________________
२७० न्यायविनिश्चयविवरणे
. [१२ क्लेशनिष्कमलक्षणः स आत्मनो वा आत्मन एव । वाशब्दस्य अवधारणार्थत्वात् । अन्वितज्ञानप्रवाहस्यैव चात्मत्वेन स्याद्वादिभिरभीष्टत्वात् । ततो नात्मसन्तानयोरस्ति वस्तुतो भेदः, अन्यत्र 'सन्तानः' इति 'आत्मा' इति शब्दमात्रभेदात् । तदेवाह-'इति शब्दमात्रं तु भिद्यते' इति वस्तुतोऽपि भेद एव, अन्वयस्य कल्पनोपरचितस्य सौगतैरभ्युपगमात् , स्याद्वादिभिश्च तात्त्विकस्येति ५ चेत्, न; तात्त्विकस्याभावे कल्पनयापि तदनुपपत्तेः । न हि तयापि क्षणिकया तदुपरचनं परापरतद्भागेषु तेदवृत्तेः । तया तैदग्रहणे च तदाधारतया अन्वयोपरचनानुपपत्तेः । अस्त्येवान्वयस्तरक्षणानामपि कल्पनारचित इति चेत्, न; अनवस्थाप्रसङ्गेनान्वयस्य दुरापत्वापत्तेः । ततो यदुक्तम्
"नैकाधिकरणत्वं चेत् प्रसक्तं बन्धमोक्षयो।। .
संवृत्यैकाधिकरणभावो नैव निवार्यते" ॥ [प्र० वार्तिकाल० ११२०३ ] इति ।
तत्प्रतिविहितम्; कल्पनया तदेकत्वोपरचनानुपपत्तौ तया बन्धमोक्षयोरेकाधिकरणत्वस्य दुरुपपादत्वात् । ततो दूरमनुसृत्यापि कल्पनाक्षणानां तत्त्वत एवान्वयसम्भवे मुक्तेतरचित्तक्षणानामेव तथा स वक्तव्य इति कथं संवृत्या तयोस्तदधिकरणत्वं तत्त्वत एव भावात् । न मुक्तस्य तत्काले बन्धो विरोधात्, न च तदा तस्य किश्चित् फलं तदभावस्यैव फलत्वात् । प्रागासीत् तस्य बन्ध
इति चेत्, न; तस्यापि "विनष्टत्वेन क्वचिदनुपयोगात् । कथं वा स्वयं परिशुद्धः सन्नपरिशुद्धन १५ प्राच्याकारेणैकत्वं निश्चिनुयात् अप्रेक्षावत्त्वापत्तेः ! तदुक्तम्
“यो मुक्तस्तस्य बन्धो न तदा किं वा प्रयोजनम् । प्रोग्बन्धमासीदिति चेत्, तदपि क्वोपयुज्यताम् ॥ अप्रेक्षापूर्वकारी स्यात् प्रागेकत्वस्य निश्चयात् । अयुक्तं चैतदिति चेदतदिष्यत एव हि ॥” [ प्र० वार्तिकाल० १।२०३ ] इति ।
तन्न बन्धमोक्षयोरतत्त्वत एकाधिकरणत्वं संवृत्यैव तदुपपत्तेरिति चेत्; न; तत्त्वतस्तदभावे २० तयापि तदनुपपत्तेनिवेदितत्वात् । न च पुरुषार्थवशाद्भावानां तथात्वमन्यथात्वं वा; स्वहेतुप्रकृतेरेव
तदुपपत्तेः, अन्यथा तादर्थ्य विकलो न कश्चिदपि भावो भवेत् । तदा व्याहतमिदम्___"सर्व" पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ।" [प्र० वा० १।३५] इति । तद्विकलतयाऽनिष्टेऽपि वस्तुनि सत्येवैवंवचनोपपत्तेः । भवतु नाम मुक्तस्य बन्धैकत्वं निश्चिन्वतोऽ. प्रेक्षावत्त्वं बद्धस्य तु नैवं तस्य मोक्षकत्वनिश्चये सत्येव तदर्थस्य प्रयासस्य प्रेक्षापूर्वकत्वव्यवस्थि
१ तवृत्तेः आ०, ब०, प०। २ तद्ग्रहणे आ०, ब०, ५०,। ३ -परवचना-आ०, ब०, १०। ४ कल्पनायां आ०, १०, ५०,। ५ विशिष्ट-आ०, ब०, ५०, । ६ “पूर्व ममासोदिति चेत्तदपि क्वोपयुज्यते"-प्र० वार्तिकाल०। ७-ति तदेतदि-आ०, ब०, प०। ८ वा स्वस्वहे-आ०, ब०, प०। ९ तथा ग्या-आ०, ब०, प०। १० "दूरं पश्यतु"-प्र० वा० ११३५ ।