________________
३।८] .३ प्रवचनप्रस्तावः
२६५ तदभावे न वैराग्यवत्सलत्यादिसम्भवः ।
इति तद्धेतुना नैव कृपा या युक्तिमृच्छति ॥ १६२७ ॥ तदेवाह
तत्त्वज्ञानाद्यनुत्पादहेतुरुन्मार्ग एव सः। इति । सः करुणाभिधानो बुद्धस्याशय उन्मार्ग एव न मनागपि मार्ग इत्येवकारः । कुत । एतत् ? तत्त्वस्य दुःखादेर्ज्ञानमादिर्यस्य वैराग्यादेस्तस्यानुत्पादहेतुः तदुत्पादस्य पारम्पर्येण निमित्तं - न भवति यत इति । तत्त्वज्ञानादेरेवोक्तयुक्तिवैश्वानरपरिप्लोषभस्मभावोपनीतत्वेनासम्भवादिति भावः ।
स्यान्मतम्-न तत्त्वतः सुगतज्ञानस्य बहिर्विषयत्वं स्वसंवित्तिमात्रपर्यवसितत्वात् , अत एव न तेन कस्यचित् सन्तानस्य दर्शनं यतस्तदुःखपरिहरणाय तस्य प्रवृत्तिः कृपापारवश्येनावस्थिति, सर्वस्मिन्नस्मिन्नर्थे प्रमाणाभावात् केवलं संवृतिविभ्रमादेव तत्र सर्वमिदमवकल्प्यते । तदुक्तम्- १५
"न च पश्यति सन्तानं नापि कश्चित् प्रवर्तते ।
न तिष्ठति प्रेमाभावात् केवलं भवतो भ्रमः ॥" [ प्र० वार्तिकाल० १।१९८ ] इति ।
___ तत्राह-'तत्त्वज्ञान' इत्यादि । स सुगत उन्मार्ग एव मार्गणीयो न भवत्येव । कुत एतत् ? तत्वज्ञानस्य सोपायहेयोपादेयभावपरिज्ञानस्यादिपदात् तदभ्यासस्य चानुत्पादहेतुत्वात् । न हि विकल्पारोपितस्य तद्धेतुत्वं स्वमोपलब्धतथागतवत् । न च तदर्थ तस्य प्रेक्षावद्धिरन्वेषणम् तद्वत्त्वव्यापत्तेः । सत्यं न तेषां तदन्वेषणम्, तेषां प्रहीणात्मदर्शनानां दुःखस्यैवाभावात्, तन्निवृत्त्यर्थत्वाच्च तदन्वेषणस्य, तस्मान्मूढानामेव तदन्वेषगम् , अन्यथा तेषामात्मदर्शनप्रहाणासम्भवेन आत्मस्नेहदुःखनिबन्धनस्य दुःखप्रबन्धस्यानुच्छित्तेः स्वस्थत्वेनावस्थानानुपपत्तेः । तदुक्तम्
"यावदात्मनि न प्रेम्णो हानिः तं वरिवस्यति। . तावद्दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते ॥" [प्र० वा० १।१९३ ] इति । "
ते तर्हि कुतो हरिहरादीनामन्यतमं तत्त्वज्ञानाय नान्वेषयन्ति तेषामपि आत्मदर्शनपत्वेन मूढत्वादिति चेत् ; न; सुगतस्यापि विकल्पारोपितरूपत्वेन तदविशेषात् । परिशुद्धज्ञानप्रबन्धरूपत्वान्न तदारोपितत्वं तस्येति चेत्, न; तत्प्रबन्धस्यैव पूर्वापरात्मनो विचारासहत्वस्य निवेदितत्वात् । ततः तस्यापि तदारोपितत्वेन मूढतया तत्त्वज्ञानाद्यनुत्पादहेतुत्वाविशेषेण ईश्वरादिवदन्वेषणीयत्वानु- २५. पपत्तेः उपपन्नमुक्तम्-'उन्मार्ग एव सः' इति ।
यत्पुनरेतत्"-यो हि बद्धो न तस्य मोक्षोऽस्ति तत्स्वभावत्वात, मुक्तस्यापि न बन्धः सदा तस्य मुक्तस्वभावत्वात्, केवलं चित्तसन्तानस्य अपरिशुद्धस्य सतः सामग्रीविशेषतः परो भागो विशुद्ध उत्पद्यते।" [प्र० वार्तिकाल० १११९० ] इति । तत्राह
१-खकरणाय आ०, ब०, प० । २ क्रमामा-आ०, ब०, ५०। ३ “स परितस्यति"-प्र० वा०। सम्प्रतिरस्यति आ०, ब०, प०।४ बन्धस्तदा प० ।