________________
३१४ ]
३ प्रवचन प्रस्तावः
[ योगसू० २।२८ ] इति । तन्न सांसर्गिकादपि चैतन्यात्तस्य तदर्थं प्रवर्तनमुपपन्नम्, सर्वदा विवेकस्यैव दर्शनेनाविवेकविभ्रमस्थाप्रसङ्गात्, अन्यथा पश्चादपि तदर्शनाभावस्य निवेदि - तत्वात् । भवतु अचेतनस्यैव तस्य तदर्थं प्रवर्तनं यत्सवृद्धिनिमित्तं क्षीरस्येव । तदुक्तम्
२७३
" वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोचनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥" [ सांख्यका० ५७ ]
इति चेत्; तन्न सारम् ; तत्प्रवर्तनेन चेतनाधिष्ठानसाधनस्य पूर्वोक्तस्य विरोधात् । तदयं तदिधिष्ठतस्यैव प्रवृत्तिमभिधाय पुनरन्यथाऽपि तां ब्रुवाणो विस्मरणशील एवेश्वरकृष्ण इति सुनिश्चितं नश्चेतः । तन्न तदर्थस्य प्रवर्तनस्यापि तत्र लिङ्गत्वमिति न सुभाषितमेतत्"सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ॥" [ सांख्यका० १७ ] इति । १० तन्नानुमानं पुरुषे प्रमाणम् ।
तत्सङ्क्रमादचिद्रूपात्तत्र चिद्रूपता कथम् ।
अन्यथा लोहितत्वं स्यात् स्फटिके पीतसङ्क्रमात् ॥ १६३३ ॥ १ अचैतन्यस्यैव आ०, ब०, प० । २ न तत्सारं प० । ३- मुख्यं य-प० ।
३५
५
नापि - " महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषान्नापरं किश्चित् सा काष्ठा सा परा गतिः ॥" [ कठो० ३।११-] इत्यादिरागमः; तेनापि पुरुषस्वभावस्य तदस्तित्वज्ञानस्याकरणात्, तन्नित्यत्वव्यापत्तेः । बुद्धेश्चाचेतनत्वेन तज्ज्ञानत्वानुपपत्तेश्चेति । सम्पर्कस्य च तत्र निषेत्स्यमानत्वात् । अन्यस्य च प्रमाण- १५ स्यानभ्युपगमादसन्नेव पुरुषः प्रमाणातिवर्तीति कथं तस्य सुखादिर्विषयो यतस्तन्मतं साहसमेव न भवेत् ? सतोऽपि तस्य स विषय इति साहसमेवेति न मन्वानेन इदमुक्तम्- 'अपि साक्षात् ' इति । साक्षात् अव्यतिरिक्तया सत्तया न वैशेषिकादिवत् व्यतिरिक्तया सतोऽपि विद्यमानस्यापि नित्यस्यात्मनः स विषय इति साहसमेव । तथा हि तदुन्मुखमात्मरूपं सर्वदेति सुखादिरपि सर्वदा भवेत्, असति तथा तस्मिन् तथा तदनुपपत्तेः, अन्यथा सकृदपि तदभाव एव तत्सम्भवान्न ततः सुखादि- २० स्वरूपस्यापि व्यबस्थापनमिति निर्विषयमेवेदम् - "बुद्धयध्यवसितमर्थं पुरुषश्वेतयते” [ ] इति । न च तस्य नित्यत्वम्; “हेतुमदनित्यम्” [ सांख्यका० १०] इति तदनित्यत्ववचनविरोधात् । न साक्षादात्मरूपं तदुन्मुखं यतोऽयं प्रसङ्गः किन्तु तदभिमुखचिच्छायास क्रमद्वारेणैव । तच्छायायाश्चात्मनोऽर्थान्तरत्वेनानित्यत्वादुपपन्नमेव अनित्यत्वं सुखादेरिति चेत्; न; तस्या अचिद्रूपत्वे कलशादिवत् तदुन्मुखःवासम्भवात्, अन्यथा सुखादेरेव स्वात्मनि उन्मुखत्वसम्भवात् व्यथैव तत्सङ्क्रम- २५ कल्पना भवेत् । चिद्रूपत्वे च पुरुषत्वेनानित्यत्वानुपपत्तेः "चैतन्यं पुरुषस्य स्वरूपम् " [ योगभा० ११९ ] इति वचनात् । चिच्छायासङ्क्रमादेव तत्रापि तद्रूपत्वं न साक्षात्तदयमदोष इति चेत्; तदसास्म्; यस्मात् -
८३