________________
२७२ न्यायविनिश्चयविवरणे
[३।१४ तद्विपर्ययाविनाभावः, अन्यथा ततस्तदुभयविलक्षगपदार्थान्तरप्रसिद्धेः 'व्यक्ताव्यक्तज्ञरूपमेव जगत्' इति स्वमतव्यापत्तिर्भवेत् । अस्ति च तयोः सामान्यं वस्तुशक्तिमत्त्वाद्युभयनिष्ठम्, अन्यथा तदन्यतरविलोपापत्तेः । तन्न त्रिगुणादिविपर्ययस्य तत्र लिङ्गत्वम् । नाप्यधिष्ठानस्य; अकर्तुरधिष्ठातृत्वानुपपत्तेः,
कर्तृविशेषतयैव तस्य लोकप्रसिद्धत्वात् । सत इदमयुक्तम्-"चेतनाधिष्ठितं महदादि प्रवृत्तिमत् . [अचेतनत्वात वास्यादिवता] इति; हेतोरिष्टविपर्ययसाधनेन विरुद्धत्वात्, कर्तृविशेषस्यैवाधिष्ठातुरतः
प्रत्यायनोपपत्तेः, साङ्ख्यैश्च तस्यानिष्टत्वात् । तन्नाधिष्ठानस्य लिङ्गत्वम् ।. नापि भोक्तृत्वस्य; निषेत्स्यमानत्वात् । न च कैवल्यार्थस्य प्रवर्तनस्य; तदतगतविकल्पानतिक्रमात् । न हि पुरुषगतमेव तत्तत्र लिङ्गम् ; पुरुषासिद्धौ तस्यैवासिद्धेः। अन्यतरतत्सिद्धावस्य वैफल्यात् । अत एव तसिद्धौ परस्पराश्रयापत्तेः
अतस्तत्सिद्धया लिङ्गसिद्धिः, अतश्च तत्सिद्धि रिति । दिगतमेव तत्तंत्र लिङ्गमिति चेत् तत्रापि कस्य तत्कैवल्यं यदर्थ प्रवर्तनम् ? पुरुषस्येति चेत्, न; तत्कैवल्यस्य गुणविवेकरूपस्य नित्यत्वेनासाध्यत्वात् । अथासौ तद्विविक्तोऽपि अविविक्त इव भवति विवेकादर्शनात् , ततो विभ्रमनिवर्तनेन स्पष्टतामुपनीयमानं तत्कैवल्य साध्यमिव भवतीति सङ्गतमेव तस्य तदर्थत्वमिति चेत्; कस्येदं विवेकादर्शनं यतो विभ्रमः ? पुरुषस्येति चेत्, तद्यदि तस्य स्वरूपमेव; तर्हि तद्वदेव नित्यमिति कथं तन्निबन्धनस्य विभ्रमस्य निवर्तनम् ? सति समर्थे हेतौ तत्प्रसवस्य कुतश्चिन्निवर्तनानुपपत्तेः । निवर्तकमपि समर्थमेवेति चेत्; तर्हि प्रवृत्तिनिवृत्त्योरक्रमप्रसङ्गः संसारकैवल्ययोरपीति महानयं परस्य सङ्कटप्रवेशः, उत्प्रसङ्गस्य विरोधविधुरितविग्रहस्य कुतश्चिदपि निश्चेतुमशक्यत्वात् । अथासमर्थमेव प्रवर्तकम्; तहिं दैवादेव विभ्रमस्याभावात् कथं तन्निवर्तनाथ (र्थत्व) प्रवर्तनस्य ? सामर्थ्यमेव तस्य निवर्तकेन प्रतिरुध्यत इति चेत; न; पुरुषरूपस्यानित्यत्वायत्तेः, समर्थस्यासमर्थत्वेन भावात्, "तदतावादनित्यत्वम्" [ ]इति न्यायात् । अथ तत्तस्य स्वरूपं न भवति बुद्धिस्वरूपत्वात् , केवलं विवेकादर्शनादेव, तदपि तस्यैव भवतीति चेत्, न; तत्रापि 'करयेदम्' इत्यादेः प्रसङ्गादनवस्थानोपस्थानाच्च । तन्न विवेकादर्शनं पुरुषस्य । भवतु बुद्धिसत्त्वस्यैवेति चेत् ; तस्यापि कुतस्तदापन्नम् ! स्वयं जडत्वादिति चेत्, कथमिदानी प्रवर्तनमपि, जडत्वस्य (जडस्य) स्थतरतदसम्भवात् । सांसर्गिकाच्चैतन्यादिति चेत; विवेकदर्शनमेव ततः किन्न स्यात् । तत्तत्र क्षमं न भवतीति प्रवर्तन एव क्षमत्वात् प्रवर्तनादृर्वमपि कथं तस्य तत्क्षमत्वं यतः प्रवर्तनमर्थवद्भवेत् ? यमनियमाद्यनुष्ठानरूपात् प्रवर्तनादशुद्धिक्षये ज्ञानस्यातिशायनादिति चेत्, तेन तज्जाड्यरयापवर्तने 'चितिकरुपनावैफल्यम् । अनपवर्तने कः प्रागवस्थातस्तस्य विशेषो यतः तदा विवेकदर्शनम् ? चितिरेव तदा तेन तत्क्षमाक्रियते इति चेत्, न; तदनित्यत्वापत्त्या दत्तोत्तरत्वात् । ततो न सङ्गतमिदम्-"योगानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः"
१ "एतानि पञ्चविंशतितत्त्वानि ब्यक्ताव्यक्तसंज्ञानि"-सांख्य० माठर० का०९। २ "न ह्यन्तरेणाधिष्ठातारं भवति वस्तुजातम् । तद्यथा इहलोके लङ्घनप्लवनसमर्थैरश्वैर्युक्तो रथः सारथिनाऽधिष्ठितः प्रवर्तते ।"-सांख्यका० माठर० १७ । ३ लिङ्गत्वमिति सम्बन्धः। ४ वैकल्यार्थ प्रवर्तनम् । ५ पुरुषः । ६ प्रवर्तमानस्य सामथ्र्य मेव कस्यचिन्निवर्तकेन प्रतिपद्यत इति आ०, ब०, ५०। ७ कैवल्यम् ।८ चेति कल्प-आर, ब०, ५०। ९ "योगामानुष्ठानात्"-योगसू०।