________________
३।११-१२
३ प्रवचनप्रस्ताव:
-२६९
- तावदद्वैतात्मनः सुगतस्य प्रहीणसमुदयस्य समतोपपन्ना तदा तद्विषयस्य संवृत्यापि तत्सङ्घातस्याभावात् । चित्तसन्तानावस्थितिरूपस्य तस्य तेन समेता तदवस्थितिश्च करुणयेति चेत्; तदाहयस्तावत्करुणावत्त्वात् तिष्ठत्येव हि चेतसाम् ।
सन्तानः । इति ।
स्वपदव्याख्यातमिदम् ।
अत्र दूषणमाह
स परोच्छेदान्न समत्वं प्रपद्यते ॥ ११ ॥ इति
१०
तात्पर्यमत्र - स तद्वत्त्वात् अवतिष्ठमानः परस्य विनेयवर्गस्योच्छेदायावतिष्ठते सन्ताननिरोधस्य निर्वाणस्य वचनात् तस्य परिशुद्धपरापरज्ञानसन्तानकरणाय वा तद्रूपस्यापि निःश्रेयसंस्थाभिधानात् ? तत्राद्ये विकरूपे दूषणमिदम् - सः अवस्थायी सन्तानः समत्वं रागादिवैकल्यरूपं सर्वसत्त्वेषु न प्रपद्यते सति तस्मिन् परोच्छेदविरोधात् । अस्ति च तस्य तदुच्छेदः, ततो न स तत् प्रपद्यते इति । द्वितीयेऽपि विकल्पे न तावदसौ निरन्वय एव सन्तानः तदा हेतुफलभावाभावेन तत्प्रवाहरूपस्य तस्यैवानवस्थानात् । निरूपितं चैतत्पूर्वम् । तत्कथं तस्य शुद्धिरशुद्धिर्वा कल्प्यते असतस्तदनुपपत्तेः वन्ध्यापुत्रवत् । ततो यथेदमात्मनि नित्ये कथ्यते -
“दुःखोत्पादस्य हेतुत्वं बन्धो नित्यस्य तत्कुतः ?
१५
अदुःखोत्पादहेतुत्वं मोचो नित्यस्य तत्कुतः ॥ [ प्र० वा० १।२०४ ] इति ।
तथेदमपि कथयितव्यम् -
संसारदुःखसम्बन्धः सन्तानस्यासतः कथम् ?
मोक्षोप तदसम्बन्धः सन्तानस्यासतः कथम् ॥ १६२८ ॥ इति । ततः कथञ्चिदैन्वय्येवासौ । तथा चेत्; आह
तथा निरास्त्रवीभावः संसारान्मोक्ष उच्यते । सन्तानस्यात्मनो वा [ इति शब्दमात्रं तु भिद्यते ] ॥ १२॥ इति । ‘यः सः' इत्यनुवर्तते । यः परेण संसारान्मोक्ष उच्यते । कस्य ? सन्तानस्य । कथं कीदृशश्च ? तथा तेन कथञ्चिदन्वयस्य कल्पनाप्रकारेण निरास्रवीभावः सकलमिथ्याज्ञानरागादि
१ समवता आ०, ब०, प० । २- स्थितश्च ता० । ३ करुणावत्वात् । ४ " इह हि भगवता उषितब्रह्मचर्याणां तथागतशासनप्रतिपश्चानां धर्मानुधर्मप्रतिपत्तियुक्तानां पुद्गलानां द्विविधं निर्वाणमुपवर्णितं सोपधिशेषं निरुपधिशेषं च । तत्र निरवशेषस्याविद्यारागादिकस्य क्लेशगणस्य प्रहाणात् सापधिशेषं निर्वाणमिष्यते । तत्रोपधीयतेऽस्मिन्नात्मस्नेह इत्युपधिः । उपधिशब्देन आत्मज्ञ तिनिमित्ताः पञ्चोपादानस्कन्धा उच्यन्ते । शिष्यत इति शेषः । उपधिरेव शेषः उपधिशेषः । सह उपधिशेषेण वर्तते इति सोपधिशेषम् । किं तन्निर्वाणम् । तञ्च स्कन्धमात्रकमेव केवलं सत्कायदृष्ट्यादिक्केशतर कररहितमवशिष्यते निहताशेषचौरगणग्राममाश्रावस्थान साधम्र्येण तत्सोपधिशेषं निर्वाणम् । यत्र तु निर्वाणे स्कन्धमात्रकमपि नास्ति तन्निरुपधिशेषं निर्वाणम् । निर्गत उपधिशेबोऽस्मिन्निति कृत्वा । निहताशेषचौरस्थ ग्राममात्रस्यापि विनाशसाधम्र्येण । - माध्यमिकवृ० पृ० ५१९ । ५ - दुसत एवासौ आ०, ब०, प० ।
२०