________________
२६८ न्यायविनिश्चयविवरणे
[३३१० विधविकल्पहेतूनामपि तदापत्तेः । तेषां कथञ्चित् सार्थकत्वसमर्थनस्य इतरत्रापि' समानत्वात् । ततः प्रत्यक्षवादात्मदर्शनस्य न तद्विपरीतैरनुमानविकल्पैरुपपन्ना बाधे परिकल्पना । तदाह
निरुपद्रवभूतस्य बाधाऽयुक्ता विपर्ययैः । इति ।
परपरिकल्पितादुपद्रवादर्थक्रियावैकल्यादेः निष्क्रान्तो निरुपद्रवः कथञ्चिन्नित्य आत्मा ५ तदुपद्रवस्यैकान्तनित्यत्व एव सम्भवात् [ तस्मिन् ] भूतं तद्गोचरत्वेन प्राप्तं प्रत्यक्षमन्यद्वा प्रमाणं
निरुपद्रवभूतं तस्य विपर्ययः प्रतिसङ्ख्यानविकल्पैः अयुक्ता अनुपपन्ना तदुच्छित्तिलक्षणा बाधा । तेनैव भूतार्थत्वेन तेषां बाधोपपत्तेरिति भावः । किञ्च, तैस्तद्वाधने किमवशेषवत् यन्निर्वाणव्यपदेशं प्रतिलभेत ? न ताव तदभावमात्रम्; तत्र प्रमाणाभावस्य निवेदनात् । अत एव न परिशुद्धमपरापरज्ञान
मपि; तत्राप्यस्मदादिप्रत्यक्षाऽप्रवृत्तेः, अनुमानस्य चावस्तुविषयत्वात् । योगिप्रत्यक्षस्य च योगिन्येव १० भावात् 'तेन योगी परापरतया तत्पश्यति अन्यथा वा' इति निश्चयासम्भवात् ।।
"तामवस्थां गतानां तु न विद्मः किं भविष्यति" [प्र० वार्तिकाल० १२३४ ] इति स्वयमेवाभिधानात् । भवतु तर्हि संविदद्वैतमेवावशेषवत् “यद्यद्वैते न तोषोऽरित मुक्त एवासि सर्वथा" [प्र. वार्तिकाल० १॥३६ ] इत्यभिधानादिति चेत्; अत्राह
विच्छेदो वरमुच्छेदाद्विदस्तत्पक्षपाततः॥१०॥ इति विविधस्य भेदप्रपञ्चस्य छेदो विलयो विद्यानिबन्धनो यस्मिन्नसौ विच्छेद औपनिषदः स एव वरमुत्कृष्टं निर्वाणम् । कुतः तद्वरम् ? उच्छेदात् , छिद्यन्ते परस्परतो व्यतिरिच्यन्त इति छेदाः सदसन्नित्यानित्यहेतुफलभावादिविकरुपास्ते येनोल्लचितारतत् उच्छेदं परपरिकल्पितं सविकल्पकव्यावृत्तं संविदद्वैतं तत इति । कुतस्तस्य तस्मादुत्कृष्टत्वमिति चेत् ? विदो विद्वज्जनस्य तस्मिन् विच्छेदे
पक्षपातात् सकलशोकपरावृत्तपरमानन्दरूपत्वेनाभिमुख्यात् । तदुक्तम्-“ती! हि तथा सर्वान् २० शोकान् हृदयस्य भवति" [ बृहदा० ४।३।२२ ] "आनन्दं ब्रह्मणो विद्वान्न बिभेति
कुतश्चन" [ तैत्तिरी० २।९ ] इति । न चैवमुच्छेदस्य ताद्रूप्यं यतस्तत्रापि तस्य स भवेत्, निखिलविकल्पव्यतिक्रमव्याघातात् । असति संसारे करयासौ निर्वाणं तस्य तत्पच्युतिरूपत्वात् ! सति वा कथमद्वैत संसारनिर्वाणभेदे द्वैतस्यैवोपपत्तेः ? इत्यपि न चोद्यम्; अन्यत्रापि तुल्यत्वात् । 'तत्र सांवृत एव संसाररतस्य च विचारांसहत्वान्न विद्याप्रत्यनीकत्वम्' इति समाधानमितरत्रापि न पक्षपातं परित्यजति, तत्रापि तस्याविद्याविलासरूपत्वेन विचारासहत्वाविशेषात् । कुतः पुनस्तथाविधस्यात्मनः प्रतिवेदनमिति चेत् ? संवेदनस्य कुतः ? स्वत एव, “स्वरूपस्य स्वतो गति" [प्र०वा० १।६] इति वचनादिति चेत्; आत्मनोऽपि तत एव । “अत्रायं पुरुषः स्वयं ज्योतिर्भवति" [ बृहदा० ४।३।९ ] इति श्रवणात् । यद्वा पुनरिदमलङ्कारे-"प्रहीणसमुदयस्य न त एव रागादय इति समत्वादविरोधिनि सकलेनैव सत्त्वसङ्घातेन" [प्र० वार्तिकाल ० १।१९४ ] इति । तत्र न
१ प्रत्यक्षकारणेष्वपि । २ बोद्धापरिक-आ०, ब०, ५०। ३ किमवशिष्टम् । ४ दोषोक्तिआ०, ब०, ५०। ५ विती? आ०, ब०, प०,। ६ संविदद्वैते। ७-रापहत्वा-आ०, ब०, प० । ८-समुदायस्य न तदैव आ०, ब०, प० । “प्रहीणसमुदयस्य न रागादय इति समताऽविरोधिता सकलेनैव सत्त्वसन्धानेन ।"-प्र० वार्तिकाल० १११६४ ।