________________
२६४ न्यायविनिश्चयविवरणे
[३७ कालत्वमेव तस्य तेन भवितुमर्हतीति व्यवस्थितमेवासामञ्जस्यम् । भवतु तर्हि तच्चतुष्टयस्य परस्परतस्तत्प्रत्यक्षादपि भिन्न कालत्वम्; इत्यपि न युक्तम् ; तन्नेत्यादिना दत्तोत्तरत्वात् । सत्यपि तादृशस्य तत्कारणत्वे नातदाकारस्य तस्य तद्विषयत्वम् आकारवादसमर्थनवैयर्थ्यापत्तेः । तदाकारत्वे च
अक्रमेणार्पयन्त्यर्थाः स्वाकारांस्तत्र सक्रमान् । क्रमेण वाऽर्पयन्त्यन्या गतिरत्र न विद्यते ॥ १६१८ ॥ यद्यक्रमेण . बाह्यस्याप्यक्रमस्यैव विद्भवेत् । . अकारानुगुणत्वेनैवार्थरूपप्रवेदनात् ॥ १६१९ ॥ आकारातिक्रमादर्थवित्तौ नीलाकृतेविंदः । पीताद्यशेषविज्ञानात् सर्वः सर्वज्ञतां व्रजेत् ॥ १६२० ॥ क्रमेणैवार्पणे तेषां बुद्धिरेका तदात्मिका । वहन्ती कालतो दैर्ध्य भवेदात्मैव तत्त्वतः ॥ १६२१ ॥ आत्मदृष्टिभयं त्यक्तुमुपायं तस्य तन्वतः । तदेव पुनरग्रेऽभूदहो दैवं दुरत्ययम् ॥ १६२२ ॥ बुद्धिरेका न चेत्तस्याः प्रत्याकारं विभेदतः ।
तत्सर्वज्ञत्ववादाय देयस्तर्हि जलाञ्जलिः ॥ १६२३ ॥ तथा हि-न तावदेकया बुद्धया तस्य सर्वज्ञत्वम्; तयैकाकारयैकस्यैव प्रतिपत्तेः । नाप्यनेकया; पृथग्जनस्यापि तया तत्प्रसङ्गात् । अपि च, अनेकत्वमप्रतिपद्यमानस्तस्याः कथमसो तया सर्ववेदी भवेत् ! "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति".[ ] इत्यस्य विरो
धात् । प्रतिपद्यत एव तदपि तदर्पितक्रमवदनेकाकारया परया बुद्ध्येति चेत् ; न; आत्मदृष्टिभय - २० परिहाराभावस्य पुनरपि प्राप्तेः । नायं दोषस्तबुद्धरपि प्रत्याकारं भेदादिति चेत् ; न तर्हि तयाऽप्ये
कया अनेकवेदनम्, उक्तान्यायात् । नाप्यनेकया; तत्परिज्ञानेऽपि पूर्वप्रसङ्गानतिवृत्तेरनवस्थाप्राप्तः । अथ बुद्धीनां नानात्वं न.परबुद्धिवेद्यं यतोऽयं प्रसङ्गः किन्तु ताभ्य एवं स्वसंवेदनत्वात् तासामिति; तन्न; स्वसंवेदनस्य स्वरूपादन्यत्राप्रवृत्तेः, तेन नानात्वा तिपत्तेः दुरुपपादत्वात् । तत्र तदुत्पत्तिसारूप्याभ्यां तत्त्वज्ञानं तथागतस्य । नाप्यतदुत्पन्नमतदाकारं च; स्वसिद्धान्तपरित्यागदोषात् । किञ्च,
तस्याप्यनेकशक्तित्वे युगपत्क्रमतस्तथा । तद्वत्त्वसम्भवात् प्राप्तमात्मदृष्टिभयं पुनः ॥ १६२४ ॥ एकशक्ति यदि ज्ञानं न तेनानेकवेदनम् । अन्यथा तादृशाद्धेतोः कार्य नाना न किं भवेत् ॥ ॥१६२५ ॥ तथा सति न नित्योऽर्थो दृषितो भवति त्वया। निराकारमपि ज्ञानं तन्न तस्योपपचिमत् ॥ १६२६ ॥
३-भ्यः स्वसं
.१-क्षादभिन्न- आ०, ब०, प०। २ उक्तन्या- आ०, ब०, प०। आ०, ब०, प०। ४ नानात्वप्रवृत्तेः आ०, ब०, प०।....