________________
३ प्रवचनप्रस्तावः
२६३
तित्वादिति चेत् ; दुःखमपि सुखमेव स्यात् तच्छिद्रपाताविशेषात् । विवेकिनां नैवममिप्रायस्तेषां सर्वत्र दुःखाभिनिवेशस्यैव भावात् , "सर्व दुःखं विवेकिनः" [ योगसू० २।१५] इति वचनादिति चेत् ; विवेकस्तर्हि पापीयां तेन सर्वत्र तदभिनिवेशकरणादिति तस्यैव तयोच्छेदः कर्तव्यो न ज्ञानसन्तानस्य, तदुच्छेदे तस्य सर्वत्र सुखबुद्धयैवावस्थानोपपत्तेः । यदि च तदभिप्रायवशात् सर्व दुःखम्; सर्व सुखमेव किन्न स्यात् ? वासीचन्दनकरूपानां सर्वत्रौदासीन्यरूपस्य सुखस्यैव भावात् । सुखं च तद्रूपमनुकूल- ५ . वेदनीयत्वात् प्रसिद्धसुखक्त् । ततो नाभिप्रायवशादपि सर्व दुःखमेवेति शक्योपपादनं यतः तदुच्छेदकरणात् करुणैवेयमिति प्रतिपत्तिः । इदमेवाह-'अत्यन्तं परदुःखं न गोचरः' इति । परैः सौगतैः कल्पितं दुःखं न गोचरो न विषयः प्रमाणस्य । कीदृशम् ? अत्यन्तम् अन्तमतिक्रान्तम् । अन्तशब्देन सुखमत्रोच्यते तस्य दुःखं प्रत्यन्तत्वोपपत्तेः, सर्वथा सुखविकलं दुःखमेव न तद्विषयः सुखस्यापि तद्विकलस्य तद्विषयप्रतिपत्तेरित्यर्थः । तथा च कस्यचित् सुभाषितम्-"कस्यात्यन्तं सुख- १० मुपनतं दुःखमेकान्ततो वा" [ उ० मेघदू० श्लो० ४६ ] इति । ततः मुखापहारकरणत्वादुपपन्नं तस्याजिघांसत्वम् । नैकान्ततस्तस्यास्तत्त्वं दुःखापहारकरणत्वेन करुणात्वस्यापि भावादिति चेत् ; न; जिघांसाकरुणयोरेकत्वविरोध त् तमःप्रकाशवत् । व्यतिरेके च तयोः परित्याज्य एव सुगतेन जिघांसाभौगस्तस्यान्यथा महाकारुणिकत्वव्यापत्तेः । तथा च कथं तत्करुणया ज्ञानसन्तानस्य निर्मलोच्छेदः सुखभागिकस्य तस्यावस्थानोपपत्तेः । करुणयैव तस्याप्युच्छेदों दुःखभागिकस्याप्यन्यथा तदयोगात्, १५ मृष्टभोजनादिसुखप्रतिषेधेन विना प्रत्यग्रप्रवृत्तज्वरादिदुःखनिषेधायोगवदिति चेत्; उपपन्नमेवैतत्; परहितप्रवृत्तानां यदि ज्वरादिविनिर्मुक्तपुरुषवद्विगलितनिखिलदुःखव्याधेरपि कस्यचित् चित्तभागस्यावस्थानं प्रतिलभ्येत, अन्यथा मृत्युविधायिनो भिषज इव तदुच्छेदविधायिनोऽपि परहितत्वानुपपत्तेः । कथं वा करुणया तदुच्छेदः, तया दुःखप्रबलंवृत्तिनिमित्तसत्त्वदर्शनप्रत्यतीकस्य नैरात्म्यभावनारूपस्योपायाभियोगस्योपसमर्पणात् । ततश्च परिस्फुटस्य तत्त्वज्ञानादेः प्रादुर्भावात्तेनापि तत्वदेशनया विनेय- २० वर्गस्य मार्गप्रवर्तनादिति चेत् ; ननु तत्त्वं नाम सत्यचतुष्टयमेव भक्तामभिमतम् । तच्च न योगिप्रत्यक्षेण समसमयम् ; तस्य तद्विषयत्वाभावप्रसङ्गात्, समसमयस्याकारणत्वात् , कारणस्यैव च विषयत्वोपगमात् । तस्यापि-कारणत्वे समुदयमार्गयोरपि तथाविधयोरेव दुःखनिरोधहेतुत्वापत्तेः यदैव समुदयस्तदैव दुःखं यदैव मार्गस्तदैव निरोध इत्यसमञ्जसं प्राप्नुयात् । अथ तयोभिन्नसमययोरेव तत्कारणत्वं कथमिदानीं तच्च ष्टयस्य योगिप्रत्यक्षेणापि समकालत्वम् ! दुःखादेस्तत्त्वे समुदयादेस्तदसम्भवात्, ६५ तस्य तत्त्वे वा दुःखादेस्तदनुपपत्तेः । अथ तत्प्रत्यक्षं प्रत्यभिन्नकालवद्भिन्नकालमपि कारणमिष्यते; तन्न; क्रमवतः कारणादक मस्य कार्यस्यानुत्पत्तेः, अन्यथा कारणादप्यक्रमात् कार्यस्य क्रमवतः प्रसङ्गात् असङ्गतमिदं भवेत्-"नाकमात् क्रमिणो भावा" [प्र० वा० १।४५ ] इति । तस्मादभिन्न
१ सर्वत्र दु- आ०, ब०, प० । २ वापीचन्दन- आ०, ब०, प० । ३ -प्रामाण्यस्य आ०, ब०, प०। ४ सर्वदा ता०, ब०। ५-तत्परदु-आ०, ब०, प०। ६ भावस्त-आ०, ब०, प०। ७ ज्ञानसन्तानस्य। ८ -दो दुःखभागिकस्याप्युच्छेदो दुःख- आ०, ब०, प०। ९ -लप्रवृ- आ०, ब०, प०। १०-च वि-ता०। ११ समकालयोरेव । १२ -मका- आ०, ब०, ५०।
.