________________
श६] ३ प्रवचनप्रस्तावः
२६१ पपत्तेरिति मन्यते । तदसत्त्वे निमित्तमाह-'तदकारणम्' इति । तत् उक्तरूपं चित्तम् अकारणम् अपूर्वमुत्तरस्याजनकम् , अन्यथा चरमक्षणेऽपि स्यादिति निर्वाणाभाव इति भावः । तदानीं विजातीयस्यैव योगिज्ञानादेस्तत्कारणं न सजातीयोत्तरचित्तस्य तदयमदोष इति चेत्; कथमिदानी परचैतन्यप्रतिपत्तिः ! शक्यं हि वक्तुम् अतीउजन्मान्तिमचित्तं विजातीयमेव प्राणापानादिकं सजातीयोत्तरजनकं जनयित्वा प्रतिनिवृत्तं न सजातीयं चित्तं चरमक्षणवत् । ततो न प्राणादेः परशरीरे निश्चितीत् ५ तत्प्रतिपत्तिः, व्यभिचारशङ्कायां तदनुपपत्तेरिति । तथा चेत् ; कथं सुगतभाविनः पुरुषस्य परदुःखपरिज्ञानं यतस्तदक्षमतया प्रेरितस्तत्परिहारोपायाभियोगी स भवेदित्यसकतमिदमवलोकयामः
"निष्पन्नकरुणोत्कर्षः परदुःखाक्षमेरितः। ... .... दयावान् दुःखहानार्थमुपायेष्वभियुज्यते ॥" [प्र०वा०१।१३३ ] इति ।
ततो यथा सजातीयं जनयत एव परचित्तस्य विजातीयजनकत्वं तथा चरमचित्तस्यापीति १० न सम्भवत्येव चित्तोच्छेदलक्षणं निर्वाणम् । तत्सम्भवे वा तच्चित्तमकारणमेव सजातीयवद्विजातीयस्यापीत्युपनतं तस्यावस्तुत्वमर्थक्रियाविरहात्, तथा . तत्पूर्वस्यापि, अवस्तुनोऽर्थक्रियारूपत्वायोगेन तस्यापि तद्विरहाविशेषात् , तथा तत्पूर्वस्यापीत्यशेषस्यापि चित्तप्रबन्धस्य क्वचिदप्यनुपयोगात् उपपन्नमुक्तम्-'तदकारणम्' इति । भवत्वकारगत्वादसन्नेव तत्पबन्ध इति चेत् तर्हि नित्यसिद्धत्वानिर्वाणस्य किं तदर्थेन तपश्चरणरागादिना प्रयत्नेन ? तदेवाह... तदर्थोऽयं प्रयासश्च [ इत्यही सत्यव्यवस्थितिः] ॥६॥
तदर्थो नित्यसिद्धनिर्वाणार्थोऽयं परप्रसिद्धः प्रयासस्तपश्चरणादिरूपः 'चाइति समुच्चये । न केवलं पूर्वोक्तमेव किन्त्वयमपि धिगिति, सिधै प्रयासवैफल्यादिति धिक्कतुरभिप्रायः ।
चित्तप्रबन्धाभावे च प्रयासश्चेतनात्मकः ।
___ कथं विद्येत येन स्यान्मार्गसत्यव्यवस्थितिः ॥१६१५॥ तदेवाह-'इत्यहो सत्यव्यवस्थितिः' इति । एवमुक्तन्यायेन सत्यस्य मार्गरूपस्य व्यवस्थितिरवस्थानम् अहो नैवेत्युपेहंसनपरेण अहोशब्देन दर्शयति । यदि वा, तच्चित्तसन्तानोच्छेदलक्षणं निर्वाणमकारणमहेतुकमभावरूपत्वेन अनपेक्षत्वात् तत्किं तदर्थेन नैरात्म्यभावनादिना प्रयासेन ? तदेव दर्शयति-'तदर्थोऽयं प्रयासश्च' इति । धिक्शब्दानुवृत्त्या, व्याख्यानं पूर्ववत् ।
स्यान्मतम्-न साक्षात् तत्सन्तानोपमईनेन प्रयासस्य तादर्थ्यमपि तु तत्सहायं पूर्वपूर्वचि- २५ तमुत्तरोत्तरचित्तं सजातीयकार्य प्रत्यसमादिरूपं जनयति ततः चरमस्यात्यन्तासमर्थत्वेन ततः चित्तान्तरस्यानुत्पत्तेः चरमप्रच्युतेश्च प्राच्यस्य स्वरसभङ्गुरत्वेन प्रलयात् प्रशान्तनिर्वाणोपपत्तेः पारम्पर्येणैव तस्य तादर्थ्यमिति; तदपि न साम्प्रतम; विचारानङ्गत्वात् । तथा हि प्रयासोऽयमुच्छेद्यसन्तानवर्ती, तदन्यसन्तानवर्ती वा ? प्रथमविकल्पे स एव न सम्भवति; चरमस्यावस्तुत्वेन सन्तानावस्तुत्वे तद्वर्ति
१. -ता तत्प्र-आ०, ब०, ५०। २ सुगतस्य" -ता० टि०। ३ -त्वं नि-प० । ४-द्धेः प्र-आ०, ब०, प०। ५-पसंहासप- आ०, ब०, प०।६-मप्रभृतेश्च आ०, ब०, प०।