________________
२५८ न्यायविनिश्चयविवरणे
[३।५ सन्तानरूपं दुःखसत्यम् “दुःखं संसारिणः स्कन्धा" [प्र० वा० १३१४९ ] इति वचनात् । उपादेयं च तस्यैव निःशेषप्रहाणस्वरूपं निरोधसत्यं हेयोपादेयं तदेव तत्त्वं तस्य सोपायस्य हेयतत्त्वस्योपायोऽविद्यातृष्णारूपं समुदयसत्यम्, “दुःखे विपर्यासमतिस्तृष्णा वा तस्य
कारणम्" [प्र० वा० १।८३ ] इति वचनात् । उपादेयतत्त्वस्य' नैरास्यभावनारूपं मार्गसत्यं ५ तत्सहितस्येति । न हि दोषवत्त्वेन निर्मातस्य तत्त्वदर्शनं शक्यसम्भावनं यतस्तस्यासौ प्रवक्ता भवेदिति
भावः । यदि वेश इति परोपकल्पितरूपो विधूतकल्पनाजाल इति प्रतिपत्तव्यं तस्यापि प्रवक्तत्वानुपपत्तेः । कथमिति चेत् ; विकल्पाभावादेव, विकरुपकार्य हि वचनम् "विकल्पयोनयः शब्दाः"[ ] इति वचनात् । कथं तदभावे भवेत् ? विकल्पादेव चिरापक्रान्तादिति चेत् ; न; ततो विकल्पस्यापि दुर्भा
वेन तस्य विधूतकल्पनाजालत्वाभावापत्तेः । चिरापवृत्तादपि ततो वचनमेव न तज्जातीयो विकल्प इति १० नियमहेतोरशक्योपदर्शनत्वात् । तत्कालभाविन एव विकल्पसंस्कारात् तस्य वचनमित्यपि वाचो
युक्तिः न चतुरविचारसङ्गमोचितं सौभाग्यमुद्वहति; ततो वचनवद्विकल्पस्यापि प्रसङ्गेन प्रकृतदोषानतिवृत्तेः । तत्संरकारस्य च विकल्पत्वे न तस्य विधूताशेषविकल्पत्वम्, अविकल्पत्वे च न ततो वचनम् । न च विकल्पाविकल्पव्यतिरेकेणापरः कश्चित्त्स्वभावः । तद्भावे वा न ततो वचनम् । विकल्पकार्यत्वेन
निश्चितस्यान्यतो भावे नितुकत्वापत्तेरिति दुष्परिहारोऽयं दोषोपनिपातः परस्य । तन्न यथागतस्य १५ प्रवक्तृत्वं यतस्तदुक्तपतिपत्त्यय प्रेक्षावतां तदन्वेषणं भवेत् ।
___ अथ कुड्यादीनां प्रवक्तृत्वमेव तस्यापि प्रवक्तृत्वं तस्य तत्सन्निधिनिबन्धनत्वादिति चेत् ; अहो महदिदमद्भुतं यत्सकल ज्ञानाधिष्ठानादपि तस्मादनुत्पन्नं ज्ञान्गन्धेनापि शून्यात् कुड्यादेर्भवतीति ! नायं दोषः तथागत भावस्य तादृशत्वादिति चेत् । ततस्तर्हि कु.तस्तस्य स्वयमेव न प्रवक्तृत्वम् ? एवं
हि पारम्पर्य परिहृतं भवति-सुगतात् कुड्यादेः प्रभावस्ततो वचनमिति । मा भूत्तस्य वचनम् , प्रव२० क्तृत्वं तु तस्य विनयानां तत्सृन्निधानात्तत्त्वज्ञानप्रादुर्भावादिति चेत् ; तज्ज्ञानं यदि न प्रमाणं कथं
तत्त्वविषयं विरोधात् ? प्रामाण्यमपि न तस्य प्रत्यक्षत्वेन; इन्द्रियादिप्रत्यक्षेप्वनन्तर्भावात् । न हि तदिन्द्रियज्ञानम् ; इन्द्रियादनुत्पत्तेः । नापि मानसम् ; इन्द्रिय ज्ञानादप्रसूतेः, तरय तद्विषयानन्तरविषयमाश्रीगोचरत्वाच्च । नापि योगिज्ञानम् ; भावनाप्रकर्षनिरपेक्षत्वात् । नापि स्वसंवेदनत्वेन; सत्यचतुष्टय
विषयत्वाभावापत्तेः । प्रत्यक्षान्तरत्वे च तज्ज्ञानचातुर्विध्यनियमव्यावर्णनव्याघातोपनिपातात् । नाप्यनु२५ मानत्वेन; लिङ्गाभावात् । सुगतसन्निधाननमेव लिङ्गमिति चेत् ; सुगत एव तर्हि तच्चतुष्टयस्यानुमिति
मवेत् तत्रैव लिङ्गान्न सत्त्वान्तरेषु पक्षधर्मत्वाभावात् , न च तत्र तदस्ति; तस्य शुद्धज्ञानस्वभवतया दुःखादिरूपत्वानभ्युपगमात् । न प्रमाणान्तरत्वेनापि; प्रमाण द्वयनियमोपगमात् । तन्न तत्सन्निधानात् तत्त्वज्ञानं विनेयानामुपपन्नं यतस्तदेव तस्य प्रवक्तृत्वं भवेदिति सूत.म्-'हेया इत्यादि, सर्वथा तस्य प्रवक्तृत्वाव्यवस्थितः।
१ "उपाय इति अत्रापि सम्बन्धः।" - ता० टि०। २ तत्सन्धाननि--आ०, ब०, प० । ३ सुगतात्। ४ प्रवादस्त-आ०, ब०, प०। ५ विनेयज्ञानस्य । ६-वग:-१०। ७ तस्य प्रामाण्यमिति सम्बन्धः।