________________
३१४] ३ प्रवचनप्रस्तावः
२७५ स्वसंवेद्यत्वेनोपगमात् । तन्न तत्सम्पर्कात् सुखादेः स्वानुभवात्मत्वमुपपन्नम् । सत्यपि तच्छक्तस्तंदूपत्वे न तत्सम्पर्कादेव सुखादेरपि तद्पत्वं तच्छक्त रेपि सुखादिसम्पर्केण जहरूपत्वापत्तेः । नायं दोषः आविवेकख्यातिप्रादुर्भावाद् विषयसारूप्यस्य तत्रेष्टत्वादिति चेत्, तीदं दुर्भगं भवेत्"बुद्धयध्यवसितमर्थ पुरुषश्चेतयते"[ ] 'जडश्च' 'चेतयते' इति च व्याघातात् । न व्याघातः विभ्रमेतराकारयोर्युगपत्सम्भवात् सर्परज्जुबदिति चेत्; उपपन्नः सर्पाकारः सत्यप्याकारान्तरे तस्य । प्रतिपनन्तराधीनत्वात् , नैवमत्र, तच्छत्तरेव जडरूपतापत्तेः, तस्यां च चितिप्रच्युतेरावश्यकात् । . नास्त्येव तत्र तदापा, केवलं तदापत्तिरिव भवतीति चेत् ; तन्न ; यस्मात्
यदि तत्र न तद्रपमिवार्थः कथमत्र ते ।।
यदि तत्रापि तद्रूपमिवार्थः कथमत्र ते ॥ १६४२ ॥ यदि वस्तुतस्तत्र तदापत्ति स्त कथम् इवप्रयोगस्तदर्थाभावात् ? . कथमिदानी रज्जुशकले १० सर्प इवेति व्यवहार इति चेत् ? न; सर्पविभ्रमदशायां तदभावात् । अविभ्रमदशायां तु तद्भावो दैर्ध्यादेः सर्पसादृश्यस्य भावात् । तथा यदि तत्र तत्त्वतस्तदापत्तिः कथम् इवप्रयोगः ? न हि तदेव तदिवेति भवति, तस्यैवाभावप्रसङ्गात् । यदा यद्भवेत् तत्तदा तदित्येवावस्थानात् न तदिवेति । तदभावे न तदिवेत्यपि सम्भवति, तस्य तदपेक्षत्वात् ।
स्यान्मतम्-नास्त्येव वस्तुतस्तत्र तदापत्तिरपि तु विभ्रमादेव, सापि न तच्छक्तेर्बुद्धिधर्म- १५ त्वात् । बुद्धिरेव हि तत्र अविद्यमानामपि तदापत्तिमुपदर्शयति विभ्रमदोषात्, ततो न किञ्चित् . तस्यां बुद्ध्यादिसम्पर्कादुत्पद्यते, स्वस्थैव सर्वदा तच्छक्तिरिति; यद्येवं तच्छक्तिसम्पर्काद् बुद्धयादावपि न चितिरूपापत्तिरविशेषादिति कथं बुद्धेर्विम्रमकल्पनम् ! कथञ्चिदपि तत्र चिद्रूपासम्भवे कलशादिवत्तदनुपपत्तेः । उपपन्ना चितिसम्पर्काद् बुद्ध्यादेस्तदाकारापत्तिः परिणामित्वात् न चितेस्तत्सम्पऽर्केपि । ताध्यापत्तिः कौटस्थ्येन विपर्ययादिति चेत् ; अनुकूलमाचरसि, तथा सति वस्तुत एव बुद्धिसुखा- २० देश्चेतनत्वव्यवस्थितेः तथापि परिणामात् । न हि तथापरिणतमन्यथेति शक्योपकल्पनम् , बुद्धित्वा. द्यपेक्षयापि तत्कल्पनापसङ्गेन "गुणप्रतिष्ठाविलोपापत्तेः । न चैवं तद्व्यतिरिक्तात्मकल्पनमप्यर्थवत्, तस्य स्वहेतुप्रकृतेरेव तत्परिणामोपपत्तेः । तन्न सुखादेः शब्दाद्यविशेषत्वं चेतनेतररूपतया विशेषस्यैवोपपत्तेः।
__यच्चेदं परस्य मतम्-सुखादिरप्यर्थान्तरबुद्धयुपदर्शित एव पुरुषस्य विषयो न साक्षादिति, २५ तदर्शनार्थमिदमुक्तम्-'धियाऽन्यया प्रदर्यः इति । तत्रापि 'साहसम्' इत्यभिसम्बद्धव्यम् । कुत एतदिति चेत् ? उक्तनीत्या सुखादेः स्वानुभवसिद्धौ तदनुभाविनः पुरुषस्य तदुपकरणस्य बोधस्य । च व्यर्थस्यैव स्वसिद्धान्ताभिनिवेशपरवशतया प्रतिपादनात् । किञ्च,
बुद्धिं न चेन्नरः पश्येत् सुखादिं नैव तद्गतम् ।
दर्पणं न ह्यपश्यन्तो मुखं पश्यन्ति तद्गतम् ॥ १६४३ ॥ १ "एतदेव स्वसंवेदनं यदन्यागोचरत्वे सति प्रकाशनं नाम ।"-प्र० वार्तिकाल० ३।४६६ । २ चैतन्यरूपत्वे । ३ चेतनत्वम् । ४ दुर्भागं आ०, ब०, प०। ५ गुणिप्रति- आ०, ब०, प० ।