________________
३३५ ]
१३ प्रवचन प्रस्तावः
२५७
स्वयं कामाभिनिवेशेन वा' इति न निश्चयः परचेतोवृत्तीनां दुरन्वयत्वादिति चेत्; न; तथागतेऽपि
तुल्यत्वात् । तदुक्तम्
"अभवत् सुगतः खरो खराणां स्वयमुत्पाद्य भगान् समन्ततः ।
कृपया स तु कामपीडयावा न वयं तत्र विनिश्चयं गताः ॥" [ ] इति । योगित्वादेव तस्य तत्पीडा न भवतीति चेत्; न; तस्यैव चितधर्मत्वेन दुरवबोधत्वात् । ५ यदि चायं योगी तत्त्वदर्शनादुन्मार्गतः प्राणिनां निवारणमेव कर्तव्यं कथं तत्र प्रवर्तनं साधुचेष्टाया अनेवंविधत्वात् । निवार्यमाणा अपि न व्यवतिष्ठन्त इति चेत्; औदासीन्यमेव तर्हि कर्तव्यं न स्वयमयुक्ताचरणम् । तथा च कस्यचित् सुभाषितम्
"अपारयन् वारयितुं पृथग्जनानसत्प्रवृत्तेष्वपि नासदाचरेत् । अशक्नुवन् पीतविषं चिकित्सितुं पिबेत् विषं कः स्वयमप्यबालिशः ॥" ] इति ।
१०
[
ततः तत्पीडयैव तस्य तत्करणमिति सुनिश्चितोऽस्याब्रह्मचर्यदोषः ।
तथा परिग्रहदोषोऽपि कषायपरिधानबोधितरुच्छायामण्डलादौ ममेदम्भावरूपाया मूर्च्छा यास्तस्थ भावात् तल्लक्षणत्वाच्च परिग्रहस्य, "मूर्च्छा परिग्रहः " [ त० सू० ७ १७ ] इति सूत्रांत् । कारिकायां च देवैस्तस्यो एव प्रवृत्तिशब्देनाभिधानात् । कथमेवं भगवत्यपि तद्दोषपरिहारः १५ छत्रचामर हरिविष्टरादेर्महापरिग्रहस्य तत्रापि भावादिति चेत् ? न; निरतिशयपुण्यप्रभावप्रेरितैरमरपतिभिरुपकल्पिते तस्मिन् भगवतो ममेदम्भावबुद्धेरभावात् । तदुक्तम्
“प्रातिहार्यविभवैः परिष्कृतो देहतोऽपि विरतो भवानभूत् ।”
[ बृहत्स्व० श्लो० ७३ ] इति । तदभावस्य दृष्टागमाविरोधिनस्तत्प्रवचनादेव अध्यवसायात् । न च तादृशं किञ्चित् २० शुद्धोदनतनयस्य वचनमस्ति यतः तस्यापि तदभावपरिज्ञानात् 'सन्नपि कषायकटाद्युपश्लेषः कुतश्चिदन्यत एव न मूर्च्छतः' इति निश्चिन्वन्ति विपश्चितः । मूर्च्छात इत्यपि कुतो निश्चय इति चेत् ? इमे ब्रूमहे - तथागतस्य तदुपश्लेषो मूर्च्छनिबन्धनः तत्त्वदर्शन विकल सम्बन्धित सति तदुपश्लेषात्, पृथग्जनस्य तंदु पश्लेषवत् । तद्विकलत्वं च तस्य तच्छास्त्रेणैवावसीयत इति निरूपितमनन्तरमेव । ततः परिग्रहदोषोऽपि तस्य विद्यत एव । हरिहर देस्तु सकलजनसंवादविषयो हिंसादिर्दोष इति न २५ विविच्य व्यावर्ण्यते । ततो हिंसादयो दोषाः सर्वथैकान्तवादिना सन्तीत्यत्र न संशीतिरस्ति वस्तुविवेकिनाम् । भवतु नाम सुगतस्तथाविधस्तथाऽपि किम् ? इत्यत्राह -
f
हेयोपादेयतत्त्वस्य सोपायस्य किलेदृशः ।
प्रवक्ता [ धिगनात्मज्ञं तदसाध्यमसाधनम् ] ॥५॥ इति । ईदृशोऽप्रत्यस्तमिताशेषदोषतया प्रतीयमानस्तथागतः प्रवक्ता प्रतिपादयिता किलेत्यरु - ३० चिवचनेन न प्रवक्तेति कथयति । कस्यासौ न प्रवक्ता ? हेयोपादेयतत्त्वस्य हेयं च पञ्चस्कन्ध
१ - तस्तस्याब्रह्म-आ०, ब०, प० । २ मूच्छार्या एव ।
३३