________________
२७४
न्यायविनिश्चयविवरणे
[३।१४ तत्सङ्क्रमेऽपि तद्रूपः परतत्सक्रमात् यदि । परतत्सङ्कमोऽप्येवं विचारादनवस्थितिः ॥ १६३४ ॥ तन्न तवारतोऽप्यस्ति सुखादावुन्मुखं वपुः । आत्मनो येन तस्यासौ विषयः परिकल्प्यताम् ॥ १६३५ ॥ को वा तत्सक्रम तत्र सुखादौ विदधीत वः । आत्मैव चेत् कथं तस्याकर्तुस्तद्विधि'सम्भवः ॥ १६३६ ॥ कर्तृप्रधानसंसर्गात् कतैवात्मेति चेदसत् ।
औपचारिकतः कर्तुर्वस्तुतत्सक्रमस्थितः ॥ १६३७ ।। तत्सक्रमोऽप्यवस्त्वेब यदि तद्वशतः कथम् । पारमर्षेः प्रकल्प्येत पुंसि तत्त्वेन संसृतिः ॥ १६३८ ॥ संसारोऽप्युपचाराच्चेन्मुक्तौ किन स कथ्यते । तैदाऽपि तत्संसर्गस्य नित्यव्यापिनि सम्भवात् ॥ १६३९ ॥ तत्संसर्गो न कर्तृत्वाधुपचाराय चेत्तदा । पूर्वमप्यविशेषेण न स्यादेवं भवः कथम् ॥ १६४० ॥ उपचारेण कर्तृत्वादात्मा तत्सक्रमावहः ।
यतस्तद्विषयत्वोक्तिः सुखादौ साहसं न वः ॥ १६४१ ॥ इदमेव चेतसि कृत्वेदमुक्तम्-'अदृश्यानुभवात्मनः" इति । दृश्यस्य दर्शनविषयत्वेनाभिमतस्य सुखादेर्योऽनुभवः साक्षादुपचारेग वा तस्यात्मा स्वभावो दृश्यानुभवात्मा स न विद्यते
यस्येति । साहसान्तरं दर्शयितुमिदमुक्तम् । 'शब्दाद्यविशेषः' इति शब्द आदिर्यस्य रूपादेस्त२० स्मादचेतनत्वादिना धर्मेणाविद्यमानविशेषः सुखादिरिति साहसमिति पदयोजनम् । कथमिति चेत् ?
स्वानुभवरूपतया तस्य संवेद्यमानस्याचेतनत्वप्राकृतत्वादेरनुपपत्तेः । चिच्छक्तिसम्पर्कादेव तस्य तथा संवेदनं न स्वत इति चेत् ; न; तच्छक्तरपि स्वानुभवाभावात् ।
___ माध्यस्थ्यपदेन तत्र स्वपरविषयत्वस्य प्रतिक्षेपात् । तथा च तत्र कस्यचित् व्याख्यानम्"इह कश्चित् स्वसंवेद्यत्वाद् विषयो यथा बौद्धीयं विज्ञानम्, कश्चित् परवेद्यत्वात् यथा २५ वैशेषिकीय आत्मा अस्मदन्तःकरणं वा, अयं तु नोभयथेति मध्यस्थः ।" [ ]
इति; तत्रायमेव स्वानुभवो यत् परनिरपेक्षं प्रतिभासनम् न स्वत: स्वस्य यतो विषयत्वप्रसङ्ग इति; न; तस्य स्वापेक्षत्वे तत्प्रसङ्गस्य दुर्निवारत्वात् । निरपेक्षत्वे च व्यवच्छेद्याभावेन परिग्रहणवैयर्थ्यात् ।
भवतु तंदुभयनिरपेक्षमेव तदिति चेत्, न; आत्मन्यसति तस्यैवाभावात् । सति चेत्; कथ निरपेक्षत्वं तद्भावाभावानुविधानस्यैव तदपेक्षालक्षणत्वात् , तदपेक्षप्रतिभासनस्यैव च बौद्धैरपि
१ तद्विदिसंभ- आ०, ब०, प०। २ संस्कृतिः आ०, ब०, प०। ३ तथापि आ०, ब०, ५०। ४ सुखादेरिति आ०, ब, प०। ५-स्थ्यपदेव आ०, ब०, प० ।।