________________
१.
३३१४] ३ प्रवचनप्रस्तावः
२७९ प्रतीतिः भवेत् । अनैकान्तिक [ श्च ] मिनबुद्धिप्रदात्मत्वं चेतनेऽपि भावात् । 'अनर्थविषयत्वे संति' इति विशेषणान्नेति चेत् ; न; तदात्मन्यपि अस्वसंवेदने तद्विषयत्वस्य निरूपितत्वात् ।।
____ यदपि तत्पदर्थत्वे साधनं प्रदर्श्यत्वादिति; तदपि व्यभिचारी, स्वसंवेदनेऽपि तस्याविविरोधात् । .. साहसान्तरमपि 'पुन इत्यादिना निवेदयति । पुनरिति पूर्ववत् , अस्यैव नित्यस्यात्मनो ५ निर्वाणं निःश्रेयसम्, अस्योपलक्षणत्वेन संसारमपि आह कथयति वेदा पूर्वोक्त एवायं प्रतीयमानः । कुतस्तदुभयं स तस्य इत्याह-गुणस्य प्रियाप्रियविकल्पस्य बुद्ध्यादेः योगश्च तस्यैव प्रत्यासत्तेः निवृत्तिश्च ताभ्यां तत इति स च'वेदः प्रमाणमिति साहसम् असम्भवदर्थवादिनस्तस्य साहसादन्यतः प्रामाण्यकल्पनाऽनुपपत्तेः । तथा हि- :
आत्मनो गुणसम्बन्धात् संसारित्वप्रकल्पने। । सम्बन्धस्यापि तत्क्लुप्तिस्तत एवोच्यतां त्वया ॥ १६५२ ॥ सम्बन्धिभ्यां न सम्बन्धस्तस्य चेत्तौ कथं तदा । सम्बन्धिनौ तयोस्तस्य भावे सत्येव तच्छृतेः ।। १६५३ ॥ असम्बद्धोऽपि सम्बन्धः समवायस्तयोर्यदि । संयोगोऽपि तथैव स्यात् सम्बन्धो दधिकुण्डयोः ॥ १६५४ ॥ तथा च समवायस्य तत्सम्बन्धस्य कल्पनम् । अप्रेक्षापूर्वकारित्वं यौंगवोक (लोक)स्य कल्पयेत् ॥ १६५५ ॥ सम्बद्ध एव संयोगः समवायोऽन्यथाऽपि चेत् । सम्बन्धत्वं प्रपद्येत वस्तुवैचित्र्यसम्भवात् ॥ १६५६ ॥ इहेदंप्रत्ययोऽप्येवं कश्चित् सम्बन्धपूर्वकः । अन्यथाऽपि भवेत् कश्चिदिति वैचित्र्यमुच्यताम् ॥ १६५७ ।। तथा च समवायस्य । तलिझादव्यवस्थितेः । कथं स गुणसम्बन्धः पुरुषस्योच्यतां त्वया ॥ १६५८ ॥ मुक्तात्मानोऽपि किन्नैवं त्वया संसारिणो मताः । गुणयोगस्य तत्रापि व्यापित्वेन व्यवस्थितेः ॥ १६५९ ॥ गुणो न तत्र तद्योगे सत्यपीत्यपि दुर्मतम् । तद्योगोऽस्ति स नास्तीति वचोव्याघातदर्शनात् ॥ १६६० ॥ तद्योगोऽपि न चेत्तन्न कथं सामान्यसनमः । द्रव्यमात्मेति वा तत्र प्रख्योपाख्या च यद्भवेत् ॥ १६६१ ॥ अन्य एव स योगश्चेत् कथमेकत्वकल्पनम् ।
१ सद्योगोऽस्तीति सन्मास्ति वचो आ०, ब०, ५०।