________________
३।१३-१४] ३ प्रवचनप्रस्तावः
. २७१ तेरन्यथाऽनुपपतेः । वक्ष्यते चैतत्-"अहं ममास्रवो बन्धः" इत्यादिना । ततस्तदेकत्वस्य फलवत्त्वात् सन्तानव्यवस्थाऽन्यथाऽनुपपत्त्या निश्चितत्वाच्च तात्त्विकमेव तयोरेकाधिकरणत्वमिति सूक्तम्'आत्मन एव मोक्षः' इति, 'सन्तानात्मनोः शब्दमात्रमेव भिद्यते' इति च ।।
तदेवं सौगतमते 'सर्वथा सदुपादेयम्' इत्यादिना प्रागभिहितसत्यचतुष्टयाभावं 'करुणा इत्यादिभिः सविस्तरं व्याख्याय सुगतस्य तत्प्रवक्तृत्वं प्रत्याख्यातम् । साम्प्रतं साङ्ख्यादिमते ५ वेदस्य तत्पचिस्यासुराह
नित्यस्यापि सतः साक्षादृश्यानुभवात्मनः। सुखादिर्विषयः शब्दाद्यविशेषो धियाऽन्यथा ॥१३॥
प्रदश्यः [पुनरव गुणयोगनिवृत्तितः। ] इति । 'आत्मना इत्यनुवर्तते, तस्य नित्यसामान्यवचनेऽपि कूटस्थस्येति, तस्यैव साङ्खयैरभ्युपगमात् । १० सुखादिः आदिशब्दात् दुःखादिः विषयो वेद्य इति 'साहसम् इति वक्ष्यमाणेन सम्बन्धः । कुतः पुनरेवं परमतं साहसमिति चेत् ? असम्भवदर्थत्वात् । तथा हि
सत्त्वमेव न तस्यास्ति क्रमाक्रमविकल्पतः । अर्थक्रियाया यत्तत्र तव्यापिन्या न सम्भवः ॥१६२९॥ इति विस्तरतः पूर्वमस्माभिः सुविवेचितम् । प्रमाणाभावतश्चास्य न सत्त्वमुपपत्तिमत् ॥१६३०॥ प्रत्यक्षतो न तस्यास्ति कूटस्थस्य प्रवेदनम् । तथाऽनुभववैकल्यात् क्षणक्षीणाणुबोधवत् ॥१६३१॥ लिङ्गतोऽपि न तस्यास्ति प्रतीतिस्तदसम्भवात् ।
सङ्घातस्य परार्थत्वं तल्लिङ्ग प्रानिराकृतम् ॥१६३२॥ त्रिगुणादिविपर्ययस्तत्र लिङ्गं तस्य त्रिगुणादिनैव व्यवस्थापनात् । तथा हि-प्रधानस्य व्यक्तरविभेदयं त्रिगुणादि तद्विपर्ययापेक्षं तथात्वात् प्रकाशादिवत् । यत्र तद्विपर्ययः स पुरुषस्तस्य स्वतन्त्रस्याभावात् प्रकाशादिविपर्ययस्य तमःप्रभृत्यधिष्ठानस्यैवोपलब्धेः । तत्र त्रैगुण्यादेव सङ्घातसम्भवात तस्यैव च कर्तृत्वोपपत्तेः, तद्विपर्ययात् पुरुषस्यासङ्घातत्वमकर्तृत्वं च, अविवेकविपर्ययाच्च । रजस्तमःकालुष्यविवेकात् कैवल्यम्, अचेतनविपर्ययाच्च दृष्टत्वम् , अतश्च साक्षित्वं विषयविपर्ययाच, स्वपरवेद्यत्ववैधुर्यात् माध्यस्थ्यञ्च सिद्धमवबोद्धव्यम् । तदुक्तम्
"तस्माच विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं दृष्टत्वमकर्तृभावश्च ॥" [सौख्यका० १९ ] इति चेत्, तन्नः त्रिगुणादेः तद्विपर्ययाविनाभावासम्भवात् प्रकृतिपुरुषसामान्यवत् । न हि तस्य
१ न्यायवि० श्लो० ४३७ । २ ' एकरूपतया तु यः काल व्यापी सकूटस्थ:-इत्यमरः।" ता० टि०। ३ वेद्यते इति आ०, ब०, प० । ४ संघातपरमार्थत्वं आ०, ब०, प०। ५ व्यक्तिरपि भे-आ०, . ब०, ५०। ६ महदाद्यभेदस्यैव प्रधानत्वात् । ७-वात् संघातस्यैव आ०, ब०, प०।
१५