निवृत्तिरपि कथ्यताम् ॥ १६६८ ॥ निवर्तकस्य नियमः कुतो वा परिकल्प्यताम् । सर्वात्मनां यतस्तस्मान्न तद्योगनिवर्तनम् ॥ १६६९ ॥ समवायान्न नियमस्तद्विभुत्वादितीरितम् । तद्विशेषप्रकृतिस्तु तदेकत्वोपाधिनी ॥ १६७० ॥ नियामकस्याभावेन नियमस्याव्यवस्थितेः ।
विदुः ॥ १६६४ ॥ निवर्तनम् ।
नियमेन प्रतीतिश्च तत्र वः सुलभा कथम् ॥ १६७१ ॥ तत्त्वज्ञानादि तन्नास्ति नियतं तन्निवर्तकम् । निवृत्तेर्नियमो यस्मान्निर्वार्ण नियमावहः ॥ १६७२ ॥ ततश्चानियमात् सर्वगुणयोग निवर्तने । प्राप्तं सर्वात्मनिर्वाणमेकनिर्वाणकारणात् ॥ १६७३ ॥ ततश्च “नियतं श्रेयो निःश्रेयसम्” इति स्वयम् । त्रिलोचनादेर्व्युत्पत्तिकरणं भूतमुद्रया ॥ १६७४ ॥ तन्न निर्वाणवादोऽयं युज्यते युक्तिकान्तया । ततः, 'अशरीरं वा' इत्यादि श्रुतिरप्यसदर्थका ।। १६७५ ।। प्रामाण्यवादस्तत्रायं तन्न युक्तिसु कल्पनः ।
इत्याशयवता प्रोक्तं वेद इत्यादिकं वचः ॥ १६७६ ॥
[३|१४
१ "तस्वं भावेन" - वैशे० सू० ७/२/२७ । २ छान्दो० ८ १२१ । ३ निवृत्तिश्चे-आ०, ब०, प० । ४ निवृ-आ०, ब०, प० । ५ सर्व नाशयतस्तस्मा - आ०, ब०, प० । ६ त्रर्णनि - आ०, ब०, प० । ७ छान्दो० ८|१२|१ |