________________
३२ ]
३. प्रवचनप्रस्तावः
२५३
न च प्रमाणान्तरमस्ति यतस्तत्प्रतिपत्तिः, अतः कथं तस्य प्रवचनानुशासित्वेन पर्येषणं प्रेक्षावद्भिरिति
चेत् ? अत्राह
तथाऽन्यगुणदोषेषु संशयैकान्तवादिभिः ।
पुरुषातिशयो ज्ञातुं यद्यशक्यः किमिष्यते ॥ २ ॥ इति ।
तथा तेन प्रमाणाभावप्रकारेण अन्यस्यात्मान्तरस्य ये गुणाः यथार्थदर्शन वैराग्यादयो ये च दोषा मिथ्याज्ञानरामादयस्तेषु संशयस्यैकान्तो नियमस्तं वदन्तीत्येवंशीलाः सौगताः । ५ ननु प्रमाणाभावे तेषु तदभाववादित्वमेवोपपन्नं नित्यादिवत् तत्कथं तदेकान्तवादित्वमिति चेत् ! न; तदभावादपि दृश्यानुपलम्भरूपादेवाभावसिद्धेः आत्मान्तरगुणादेश्चादृश्यत्वेन तदनुपलम्भस्य संशयहेतुत्वात् तद्वादित्वस्यैवोपपत्तेः । तैः पुरुषस्य तथागतस्यान्यस्य वा अतिशयः परिशुद्धज्ञानवैराग्यादिलक्षणो गुणप्रकर्षो ज्ञातुं प्रमाणतो निश्चेतुं यदि चेत्, अशक्यः शक्यो न भवति किं १० कस्मात् इष्यते मृग्यते ? पुरुषार्थत्वसिद्धये हि तदन्वेषणम्, न चाशक्यपरिज्ञानात् ततस्तत्सिद्धिः यतः प्रेक्षावतां तदन्वेषणम् । ततो दुर्भा षतमेतत्
।
1
"ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये ।" [ प्र०वा० १ । ३२ ] इति ।
,
न दुर्भाषितं संवृतिसिद्धस्य तस्य तदर्थमन्वेषणात् परमार्थतस्तु न तस्यान्वेषणं दुरवबोधत्वादिति चेत्; कथं पुनः सत्यनुमाने तस्य दुरवबोधत्वम् ? तलिङ्गव्यापारादेस्तदन्यतोऽपि भावेन १५ व्यभिचारादिति चेत् ; ननु तदन्यतो भावोऽपि संवृत्यैव, “निष्पत्तेरपराधीनम् " [प्र० वा० २।२६] इत्यादिवचनात् । ततः संवृतिसिद्ध व्यभिचारा लिङ्गात्तस्य दुरवबोधत्वेनानिष्टत्वमपि संवृत्यैव न परमार्थतः । तच्चायुक्त ं निष्पर्यायं तस्य संदृत्यैवेष्टत्वानिष्टत्वयोर्विरोधात् । कथं वा तद्व्यापारादेरन्यत्रापि भाव इच्छावृत्तित्वात् ? सत्यपि पुरुषातिशये तस्येच्छातो भावो न तन्मात्रादेव सर्वदा तत्प्रसङ्गात्, इच्छायाश्च तदतिशयविकलेऽपि भावादुपपन्नस्तत्रापि तद्भाव इति चेत्; न तर्हि तद्विकलव्यापारादे- २० स्तद्वति सम्भवः तस्य तदिच्छाया असम्भवात् । सम्भवें वा तद्वत्त्वविरोधात् । न हि दोषवदव्यापारं परोपतापपैशून्यादिकं चिकीर्षतस्तद्वत्त्वं नाम तच्चिकीर्षा भावरूपत्वात् तदतिशयस्य । ततो दुरालाप एवायम् 'वीतरागा अपि सरागा इव चेष्टन्ते' इति । या तु तस्य हितमधुर भाषणादिविषयेच्छा नासौ रागादिमतः सम्भवतीति कथं तन्निबन्धनस्य व्यापारादेस्तत्र भावः ! इच्छासामान्यभावादिति चेत्; पुद्गलसामान्यभावात् पाषाणादेरपि कुँतो न धूमस्याभावः कार्यधर्मादिक्रमेणा हेतुकत्वप्रसङ्गात् । अन्वयव्यतिरेकानुविधाननियमो हि तद्धर्मः, न चैवमसौ पात्र के तस्य सम्भवति पाषाणादेरपि भावात् । नापि पाषाणादौ पावकादप्युत्पत्तेरिति तद्धर्माऽतिक्रमेणा हेतुकत्वमेव प्राप्तम् । तदुक्तम्
२५
" धूमः कार्य हुतभुजः कार्यधर्मानुवृत्तितः ।
सम्भवंस्तदभावेऽपि हेतुमत्रं विलङ्घयेत् ॥” प्र० वा० ३।३३ ] इति ।
१- द्धिनिर्णयो यतः आ०, ब०, प० । २ “निष्पत्तेरपराधीनमपि कार्य स्वहेतुतः । सम्बध्यते कल्पनायां किमकार्य कथञ्चन ।" - प्र० वा० । ३-शयेन त-आ०, ब०, प० । ४ कुतो धूमस्याभावः आ०, ब०, प० ।