________________
२५६
न्यायविनिश्चयविवरणे
[ ३४
सिद्धाः प्रमाणतो निश्चितास्तास्ताश्च हिंसा चानृतं च [ स्तेयं च ] अब्रह्मचर्यं च प्रवृत्तिश्च तास्तथोक्ताः ताभ्यस्तत इति । तत्र प्रमादवता योगेन कायवाङ्मनोव्यापारात्मना यत्प्राणिभ्यः प्राणानामिन्द्रियादीनां प्रच्यावनं सा हिंसा । " प्रमत्त योगात् प्राणव्यपरोपणं हिंसा " [त०सू०७/१३] इति वचनात् । सा च सुगतस्यः साक्षाद्भाविनी तावदस्ति - बुभुक्षापरिपीडितां मृगराजवधूमवलोक्य ५ तन्मुखे तेन स्वशरीरं निपातितमिति तन्मत एवं श्रवणात् अथात्मवधो दोषो न भवति परोपकारनिमित्तत्वेन गुणत्वात्; परवधोऽपि तर्हि दोषो न भवेच्छागादिवत् अस्यापि तन्निमित्तत्वेन गुणत्वसग्भवात्। छागादेः पीडनाद् दोष एवेति चेत्; आत्मनः पीडनात् तद्वधोऽपि कुतो न दोषः स्यात् ? अथ योगिनं तत्पीडा नोपसर्पति योगबलेन प्रतिरोधात् ; तहिं योगिनः परस्यापि बघो न दोषः स्यात् तेनापि परोपकारस्य सम्भवात् तन्निमित्तस्य च परिपीडनस्य योगबलेनैव प्रतिरोधात् । तथा चेत्; महानयं कृपालुः १० यदि योगिनोऽपि व्यापादयेत् । ततो यथा परहिंसा दोषः तद्वदात्महिंसाऽपीत्यस्त्येव साक्षाद्भावी दोषस्तस्य । तथा परम्पराभावी च, स्वयं तस्य पिशितभक्षिणा म ग्रगण्यत्वात् । तद्भक्षणस्य च पापधिकार प्रेरकत्वेन वनमृगादिव्यापादन हेतुत्वात् तदभावे तद्व्यापादनासम्भवात् । अत एवोक्तम्"भक्षकश्चेन्न विद्येत वधकोऽपि न विद्यते ।" [ .] इति । तथा तस्य अनृतमप्यस्ति सकलविनेयवर्गं प्रत्यपायनिबन्धनव्यापारोपकल्पनस्य नैरात्म्यादेः १५ प्रमाणानुपपन्नत्वेनासत एव तेनाभिधानात्, अनृतस्य च तल्लक्षणत्वात् । "असदभिधानमनृतम्” [ त० सू० ७ १४ ] इति वचनात् । सदभिधानमपि तस्य दृश्यत एव नष्टमुष्ट्याद्यतीन्द्रियार्थविषयस्य तद्वचनस्याविसंवादप्रतीतेरिति चेत्; न; निरंशक्षणिकपरमाणुरूपे तद्दर्शनप्रसिद्धभावात्मनि तत्र तदभावात्, तत्र प्रमाणाभावस्य प्रतिपादितत्वात् । क्रमाक्रमाने कान्तात्मनीति चेत्; तहिं तद्वचनं भगवतः स्याद्वादन्यायनायकस्यैव न तथागतस्य । तदुक्तम्
"सुनिश्रितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः कावन सूक्तिसम्पदः । तत्रैव ताः पूर्वमहार्णवोत्थिताः जगत्प्रमाणं जिनवाक्यविप्रुषः ॥" [ सिद्ध० द्वात्रिं ० १ ३० ] इति
स्वशास्त्रत्वेन तु तस्य प्रकाशनं चौर्यमेव अदत्तापहारसद्भावात् चौर्यस्य च तल्लक्षणत्वात् । तदुक्तम् - "अदत्तादानं स्तेयम्” [ त० सू० ७ १५ ] इति । तद्वदब्रह्माऽपि तस्यास्ति मैथुन२५ भावात् । "मैथुनमब्रह्म" [ त० सू० ७ १६ । इति च तल्लक्षणाभिधानात् । न च तद्भावस्तस्यासिद्धः; स्वयमनेकमूत्रविवरपरिवीतविग्रहतया गर्दभीभूत्वा मदनशरपरिपीडितेन गर्दभानां शतेन मैथुनमचीकरोदिति तदीयानामेव प्रसिद्धेः । कामाभिनिवेशेन तत्करणमेव दोषो न परोपकारार्थया कृपया, कृपया च तत्करणं बुद्धस्येति चेत्; न; जननीगुरुपत्न्यादावपि "तज्ज्वरपरिपीडिते तथा तत्करणस्यादोषश्वेन पृथग्जनस्यापि तत्कारिणो दण्डाभावापत्तेः । 'पृथग्जनः कृपण तत्र तत्कारी'
१ प्राणिप्राणव्य- ता० । २-सादिदोषः आ०, ब०, प० । ३ भक्षणानाम-आ०, ब०, प० । ४ क रणप्रेर- आ०, ब०, प० । ५ कामज्वर ।