________________
न्यायविनिश्वयविवरणे
[ ३६
१०
नाप्यनुमानस्य; प्रत्यक्षाभावे तस्य तत्पूर्वकत्वेनाप्रवृत्तेः । लिङ्गस्य च तत्कार्यस्य तत्स्वभावस्य च विचारासहत्वेनाव्यवस्थितेः । ततो युक्तं तत्सत्यस्य अनात्मज्ञत्वम्, अतश्च तदुपादेयं धिगेव प्रमाणपथाऽतिवर्तिनो वस्तुवृत्तेनानुपादेयत्वात् । तथा सत् प्रशस्तं परिशुद्धज्ञानस्वभावं बुद्धस्य " प्रभास्वरमिदं चित्तम्" [ प्र० वा० १।२१० ] इति वचनात् । तत् हेयं नैरात्म्यभावना परिपाकबलेन ५ परित्याज्यमित्यपि धिगेव, प्रशस्तस्य परित्यागानुपपत्तेः निर्वाणवत् । कथं वा तस्य तत्परित्यागे परात्मपरिज्ञानं यतः तदुपतापपरिहारपरवशतया तदुपायाभियोगमात्मसात्कुर्वीत नीरूपत्वेन तदनुपपत्तेः । एतदेवोक्तम्--‘अनात्मज्ञम्' इति । आत्मा विनेयसन्तानस्तस्य ज्ञौ तद्बुद्धिस्तस्या अभावेऽनात्मज्ञम्, अर्थाभावेऽव्ययीभावात् । एतदुक्तं भवति -सतोऽपि स्वभावस्य परित्यागे तस्य पर परिज्ञानं न भवेत् अतस्तस्य यत्वं निन्दितमिति । नास्त्येव तस्य तत्परित्यागः " तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।" [ प्र० वा० १ २०१] इति वचनादिति चेत्; कथं पुननैरात्म्यभावना परिपाके तत्कारणे सति तदभावः खङ्गादेरपि ततस्तदभावप्रसङ्गात् ? अथ तत्परिपाकोऽपि कृपा सम्पर्कविकल एव तद्धेतुः स खड्गादेरेव न महामुनेः, तस्य परार्थपरतया महाकृपालुत्वादिति चेत्; खड्गादेः " कस्मादकृपालुत्वम् ? परार्थवृत्तेरभावादिति चेत्; अस्तु नाम तस्य परत्राकृपालुत्वमात्मनि तु भवत्येव स्वार्थ वृत्तेरवश्यम्भावात्, अन्यथा निर्वाणायोपक्रमानुपपत्तेः । अथ तस्य निर्वाणेनैवार्थित्वं नावस्थानेनेति । १५ कुत एतत् ? तस्य निर्दोषत्वात् समानमिदमनत्र (मव) स्थानेऽपि तस्यापि सकल मल विकलप्रभास्वरचित्तरूपत्वेन अभ्युपगमात् । अथ तचित्तेनावस्थितेनापि न किञ्चित् फलमिति न तत्रार्थित्वं तस्य; तर्हि तन्नाशेऽपि न भवेत् ततोऽपि कस्यचित् फलस्याभावात् प्रत्युत तदेव मुमुक्षूणां फलं यत् सकलक्लेशपरिशुद्ध,ज्ञानरूपतयाऽवस्थानम्, तच्चेत् कुतश्चित् सम्प्रपद्येत किमन्येन ! फलेऽपि फलान्तरप्रतीक्षायामनवस्थापत्तेः । ततो युक्त तत्रैव तस्यार्थित्वम् । अथ सत्यपि तत्र तस्यार्थित्वे न २० तस्यावस्थानं तदपरित्यागे तत्परिमिश्रक्लेशपरित्यागासम्भवात् अन्नापरित्यागे तत्परिमिश्रविषपरित्यागासम्भववदिति चेत्; न; तथा तीथागतस्य चित्तस्यापि परित्यागप्रसङ्गात् । अथास्ति कश्चित् तस्योपायो यतोऽवस्थितेऽपि चित्ते तत्क्लेशपरित्यागः तस्य भवेत्; स तर्हि खड्गादेरपि तेन वक्तव्यो येन न तच्चित्तमप्यवस्थितमेव परिगलित निखिलक्लेशभयपरिनिर्वाणपदं प्राप्नुयात् । एवं हि तेनात्मनस्तायित्वमपि" सुस्पष्टं प्रतिष्ठापितं भवति स्वयं परिदृष्टमार्गोपदेशस्यैव तत्त्वात्, "ताय: स्वदृष्टमागोक्तिः " [ प्र० वा० १।१४७ ] इति वचनात् । ततो यदि कृपामाहात्म्यात् अवस्थानं बुद्धचि - तस्य खड्गादिवित्तस्यापि स्यात् । न चेत्; इतरस्यापि न स्यादित्युपपन्नमुक्तम्- 'हेयं सत्' इति । यदि वा, सत् विद्यमानं संसारिचित्तं हेयं धिगिति व्याख्येयम्, तस्य सत्त्वासिद्धेः सत एव हेयत्वो
२५
,
२६०
"
१ तत्सत्वस्य प० । २ जातबु - आ०, ब, प० । ३ "निर्वाणेऽपि परे प्राप्ते कृपाद्रीकृतचेतसः” । इति पूर्वार्धम् । ता० टि० । ४ वचनादेवेति प० । ५ -देन क-आ०, ब०, प० । ६ निर्वाणस्य । ७ अवस्थानपरित्यागाभावे । ८ तथाग आ, ब०, प० । ९ तच्चित्तस्यो - आ०, ब०, प० । १० - पित्तो न आ०, ब०, प० । ११ “ प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने ।” - ता० टि ।