________________
३।१]
३ प्रवचनप्रस्तावः
यदि तस्यापि तद्वित्त्वं नरान्तरकृतात्ततः । तत्राप्येवं प्रसङ्गे स्यादव्यवस्थितिरञ्जसा ।। १६०० ॥ समयानादिभावेन नैषा दोषाय चेत् कथम् । तादृशादर्थसंवित्तिः समीची समयाद्भवेत् ॥ १६०१ ॥ यतो नरक्रमादेषा ह्यनादेरप्यतद्दृशः । समय स्थितिरुत्पन्ना तादृङ्नरोपक्लृप्ता हि सा तदर्थावगाहिनी ।
भवत्यन्ध परम्परा || १६०२ ॥
ना तदर्थगायता म्लेच्छाधीनेव' तत्कृतिः || १६०३ ॥
२५१
१०
ततो न तादृशसमयापेक्षणमनेकार्थप्रतिबन्धायाः शक्तेरुपपन्नं यतो नियतार्थप्रत्यायनमिति भवितव्यमेव ततः सर्वस्यापि सर्वार्थप्रतिपत्तौ तंद्रादित्वेन । न चैवम्, अतो न द्वितीयकल्पनोपपन्ना । नापि प्रथमकल्पना; नियतार्थप्रतिबद्धत्वे शक्तेः समयवशादप्यर्थान्तरे प्रवृत्त्यभावप्रसङ्गात् धूमादिवत् । न हि धूमादेर्नियत पावकादिप्रतिबन्धत्वस्य समयशतेनापि तदन्यत्र प्रवृत्तिः, न चैवम्, वेदवचनस्याग्निहोत्रादिवाक्यस्य मीमांसकपरिकल्पितादर्थादर्थान्तरेऽपि श्वमांसभक्षणादौ बौद्धसमयवशात् प्रवृतिदर्शनात् । तदुक्तञ्च
१५
" तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतेः ।
खादेच्छ्लमांसमित्येष नार्थ इत्यत्र का प्रेमा ॥" [ प्र०वा० ३।३१८ ] इति । समयस्यैव तत्र प्रवृत्तिस्तत एव तत्प्रतिपत्तेर्न तद्वाक्यस्येति चेत्; मीमांसकाभिमतेऽपि न स्यात्, तस्यापि समयप्राधान्यादेव प्रतिपत्तेः, अन्यथा व्याख्यान वैयर्थ्यप्रसङ्गात् । न हि स्वशक्तित एव स्वार्थमवद्योतयतो व्याख्यानापेक्षणमुपपन्नम् । व्याख्यायमानस्य वाक्यस्यैव तत्र प्रवृत्तिस्तदनपेक्षायां व्याख्यानस्यैव निर्विषयत्वेनासम्भवादित्यपि समानं श्वमांसभक्षणेऽपि तत्रापि परव्याख्यानविषयस्यामि - २० होत्रादिवाक्यस्यैव प्रवृत्तेः, अन्यथा तद्व्यख्यानस्याप्यसम्भवात् न नियतार्थाऽपि नैसर्गिकी शक्तिर्वाक्यानां सम्भवति यतः पुरुषबलानपेक्षमभिधेयप्रतिपादनं तेषां सम्भाव्येत ।
स्यान्मतम्, वृद्धव्यवहारदर्शिनः प्रतिपत्तुरन्वयव्यतिरेकाभ्यां पदतदर्थव्युत्पतौ पुनस्तत एव वाक्यतदर्थयोरपि व्युत्पत्तिः पदतदर्थान्वयस्यैव वाक्यतदर्थान्वयत्वोपपत्तेः, ततः किं तदर्थेन पुरुषबलान्वेषणेनेति ! तदपि न साधीयः; तथा सति पदवाक्यव्युत्पत्तिकृतो व्याकरणस्य तदुभयार्थव्युत्प- २५ त्तिनिबन्धनस्य विचारग्रन्थस्य च वैयर्थ्यापत्तेः । ततः पुरुषबलादेव वेदस्यापि स्वार्थप्रतिपादनं न स्वशक्तित इति युक्तं तस्य पौरुषेयत्वं तद्वत् प्रवचनस्यापि भवेत् । तस्य कश्चिदनुशास्ताऽस्तु, कुतो निरवशेषवस्तु याथात्म्य दर्शित्वेन परमात्मेति चेत् तददर्शिनस्तदनुशासित्वायोगात् पृथग्जनवत् ।
१ - च्छादीनेव आ०, ब०, प० । २ तट्ठे देवेन आ०, ब०, प० । ३- तसाधनादिप्र-आ०, ब०, प० । ४ अर्थान्तरे । ५ प्रतिवचन - आ०, ब०, प० । ६ "विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । " - ता० टि० ।