________________
२७६ न्यायविनिश्चयविवरणे
[३।१४ बुद्धयन्तराहते तां च पश्यन् पश्येत् तया विना। सुखादिकं तथा चासौ त्वसिद्धान्तो विरुद्धयते ॥ १६४४ ॥ ""आत्मनं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ १६४५ ॥ इन्द्रियाणि हयानाहुविषयांस्तेषु गोचरान् ।" इति । बुद्धिसारथिनैवासौ यदि तामपि धावति ॥ १६४६ ॥ तत्सारथीनामानन्त्यमनवस्थानतो भवेत् । ततो न पुंसि भोगोऽयं कथमप्यवकल्प्यते ॥ १६४७ ॥ तदभावान्न कैवल्यं भोगपच्युतिलक्षणम् ॥ तदेतद्भोगकैवल्यमागमस्याभिजल्पतः ॥ १६४८ ॥ प्रामाण्यं साहसादेव न्यायान्नेत्याह शास्त्रकृत् । [प्रदश्यः ] पुनरस्यैव गुणयोगनिवृत्तितः ।
निर्वाणमाह वेदोऽयं प्रमाणमिति साहसम् ॥१४॥ इति ।
पुनरिति वितर्कार्थम् अस्यैव कूटस्थस्य चेतनस्यात्मन एव नाचेतनस्य न क्षणिकचित्त१५ प्रवाहस्य निर्वाणम. उपलक्षणमिदं तेन संसारं च आह कथयति वेदोऽयम्"नहि (ह) वै सशरी
रस्य प्रियाप्रिययोरुपहतिरस्ति अशरीरं वावसन्तं प्रियाप्रिये न स्पृशतः।" [छान्दो० ८।१।२।१] इत्यादिः । कुतः स ते तस्याह ? गुणानां सत्त्वादीनां योगश्चात्मना सम्बन्धो भोगोपकल्पनालक्षणो निवृत्तिश्च तेषामेव तत्कल्पनादुपरमः ताभ्यां ततः । स चागमः प्रमाणमिति
साहसम् असम्भवदर्थाभिधायिनस्तस्य साहसादन्यतः प्रामाण्यकल्पनानुपपत्तेः । २० अथवा नित्यस्य योगपरिकल्पितस्यात्मनः । कीदृशस्य ? अपि सतः विद्यमानस्यापि
वस्तुतस्तस्याविद्यमानत्वम् अपिशब्देनाभ्युपगमवाचिना द्योतयति। तथा तदभावश्च सत्त्वव्यापिकाया अर्थक्रियायाः क्रमयोगपद्यानुपपत्या तत्रासम्भवाच । कथं पुनः तदभावो यावता प्रत्यक्षमेव 'अहम् इति प्रसिद्धोल्लेखं तत्र प्रमाणमिति चेत् ; न; तत्र तद्व्यतिरिक्तस्याऽपतिभासनात् । न हि नित्यो
व्यापी तद्व्यतिरिक्तश्च कश्चित् परपरिकल्पित आत्मा तत्रावभासते तथैवासम्प्रतिपत्तेः साङ्ख्यपरि२५ कल्पितचिच्छायाधिष्ठानबुद्धिसत्त्ववत् । प्रतिभासनेऽपि कथं तत्सामानाधिकरण्यम् 'अहमात्मा'इति ! • व्यतिरेके तदवलोकनात् घटतत्प्रत्यक्षवत् । तत्रापि समवायात्तदुपपत्तिरिति चेत्; न तेनापि
व्यतिरेकस्यानिराकरणात् । तन्निर्णयस्य तेन निराकरणमिति चेत् ; आत्मन्यपि स न स्यात् तस्य व्यतिरेकात् । अव्यतिरेकाद् व्यतिरेके तदव्यतिरेकस्यानिष्टस्य प्रसङ्गात् । तस्मात् कथञ्चिद
भेद एव सामानाधिकरण्यम् । भेदेऽपि प्रत्यासत्तिविशेषादुपपन्नमेव तत्, तत्कथं तत्र तदभाव ३० इति चेत् ? न; 'द्रव्यत्वादिकं सामान्यविशेषः, संयोगादिः सम्बन्धः' इत्यादाव भेदादेव तस्य प्रसिद्धः न
१ कठा० ३।३।४।२ नचव ता० । ३ सति.त- आ०, ब०, प० । ४ -दो भेदा- आ०, १०, प० ।