________________
३।४ ]
३ प्रवचनप्रस्तावः
परस्पराविसंवादरूपेणैव व्यवस्थितेः । बन्धुरेव भवेल्लोके किं रिपुः शक्यकल्पनः || १६०९ ॥ दृष्टागमविरुद्धार्थ विषयैः शासनैस्तथा । दोषवन्तोऽवगन्तव्याः सर्वथैकान्तवादिनः ॥ १६१० ॥ तच्छासनानां तादर्थ्यं प्रागुक्तं वक्ष्यतेऽपि च । देवागमे त एवोक्तं निर्मल न्यायवेदिभिः ॥ १६११ ॥ “त्वन्मतामृतवाद्यानां सर्वथैकान्तवादिनाम् ।
२५५
आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥" [आप्तमी० श्लो० ७ ] इति ।
भवतु नाम तेषां सद्विरुद्धार्थत्वं न तावता तैस्तत्प्रणेतृणां दोषवत्तापरिज्ञानं परविप्रलम्भनाय गुणवद्भिरपि तत्प्रणयनसम्भवादिति चेत्; न; तद्विप्रलम्भनस्यैव दोषत्वात् । मिथ्याज्ञानोपजननं हि तद्वि- १० प्रलम्भनम् । मिथ्याज्ञानं चानर्थनिमित्तम् अहिविषादौ हारगुडादिविज्ञानवत् । अर्थोपरतिनिबन्धनं च हारगुडादौ अहिविषादिज्ञांनवत् । अतः कथं तदुपजननं न दोषः परप्रत्यवायकारणत्वात् व्याधादेस्तदुपजननवत् । तस्यापि तत्कथं दोष इति चेत् ? अशुभपुद्गलप्राप्ति निमित्तत्वादेव । तथा हि-व्याधादेः परविप्रलम्भनमशुभपुद्गलप्राप्तिनिबन्धनं विप्रलम्भनत्वात् आत्मविप्रलम्भनवत् । दृष्टा खल्वात्मविप्रलम्भनादशुच्यादौ शुच्याद्यभिने वशरूपात् तत्प्राप्तिरिति न साध्यवैकल्यमुदाहरणस्य । या चासौ तत्प्राप्तिः १५ सौपायप्राप्तिः घोरदुःखसंसारसरित्पातनिबन्धनीति सिद्धं तन्निबन्धनस्य विप्रलम्भनस्य दोषत्वम् । भवतु नाम व्याधादेस्ततस्तत्प्राप्तिर्न शास्त्रकृतां योगसामर्थ्येन तत्प्रतिबन्धादिति चेत्; विप्रलम्भनस्यैव कुत न तेन प्रतिबन्धः ? एवं हि ते महायोगिनो भवन्ति यदि परेषामहितं नानुतिष्ठेयुः, तत्प्रतिबन्धनतत्सामर्थ्यमिति चेत्; तत्कार्यप्रतिबन्धेऽपि न भवेदिति किञ्चिदेतत् । तन्न गुणवतां मिथ्यार्थ शास्त्र - प्रणयनं सम्भवति दोषवतामेव तत्सम्भवादित्युपपन्नं ततो दोषवत्त्वत्परिज्ञानं सम्यगर्थात्ततो गुणवत्त्व - २० परिज्ञानवत् । शास्त्रकारवदित्यत्रैव निदर्शनम् । यथैवमपि अर्हतः सुगतादेश्चान्योऽपि वैद्यकादिशास्त्रकारः चिरापक्रान्तोऽपि तच्छास्त्रैरेव सुविवेचितगुणदोषसम्बद्धैः गुणदोषवत्तया सम्प्रतीयते तद्वत्प्रकृतोऽपीत्यर्थः ।
सम्प्रति सर्वथैकान्तवादिनः सुगता देर्दोषवत्त्वमेव तद्व्यापारसमधिगम्यमावेदयन्नाहसिद्धहिंसावृतस्ते या ब्रह्मचर्यप्रवृत्तितः ।
स प्रत्यस्तमिताशेषदोषो नेति प्रतीयते ॥ ४ ॥ इति । सः सुतादिः प्रतीयते निश्चीयते । कथम् ? प्रत्यस्तमिताशेषदोषः प्रक्षीणनिरवशेषमिथ्याज्ञानकषायमलोपलेपो नेति । एवं कुतः प्रतीयते ? सिद्ध हिंसानृतस्तेयाब्रह्मचर्यप्रवृत्तितः ।
१ किं पुनः श-आ०, ब०, प० । २ परप्रत्ययका - आ०, ब०, प० । ३ परप्रत्यवायो४- प्तिपरिज्ञाननिमि-आ०, ब०, प० । ५ सावायप्रा- प० । ६- नविप्र - प० ।
पजननवत् । ७ यथैवाप्यभ्यतः भ०, ब० । यथैवाप्यभ्यर्हितः प० ।