________________
५
न्यायविनिश्चयविवरणे
[ ३३
न चैवम्, अतो न दहनादन्यतस्तस्य भाव इति चेत्; तर्हि पुरुषातिशयभावी व्यापारादिरपि कथमन्यतो भवेत् ? तन्निर्हेतुकत्वस्याप्येवमुक्तन्यायेन सम्भवात् । तथा हिकार्यधर्मान्वयाद्यो हि पुरुषातिशयोद्भवी ।
व्यापारादिर्विना तेन स चेन्निर्हेतुको भवेत् ॥ ९६०४ ॥ इति ।
दृश्यत एवान्यतोऽपि तद्वयापः रादिरिति चेत् किं पुनः शक्रमूर्धनि धूमोऽपि न दृश्यते ? यदि दृश्यते तन्मूर्धाप्यग्निरेव,अनग्निस्वभावाद् धूमस्यानुत्पत्तेः । तदुक्तम्"अग्निस्वभावः शक्रस्य मूर्धा चेदग्निरेव सः ।
अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥" [ प्र० वा० २।३५ ] इति । न चैवम्, अतो न तत्र धूमः, यस्तु दृश्यते बहलपाण्डरादिरूपः स वाष्पादिरेव न धूम ० इति चेत्; कथमिदानीं पुरुषातिशयजन्मा व्यापारादिः ? तदन्यतो दृश्यमानस्य च वाष्पादिवत् तद्विलक्षणत्वात् । अत एव तत्र विप्रलम्भव्याहारं तद्विदो निवेदयन्ति भूतविशेषे वाष्पादिव्यवहारवत् । ततो न रागादिमति तदन्यव्यापारादिर्यतः ततः पुरुषातिशयप्रतिपत्तिव्यभिचारिणी न भवेत् । एतदेवाह -
परोक्षोऽप्य विनाभावसम्बद्धैर्गुणदोषयोः ।
शास्त्रैर्निर्वर्तितैः शास्त्रकारवत् सम्प्रतीयते ॥ ३ ॥ इति ।
परोक्षोऽपि प्रत्यक्षाविषयोऽपि गुणवांस्तद्विपरीतश्च सम्प्रतीयते सम्यगवगम्यते । कैः ! I शास्त्रैर्वचनप्रबन्धैः निर्वर्तितैः निष्पादितैः सामर्थ्याद् गुणदोषवद्भ्यामिति गम्यते, अन्यनिर्वर्तितैः तैस्तत्परिज्ञानानुपपत्तेः । वाग्व्यापारोपदर्शनमिदम् । उपलक्षणं चेदं तेन कायव्यापार बिशेषैरित्यपि द्रष्टव्यम् । तैरपि दोषोपशमपरानुग्रह निबन्धनैस्तद्विपरीतैश्च गुणवतो दोषवतश्च पुरुषविशेषस्य परिमुक्तारे२० कतया परिज्ञानात् । कीदृशैस्तैः स सम्प्रतीयते ? अविनाभावेनान्यथाऽनुपपत्त्या सम्बद्धैः । क ? गुणदोषयोः यो यथार्थदर्शन वैराग्यातिशये परमवत्सलत्वादिलक्षणो गुणो योऽपि तद्विपर्ययरूपो दोषस्तयोरिति ।
1
१५
२५
३०
२५४
शास्त्रैर्गुणाविनाभावसंम्बद्धैः भगवान् जिनः । गुणवत्त्वेन बोद्धव्यस्तन्मुखाम्भोजनिर्गतैः ॥ १६०५ ॥ विदाङ्कुर्वन्ति विद्वांसस्तेषामपि गुणान्वयम् । दृष्टामाविरुद्धार्थ प्ररूपणतया स्थितेः । १६०६ ॥ प्रत्यक्षं तन्निमित्तं च स्मरणाद्यनुमान्तिमम् । दृष्टं तेन तदर्थस्य न विरोधो हि दृश्यते || १६०७ ॥ तदर्थालम्बनत्वेन तस्यापि प्रतिपत्तितः । नाप्यागमेन तस्यापि
पूर्वापर विभागिनः ॥ १६०८ ॥
१- यपुरुषवत्सल-आ०, ब० । - यपुरुषवत्सकल- प० । २ सम्बन्धैः ता० । ३-न्तिकम् आ०, ब०, प० ।