________________
. जातो
.
.....
३६] ३ प्रवचनप्रस्तावः
२५९ . . पुनरपि तदेव । प्रतिक्षिपन्नाह-'धिगनात्मज्ञं तदसाध्यमसाधनम्। इति । तात्पर्यमत्रविद्यमानस्यैव हेयादितत्त्वस्य सुगतोऽपि प्रवक्ता भवेन्नापरस्य व्योमकुसुमादिवत् । विद्यमानत्वं च न तस्य कार्यत्वेन, असति कारणे तदनुज्ञानात् , असति च तदयोगान्निर्हेतुकत्वापत्तेः । नानि कारणत्वेन; कार्यकालमप्राप्य निवृत्तस्य चिरापक्रान्तवत्तदनुपपत्तेः । निरूपितं चैतत् सविस्तरमिति । पदार्थः कथ्यतेतत् हेयादितत्त्वम् । असाध्यं कस्यचिदप्यकार्यम् असाधनम् अकारणं च प्रतिसमयविलयप्राप्तिविग्रह- ५ स्योक्तनीत्याऽनुपपत्तेः । अन्वयरूपत्वे तदुपपतिरिति चेत् ; स्यादेतदेवं क्यन्वयवादी सुगतः, न
चैवम् । एतदेवोक्तम्-'अनात्मज्ञम्' इति । 'आत्मा' इत्यन्वय एवोच्यते अतति गच्छति तांस्तान् - पर्यायानित्यात्मेति व्युत्पादनात् । तन्न जानाति नोपैति इत्यनात्मज्ञः सुगतस्तं तस्येत्यर्थः । धिक्शब्देन योगे षष्ठीविषय एव द्वितीयाविधानात् । तदयमर्थः-यतस्तदनात्मज्ञस्य सम्बन्धि तस्माद् . असाध्यमसाधनम् अतः धिक कुत्सनमनात्मज्ञस्य तस्य वा। यदि वा, तदसाध्य साधयितुम- १० शक्यम् । कुत एतत् ? असाधनम् अविद्यमानप्रमाणं यत इति । एतदपि कस्मात् ! 'अनात्मज्ञम्। इति । आत्मा जीवः स चासौ ज्ञश्च जैनोपगतो न योगकल्पितः आत्मज्ञः स न विद्यते यस्य सोऽयम् अनात्मज्ञो बुद्ध एव तस्य सम्बन्धी यत इति ।
ज्ञानमेव हि तस्य स्यात् साधनं तच्च नासति । ज्ञस्वभावे नरेऽस्तीति पूर्वमेतन्निवेदितम् ॥१६१२॥ अज्ञातमप्रमाणत्वादकार्यत्वादितोऽप्यसत् ।। कथं हेयादिकं तत्त्वं बुद्धो वक्तुं प्रवर्तताम् ॥१६१३॥ तस्मादयमसद्वादै लिशान् - विप्रलम्भयन् ।
किर्तव्यः कथं नाम न भवेन्न्यायवेदिनाम् ॥१६१४॥ पुनरप्यत्रैवोपचयमाह__ सर्वथाऽसदुपादेयं हेयं सत् [तदकारणम् ] । इति । .
सर्वथा सर्वेण सकलरागादिक्लेशप्रकारेणेव परिशुद्ध ज्ञानरूपेणापि असत् अविद्यमानं निरोधसत्यम् । उपादेयं पुरुषार्थबुद्धया परिग्राह्यम् ‘धिगनात्मज्ञम्' इति सम्बन्धः । ‘कुतो धिक्कार इति चेत् ? अनात्मज्ञत्वादेव । आत्मेति निरोधसत्यस्य स्वभावस्तस्य ज्ञानं बुद्धिः स न विद्यते यस्मिन् तद् अनात्मन्नं तत्सत्यमेव यत एवं ततो घिगिति । तथा हि-निरुद्धसकलाकारं निर्वाणं न तावत् २५ प्रत्यक्षतः प्रतिपत्तव्यं प्रतिबन्धाभावात् । न हि तस्य तत्कार्यत्वम् ; नीरूपम्याकारणत्वात्, अन्यथा नीरूपत्वायोगात् । नापि तत्स्वभावत्वम् , स्वयं नीरूपत्वप्रसङ्गात् । न च नीरूपादेव तस्य परिज्ञानकल्पनं विज्ञानकल्पनावैफल्योपनिपातात् । पुनरन्यतः प्रत्यक्षात् तत्परिज्ञानकल्पनायां प्रकृतपर्यनुयोगानतिवृत्तेः अनवस्थादोषविषमविषधरव्यापारभयपरिपातस्य च परिहर्तुमशक्यत्वात् । न चाप्रति- बद्धादेव ततस्तत्परिज्ञानम्, अनभ्युपगमात्, प्रतिबन्धान्तरस्य च । तन्न प्रत्यक्षस्य तज्ज्ञानत्वम् । ३०
१ कार्योत्पादानुज्ञानात् । २ कार्योत्पादायोगात् । ३ अज्ञान् । “शिशावज्ञे च बालिशः। इत्यमरः"-ता० टि०।४ धिङ्मत-आ०, ब०, प० । ५ "अनभ्युपगमादिति सम्बन्धः ।"-ता०टि०। ६निर्वाणविषयकज्ञानत्वम् ।
.