________________
न्यायविनिश्चयविवरणे
[ ३|१४
युल्लेखद्वयाधिष्ठानं पूर्वाऽपरैकत्वज्ञानमिति चेत्; कुतस्तस्य तदधिष्ठानत्वम् ? तस्य तत्र समवायादिति चेत्; तदुभयमपि यदि जडमेव न तद्बलेन पूर्वापरपरामर्शो रूपादिनाऽपि तदापत्तेः । अजडत्वे तु ज्ञानद्वयमेव तदिति' कथं तस्य ज्ञाने समवायः, गुणस्य निर्गुणस्यैवोपगमात् ! तन्न समवायाचस्य तत्त्वम् । अभेदादिति चेत्; न; तस्योल्लेखद्वयादभेदे तनानात्वं स्यात्, अन्वयस्य च तस्मादभेदे ५ तद्वदेक [व] स्य चापत्तेः कथमुभयोल्लेखि विज्ञानसम्भवः ! कथञ्चिद्भेदस्य च स्याद्वादन्यायविद्वेषिभिरनभ्युपगमात् । अभ्युपगमे युगपदिव क्रमेणापि परापरोल्लेख विवर्ताधिष्ठानै कज्ञानसम्भवस्याविरोधात् तदात्मैवात्माऽवस्थायीति तस्यैव प्रतिसन्धानोपपत्तेः तदन्यात्मकल्पनं विफलकल्पनतया परामर्श वैकल्यं परस्यावकल्पयति । तन्न प्रतिसन्धानबलादपि शरीरादेरन्य एव बुद्धिलिङ्गादनुमातव्य इति सिद्ध्यति तद्बलस्यैवासम्भवात् । तन्नानुमानमपि तत्र प्रमाणमिति तस्याऽभ्युपगमादेव सत्त्वमिति सूक्तम्- 'अपि १० सतः' इति । कथं सतः ? साक्षात् स्वत एव अर्थान्तरसत्तासम्बन्धात् सत्त्रे अतिप्रसङ्गादेर्दोषस्य प्रथमप्रस्तावे निवेदितत्वात् । तस्य च सुखादिर्विषय इति साहसम् । कुत एतत् ? तस्य स्वतोऽचेतनत्वादर्थान्तरस्य च ज्ञानस्य तत्रासम्भवात् । न हि तत्र व्याप्त्या तस्य वृत्तिः; व्याप्यस्य नित्यव्यापि - त्वेन तस्यापि सर्वत्र सर्वदा सत्त्वापतेः । नाप्यव्याप्त्या; तदधिष्ठितानाधिष्ठितरूपतया तस्य भेदापत्तेः । अन्यथा अधिष्ठितमेव सर्वथा तद्रूपमिति कथमव्याप्तिः ? अनधिष्ठितमेवेति कथं तस्य तत्र वृत्तिः ? १५ तत्प्रदेशे वृत्तेरिति चेत्; न; तत्त्वतस्तत्र तद्वत्त्वस्याभ्युपगमात् घटादिवत् कार्यत्वेनानित्यत्वापत्तेः । कल्पनया तद्भावे च स एवात्मा स्यात् बोधाऽधिकरणत्वात् । न चैतत्पथ्यं भवताम्, कल्पितात्मवादस्य बौद्धसिद्धान्तत्वात् । तन्नार्थान्तरमपि ज्ञानं तस्य यतः सुखादिर्विषयः स्यात् । कथं वा तेन सताप्यदृश्येन तस्य सुखादिवेदनम् आत्मान्तरज्ञानेनापि तदापत्तेः । दृश्यत्वमपि न तस्य स्वत एव; अनभ्युपगमात्, नान्यतोऽनवस्थापत्तेः । एतदेवोक्तम्- 'अदृश्यानुभवात्मनः " इति । अनुभव एवानुभवात्मा बुद्ध्यात्मर्वत् सोऽदृश्यः स्वपराभ्यामप्रत्यक्षो यस्य तस्येति । तन्न सत्यपि ज्ञाने स तस्य विषय इति साहसमेव परं तत्कल्पने निबन्धनम् । ततो यदुक्तम् - " सुखादिरात्म विशेषगुणनिमित्त आत्मविशेषगुणत्वात् विशेष्यज्ञानादिवत् " [ ] इति; तत्प्रतिव्यूढम् ; सुखादेरात्मनश्चाप्रतिपत्तौ तोराश्रयस्वरूपासिद्धेर्दृष्टान्तस्य च साध्यसाधनवैकल्यात् । एवमनुमानान्तरेऽपि सर्वत्र वक्तव्यम् ।
२०
२७८
२५
परमपरस्य साहसमुपदर्शयति- 'शब्द' इत्यादिना । शब्द आदिर्यस्य रूपादेस्तस्मादविशेषः सुखादिः अचेतनत्वेन तत्सदृश इत्यर्थः । तदेव कुतः ? घिया बुद्ध्या अन्यया स्वतो भिन्नया प्रदश्य ग्रत इति । तथा हि- अचेतनः सुखादिः भिन्नबुद्धिप्रदर्श्यत्वात् शब्दादिवत् । तद्बुद्धिप्रदर्श्यश्चासौ प्रदर्श्यत्वाद्वदेवेति । कुतः पुनरिदं साहसमिति चेत् ? सुखादेरनुभवात्मतयैव प्रतीतेः, तदचेतनत्वकल्पनस्य अनुभवबाधितत्वात्, अनुभवैकार्थसमवायितया तस्य तदात्मत्वेन प्रतीतेः । विभ्रम एवेति चेत्; न; बाधा वैधुर्यात् सर्वदा तदात्मतयैव प्रतीतेः । तथापि तद्विभ्रमकल्पनायां न काचिदचित्रमा 1
१ - ति चेत् का०, थं आ०, ब०, प० । २ - स्वं तदन्व - आ०, ब०, प० । ३ - खत्रत्ताद्विष्ठतैकज्ञान- आ०, ब०, प० । ४ तदन्तरस्यानभ्युप-आ०, ब०, प० । प्रदेशवत्वस्य । ५ तादृशेन आ०, ब०, प० । ६ - मासादृश्य: आ०, ब०, प० । ७ अचित्तत्वेन दृश्य इ-आ०, ब०, प० । ८ अनुभवात्मत्वेन । ६ प्रतीतिः प० ।