________________
२७७
३।१४ ]
तद्विशेषात् तस्यं संयोगादिरूपस्य तत्रानभ्युपगमात् । कल्पितमेव तत्र सामानाधिकरण्यं तत्त्वत उभयरूपाभावात्, तस्य चोभयरूपापेक्षत्वादिति चेत्; न; द्रव्यत्वादावनुवृत्तव्यावृत्तप्रत्यय निबन्धनतयोभयरूपसद्भावस्य परप्रसिद्धस्यैव 'सदसब्ज्ञानसंवाद' इत्यादि लोकव्याख्याने निरूपितत्वात् । संयोगसमवाययोश्च परस्परविलक्षणयोर विलक्षणस्य तत्त्वत एव सम्बन्धरूपयें बाधात् । तदभावे न कस्यचित् कचिद्वस्तुतः सम्बन्ध इति तन्निबन्धनः सकलोऽपि संसारादिव्यवहारो विलोपमापनपद्येत । ५ कल्पितस्य च तस्योपगमे मतान्तरापत्तिः, ततो विलक्षणेतररूपतया वास्तवमेव तस्य द्वैरूप्यमि कथं कल्पितत्वं तत्र सामानाधिकरण्यस्य विषयसद्भावात् । एवमपि कथं तस्याभेदे भेदरूपत्वमिति चेत् ? न; तस्यैव प्रतीतेरन्यस्य स्वयमप्यनभ्युपगमात् । तद्वदात्माऽहं प्रत्ययोरपि ताद्रूप्य एव तदिति सोपपत्तिकमत्यन्तव्यतिरेके तदनुपपत्तिप्रतिपादनम् । तन्नाहमिति प्रत्यक्षमात्मनि प्रमाणम् ।
.2
३ प्रवचनस्लाव:
नाप्यनुमानम्; लिङ्गाभावात् । शब्दादिज्ञानमेव तत्र लिङ्गम् । प्रयोगश्चात्र तज्ज्ञानं कचि- १० दाश्रितं गुणत्वात् रूपादिवत् । समवायिकारणपूर्वकं वा कार्यत्वात् तद्वदेवेति चेत्; न; ततोऽप्याश्रयमात्रादेरेव प्रसिद्धेः । तस्य शरीरादेरपि सम्भवात् कथं तद्विशेषस्यात्मनस्ततोऽनुमानम् ? न शरीरादिस्तद्बुद्धेराश्रयः स्वयमज्ञत्वात् । तथा च प्रशस्तकरस्य वचनम् - नासौ शरीरेन्द्रियवाङ्मनसामज्ञत्वात् " [प्रश० भा० पृ० ३०] इति । ततः पारिशेष्यादात्मैव तदाश्रय इति चेत्; न; आत्मनोऽपि तदविशेषात् । न हि सस्यापि स्वतो ज्ञत्वं ज्ञानसमवाय कल्पनावैफल्यापत्तेः । तत्समवायात् ज्ञ एव स १५ इति चेत्; न; परस्पराश्रयात्- ज्ञत्वे तत्समवायः, ततो ज्ञत्वमिति । स्वतो न तस्य ज्ञत्वं यतस्तत्समवायवैयर्थ्यम्, नाप्यज्ञत्वं यतो म तदाश्रयत्वम् अपि त्वनुभयरूपत्वमिति चेत्; न सारमेतत् ; यतःअन्योऽन्यच्युतिरूपत्वमज्ञत्वज्ञत्वयोर्यदि ।
कामावे कथन्न स्यादितरत्तत्र तात्त्विकम् || १६४९ ॥ तद्रूपत्वं तयोर्नो चेत् यौगपद्यं प्रसक्तिमत् ।
अज्ञस्यापि ततः प्राप्तं कायादेज्ञप्तिकल्पनम् ॥ १६५० ॥ तत्कथं पारिशेष्येण बुद्धेरात्मैव संश्रयः । कायादिनाऽपराद्धं किं स तथा येन नेप्यते ॥ १६५१ ॥
"
शरीरस्य तदाश्रयत्वेन प्रतिसन्धानं परस्परविलक्षणपरापरपरिणामभेदेन तस्यापि तदव्यतिरिक्ततया भिद्यमानस्यानवस्थानात् अवस्थितस्य च प्रतिसन्धायित्वमुपपन्नम्, भेदवतः परापरशरीरसम्बन्धिनो 'दर्शनस्मरणादेस्तदपरस्यात्मान्तरेवत्ता (बत्तदनुपपत्तेः, ततस्तदुपलभ्यमानमवस्थायिनमेव बुद्धेराश्रयमवकल्पयति, स चात्मैव, न शरीरम् । नापि चक्षुरादिकमिन्द्रियम्; तस्यापि शरीरवदेव परापरतया भेदवत्त्वेनावस्थायित्वासम्भवात् । मनसोऽवस्थायित्वेऽपि करणत्वेन बुद्धि प्रत्याश्रयत्वानुपपत्तेरिति चेत्; किमिदं प्रतिसन्धानं नाम यतस्तद" [ धिष्ठान ]स्यात्मनः कल्पनम् ? स एवायमि
प० ।
१ - षोक्तस्य आ०, ब०, प० । २ प्रत्यासत्तिविशेषस्य । ३ पृ० ११६ । ४-स्य भावे आ०, ५ - नः संसा-आ०, ब०, प० । ६ शब्दादिज्ञानम् । ७ “ न शरीरेन्द्रियमनसा मज्ञत्वात् " - प्रश० भा० । ८ विद्यमा-आ०, ब०, प० । ६ - रमत्ता ता० । १० सदस्यात्मावक-ता०]
ब०,
२०
२५