________________
२६२ न्यायविनिश्चयविवरणे
[१७ नस्तस्याप्यवस्तु त्वात् तादृशस्य पारम्पर्येणापि तादानुपपत्तेः व्योमकुसुमादिवत् । चरमस्यापि वस्तुत्वे न निर्वाणं तस्यापि सन्तानात्, अन्यथा वस्तुत्वायोगस्य निवेदितत्वात् । ततः
निर्वाणं चेत् प्रयासो न प्रयासश्चेन्न निर्वृतिः। . निर्वाणं च प्रयासश्चेत्येतदन्योन्यपीडितम् ॥ १६१६ ॥ अत एवोपहासेन यत्ननिर्वाणसत्ययोः ।
तदित्यादिकया शृत्यादिवैर स्थितिरुच्यते (!) ॥ १६१७ ॥ भवतु तदन्यसन्तानवयैव प्रयास इति चेत् ; तत्सन्तानोऽपि न निर्वातुरन्यत्र, तद्वर्तिनः प्रयासात् तस्य निर्वाणानुपपत्तेरतिप्रसङ्गात् । निर्वातर्येवेति चेत्, न; तदनुच्छेदेऽपि निर्वाणायोगात् ।
तदुच्छेदोऽपि यद्यन्यसन्तानवर्तिनः प्रयासात् कथमनवस्थापरिहार: तत्रापि प्रकृतप्रसङ्गानतिवृत्तेः । एतदे१० वोक्तम्-'इति' इत्यादिना । इति एवमपरापरसन्तानवर्तिप्रयासपरिकल्पनाप्रकारेण अहो नैव सत्यस्य प्रयासापरनाम्नो मार्गसत्यस्य व्यवस्थितिस्नवस्थैव भवेदित्यर्थः । ततः स्थितमिदम्
सर्वथा सदुपादेयं हेयं सत्तद्कारणम् । . तदर्थोऽयं प्रयासश्चेत्यहो सत्यव्यवस्थितिः ॥ इति । इदमेव श्लोकैर्विवरीतु माह
करुणा स्वपरज्ञानसन्तानोच्छेदकारणम् । ... इति नः करुणा [ अत्यन्तं परदुःखं न गोचरः ] ॥७॥ इति । सत्त्वदृष्टिनिषेधार्था बुद्धस्याभिपायवृतिः करुणा । "तथाभूतसत्त्वग्रहपरित्यजनाय य आशयः स दया' [प्र. वार्तिकाल० १११९५] इत्यलकारात् । यद्येवं कथं तस्य सर्वथा विकल्प
विकलत्वं तदाशयस्य विकल्पत्वात् । न ह्यमुमनेन त्याजयामीति परामर्शवतस्तस्याविकल्पत्वम् । न २० तस्यैवं तद्वत्त्वं संस्काररूपतयैव भावात् । “अक्षीणशक्तिसंस्कारो येषां तिष्ठन्ति तेऽनयाग
प्र. वा० १२०० ] इति वचनात् ; इत्यपि न युक्तम् ; संस्कारस्य चेतनोपादानस्याचेतनत्वायोगात् । चेतनत्वेऽप्यविकल्पत्वे न ततः श्रेयःकथनं तस्य विकल्पयोनित्वेनोपगमात् । ततश्च तत्कथनमभिमतं "र्दयाया (दयया ) श्रेय आचष्टे' [प्र० वा० १।२८४ ] इति वचनादिति चेत;.
सत्यम्; अयमपि परस्य पर्यनुयोगः । सा च करुणा स्वश्च योगी परश्च विनेयवर्गः तयोर्ज्ञानानि २५ तेषां सन्तानास्तेषाम् उच्छेदोऽस्यन्तविनाशस्तस्य कारणमिति एवं नोऽस्माकं कृपालूनां करुणा
कृपा वर्तत इति शेषः । भवति हि महापुरुषाणां मन्दप्रज्ञानवलोक्य कृपोत्पत्तिः । अस्ति च प्रज्ञामान्धं सौगतानां तैः स्वपरसन्तानविनाशिन्या जिघांसाया एव करुणात्वेन प्रतिपत्तेः । करुणैव साक्षादसौ तया सकलदुःखपरिक्षयरूपस्य तदुच्छेदस्य करणादिति चेत् ; न; सकलसुखपरिक्षयरूपस्यापि तया तस्य करणात् । न च सुखमेव संसारे नास्ति तस्यापि दुःखवदनुभवात् , सदपि तद् दुःखमेव दुःखछिद्रपा
१ यत्तन्निर्वा-आ०, ब०, ५०। यत्रसत्यं मार्गसत्यम् । २ दयावत्वम् । ३ "तेऽनघाः" प्र०वा०। ४ कथं तस्य आ०, ब०, प०। ५ कथनस्य । ६'दयया'-प्र०वा०।