________________
[३९
न्यायविनिश्चयविवरणे मिथ्याविकल्पविज्ञान भावनापरिपाकतः ॥ ८॥
तत्त्वज्ञानमुदेतीति कुतस्तत्त्वविनिश्चयः । इति । क्षणक्षयनैरंश्यादिविषयमनुमानज्ञानं मिथ्याविकल्पविज्ञानं तश्रावस्तुसामान्यविषयतया मिथ्याविकल्पभावस्य भावात्, परिशुद्धज्ञानकारणतया परेण च तस्याभ्युपगमात् । तस्य भावना चेतसि परिमलनं तस्याः परिपाक: सामर्थ्यात् अतिशयगमनं ततः तत्त्वस्यार्यसत्यचतुष्टयस्य ज्ञानमखिलाविद्यातृष्णामद(मल)विकलम्-उदेति उत्पद्यते इति एवमस्य तत्त्वस्य विनिश्चयो निर्णयः कुतो न कुतश्चित् । तथाहि-न तावत् सुगतस्ततः तदुत्पत्तिमवैति; तेन मलिनभागेनेतरभागस्याग्रहणात्, तदाकारतया तस्यापि निर्मलत्वापत्तेः । पुनस्तस्याप्यन्येन तद्भागेन ग्रहणे स एव तत्प्रसङ्गः पुनरप्येव
मित्यनादिपरिशुद्ध एव चित्तसन्तानः प्रसज्येत । तत इदमेव सूक्तम्-'मुक्तस्यापिइत्यादि, एतत्तु १० दुरुक्तमेव 'केवलम् इत्यादि, स्वतोऽनादिशुद्धस्य सामग्रीनिरपेक्षत्वात् । तथा न निर्मलभागेनापि
मलिनभागस्य ग्रहणम् ; तस्यापि तदाकारतया मलिनतापत्तेः । तस्यापि पुनरन्येन तद्भागेन ग्रहणे स एव तत्प्रसङ्गः, - पुनरप्येवमिति निरवधिरेवापरिशुद्धस्तत्रापद्येत । तदत्रापि 'यो हि'इत्यादिकमेव सूक्तम् । 'केवलम्' इत्यादिकं तु दुरुक्तमेव । निरवधित्वे मलबन्धस्य तत्प्रच्युतिहेतोः सामग्रीविशेषस्यै
वासम्भवात् । न च मलबन्धतत्परिशुद्धिभ्यामपरामृष्टं ज्ञानान्तरं सम्भवति यतस्तदुभयपरिज्ञानम् । १५ तदभावे च न तत्सम्बन्धस्य हेतुफलभावस्य प्रतिपत्तिः, सम्बन्धप्रतिपत्तेः सत्यामेव सम्बन्धिद्वयप्रति
पत्तावुपपत्तेः । "द्विष्ठसम्बन्धसंवित्तिः [प्र०-बार्तिकाल० १।१] इत्यादेः स्वयमेवाभिधानात् । तन्न सुगतेन तस्य निश्चयः । नापि विनेयवर्गेण; तज्ज्ञानेनापि तन्मलिनभागवर्तिना तत्परिशुद्धभागस्य, तद्भगवर्तिना च तन्मलिनभागस्याप्रतिवेदनात् । क्रमभावितदुभयाकारैक ज्ञानसम्भवे चात्मसिद्धिदोष
स्यापरिहारात् प्रतितद्भागं तज्ज्ञानभेदकल्पनायां तु कुतरतज्ज्ञानमपि पौरस्त्यं परिशुद्धिमदुत्पन्नम् ? २० स्वाकारमर्पयतस्ताथागतादेव तत्त्वज्ञानादिति चेत्, नेदानीमनुमानविकल्पोत्मकमार्गाभियोगादेव परि• शुद्धिमत्त्वं तत्त्वज्ञानस्य प्रकारान्तरादपि तद्भावात् । तथा च व्याहतमेतत्
"उक्तो मार्गस्तदभ्यासादाश्रयः परिवर्तते ।" [ प्र०वा० १।२०७ ] इति । __ आश्रयस्याप्यविद्यातृष्णाधिकरणस्य चित्तसन्तानस्य परिवृत्तेः परिशुद्धिलक्षणायोः तदभ्यासाद-यतोऽपि भावात् । भवतु तर्हि तदभ्यासादेव तज्ज्ञानमपि तथाविधमिति चेत्; कस्य तत्रापि तत२५ स्तदुत्पत्तेः निश्चयः ? न तस्यैव विनेयवर्गस्य; सुगतवद्दोषात् । नापि तद्वर्गान्तरस्य; 'नापि विनेय
वर्गण'इत्यादेस्तत्रापि प्रसङ्गादनवस्थोपनिपाताच्च । कुतश्चेदं मिथ्याज्ञानं यद्भावनापरिपाकोत्तत्त्वज्ञानमुत्पद्यते ? पूर्वस्माद्विल्पसंस्कारादेव, निर्विकल्पस्य तद्विजातीयत्वेन तदनुपादानत्वात् । तत्संस्कारस्यापि तत्पूर्वमभाविनः तत एवोत्पत्तेः अनादित्वात् प्रबन्धस्येति. चेत्; कुतस्तदनादित्वम्वगन्तव्यम् ?
प्रत्यक्षस्य तत्राप्रवृत्तेः । अनुमानादिति चेत; न; लिङ्गाभावात् । सत्संस्कार एवोत्तरोत्तरो लिङ्गमिति १ चेत्; न तस्य यथास्वं कारणापेक्षयैव लिङ्गत्वात् न तदनादित्वापेक्षया । तदनादित्वापेक्षयाऽपि
१ तथापि आ०, ब०, प०।२-णायां त-आ०, ब, प०। ३ स्वकारणा-आ०, ब०, प०॥