________________
न्यायविनिश्चयविवरणे
[31१
तस्याप्युपदेशबलेनोपपद्यत एव तदिति चेत्; उपदेष्टुस्तद्दर्शित्वे स एवास्मदभिमतः परमात्मा भवेत् । तदभावे कथमुपदेष्टृत्त्रम् ? तद्वदेव तस्याप्यन्योपदेशबलेन तदिति चेत्; न; अन्यस्मिन्नप्युपदेष्टर्येवंप्रसङ्गात् । पुनरन्योपदेशबलपरिकल्पनायां तेदुपदेशपारम्पर्येणोपकल्पितत्वात् म्लेच्छादिधर्मोपदेशप्रबन्धवत् । भवतु तर्हि तदनुशासिनस्तद्वेदित्वमस्मदा दिप्रत्यक्षेणानुमानेन वा, नातीन्द्रियप्रत्यक्षेणेति ५ चेत्; न; तन्निबन्धनस्य तत्परिज्ञानस्यात्यन्तपरोक्षाविषयत्वात् कथमयं तदर्थमुपदिशेन्नाम ? प्रतिपन्नवदेवाऽप्रतिपन्नेऽपि तत्परिकल्पनोपपत्तेः, अन्यथा सकलानुमानव्यवहार विलोपप्रसङ्गादित्युपपन्नं तस्य लोकोत्तर प्रत्यक्षबलेनैव निरवशेषपदार्थ सार्थ साक्षात्करणसामर्थ्य समन्वयेन परमात्मत्वम् । कथं पुनः पुरुषत्वाविशेषेऽप्यस्मदादेः प्रतिनियतविषयं परिज्ञानं तस्य तु सकलार्थविषयमित्ययं विभाग इति चेत् ? न; अस्मदादावपि सकलार्थविषयस्य तस्य भावात् । कथमन्यथा साकल्येन साध्ये साध्य१० साधनव्याप्तिपरिज्ञानम् ? निरूपितं चैतत् मङ्गलव्याख्यायाम् । इयांस्तु विशेषः - अस्मद. देः तज्ज्ञानमस्पष्टं स्पष्टं तु परमात्मन इति । स्वष्टत्वं च तस्य अस्पष्टत्वनिबन्धनस्य आवरणस्य निर्मूलात् प्रलयात् । - तच्चावरणमनुमानसिद्धम्, । तथा हि- सत् सर्वमनेकान्तात्मकमित्यादि व्याप्तिज्ञानं सावरणम्, अस्पष्टत्वात्, रजोनीहाराद्यन्तरितपादपादिज्ञानवत् । विवादापन्नं मिथ्याज्ञानं सावरणं मिथ्याज्ञानत्वात् विषाद्युपयोगिनः उपलशकलादौ कलधौतज्ञानवदिति । तस्य वचिन्निर्मूलप्रहागिरप्यनुमानादेव । तच्चेदम् - विवा १५ दापन्नमावरणं क्वचिन्निर्मूलं प्रहीयते, प्रकृष्यमाणहानिकत्वात्, यत्प्रकृष्यमाणहानिकं तत्क्वचिन्निर्मूलं प्रहीयमाणमुपलब्धं यथा हेमादौ किट्टकालिमादिकम्, प्रकृष्यमाणहानिकं च यथोक्तमावरणम्, तस्मात् क्वचिन्निर्मूलं प्रहीयत इति । न च प्रकृष्यमाणहानिकत्वमसिद्धम्, तस्यापि जीवेषु विज्ञानीतिशय दर्शन|देवानुमितेः । विज्ञानातिशयस्य च तत्कार्यदर्शनोपनीतंप्रतीति कस्याविप्र तिपत्तिविषयत्वात् । तदुक्तम्
२०
.२५
२५२
“जीवानामसहायाक्षादा शास्त्रार्थविदः क्रमात् ।
विज्ञानातिशये विद्वान वै विप्रतिपद्यते ॥" [ सिद्धिवि० परि० ८ ] इति । भवतु तस्य क्वचिन्निर्मूलं प्रहाणिः ततस्तु तन्निबन्धनमस्पष्टत्वमेव निवर्तेत ' कारणाभावात् ‘कार्याभावः' इति न्यायात्, स्पष्टभावस्तु कथमिति चेत् ? न; तन्निवृत्तेस्तद्भावरूपत्वात् मावान्तरस्वभावत्वेनाभावस्य व्यवस्थापितत्वात् । ततो युक्तं तन्निर्मूलप्रहाणौ विज्ञानस्य परिस्फुटत्वं तादृशनिरवशेषवस्तुगोचर प्रत्ययाधिकरणस्य च पुरुषस्य परमात्मत्वम् । अतः सूक्तमिदम् -
सकलं सर्वथैकान्तप्रवादातीतगोचरम् ।
सिद्धं प्रवचनं सिद्ध परमात्मानुशासनम् ॥ इति ।
भवतु नाम कश्चित् विश्वदर्शी परमवीतरागश्च स तु कुतः प्रतिपत्तव्यः ? प्रत्यक्षादिति चेत्; न; तस्य परचेतोवृत्तावप्रवृत्तेः । व्यापारव्याहारादिलिङ्गोपजनितादनुमानादिति चेत्; न; व्यापारादेर्निर्दोषभाविनो दोषवत्यपि सम्भवेन व्यभिचारात् ' सरागा अपि वीतरागा इव चेष्टन्ते' इति प्रसिद्धेः । १ तदुपदेश प्रबन्धो पा - ता० । २ " हेमज्ञानवत् । कलधौतं रूप्यहेम्णोरिति नानार्थवर्गे ।" - ता० टि० । ३- नाद्यतिश-आ०, ब०, प० ।
३०
·