________________
३॥ ९] ३ प्रवचनप्रस्ताव:
२६७ तत्पबन्धस्यास्त्येव लिङ्गत्वम्, एकैकस्यैव तस्य तदभावादिति चेत्; न; एकैकव्यतिरेकेण प्रबन्धस्याभावात् । भावेऽपि कुतस्तस्योत्पत्तिः ? प्रबन्धादेव प्राच्यात् तस्यापि तत एव प्राच्यात्, तत्प्रबन्धस्याप्यनादित्वादिति चेत्; न; तत्रापि 'कुतस्तदनादित्वम्' इत्यादेर्दोषादनवस्थाऽनुषङ्गाच्च । तन्न अनादिसंस्कारसम्भवः, तदपरिज्ञानात् । एतदेवाह
अनादिवासना न स्यात् [ त्रैलोक्यमविकल्पकम् ] ॥९॥ इति ५
अनादिश्वासावादिरहिता वासना च विकल्पसंस्कारो न स्यात् न भवेत् तत्र प्रमागा-- भावात् । तथा च कुतः सत्त्वदर्शनात्मा मिथ्याविकल्पो यत इदं निर्विषयं न भवेत्
"तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् । . ..
उत्खातमूलाङ्कुरुत सत्त्वदृष्टिं मुमुक्षवः ।" [प्र० वा० १।२५८ ] इति । .
फुतो वा सुगतभाविनः सन्तानस्य भूयोऽभ्याससहायतया निःशेषगुणदोषसाक्षात्करण- १० परिशुद्ध ज्ञानप्रादुर्भावकारी कश्चित् अनुमानात्माऽपि तद्विकल्पः ? यत इदमपि निरालम्बनं न भवेत्- "बहुशो बहुधोपायं कालेन बहुनास्य च ।
गच्छन्त्यभ्यस्यतस्तस्य गुणदोषाः प्रकाशताम् ॥" [प्र० वा० १।१३८ ] इति ।
एतदेवाह-'त्रैलोक्यमविकल्पकम्' इति । विकल्परहितमेव सकलं जगदित्यर्थः सत्यप्टनुमानविकल्पे कथं तदभ्यासपरिपाकेनात्मदर्शनस्योच्छेदः ? कथं च न स्यात् ? तद्दर्शनस्य १५ प्रत्यक्षत्वेन प्रमाणत्वात्, प्रमाणस्य च प्रमाणान्तरेण प्रतिक्षेपायोगात् । ननु आत्मा पूर्वापरकाल. व्यापितया नित्यो भावविशेषः। तस्य च न प्रत्यक्षेण ग्रहणम् , तेन क्षणक्षीणविग्रहतया पूर्वापरकालावलोकनविकलशक्तिकेन तत्कालव्यापिनो नित्यस्य अशक्यप्रतिपत्तिकत्वात् , व्यापकप्रतिपत्तेः व्याप्यप्रतिपत्तिमन्तरेणानुपपत्तेरिति चेत; कथं ताशेन विकल्पेनापि तस्य ग्रहणम् ? न हि तस्याप्यक्षणिकत्वं स्वमतव्याघातात् । सत्यम्, न तेनापि तस्य तद्ग्रहणम्, तत्प्रतिभासविकलायैव स्वतस्तस्य प्रतिवेद-२० नात्, अन्यथा तत्त्वसंवेदनस्यासदाकारानुविद्ध विषयत्वेनाप्रत्यक्षत्वप्रसङ्गात्, केवल विव.रुपान्तर्राभिप्रायात् तेन तद्ग्रहणमुच्यत इति चेत्, न; विकल्पान्तरस्यातद्विषयत्वे तदभिप्रायादपि तद्वचनानुपपत्तेः । तद्विषयत्वे तु तत्रापि 'कथं सादृशेन'इत्यादेः दोषस्यानुषङ्गात् अनवस्थानदौःस्थ्यस्य च दुस्तरस्योपस्थानात् । ततो दूरं गत्वाऽपि तेन तद्ग्रहणमङ्गीकर्तव्यम्, अन्यथा तदुग्छेदार्थस्य नैराग्यदर्शनाऽभियोगस्य वैयर्थ्यापत्तेः। तथा प्रत्यक्षेणापि । विशेषानवलोकनात् परापर प्रत्यक्षाणां ५ वैयर्थ्यम् आदित एव ततस्तद्ग्रहणसिद्धेरिति चेत्, परापरविकल्पानामपि तत्वि.न्न भवेत् ? तत्र लोकस्य भेदबुद्धेरभावात् तेषामेवैकत्वाध्यवसायविषयाणामात्मदृष्टित्वादिति चेत् ; समानमिदं प्रत्यक्षेष्वपि, तेषामपि कथञ्चिदभेदस्य प्रतीतेः, तस्यैवात्मत्वोपगमात् । न चैवमपरापरतत्कारणानां वैययम्; तथा
१ -तिराभिहितेन आ०, ब०, प०। २-वेन तद-आ०, ब०, प०। ३ विकल्पेन । ४ आत्मनित्यत्वग्रहणम् । ५ तद्ग्रहणमाजीकर्तव्यमिति सम्बन्धः। ६ कथञ्चिद्भेद-आ०, ब०, प० ।