________________
न्यायविनिश्चय विबरणे
[ ३|१
·
प्रवचनमिति धर्मिनिर्देशः, सकलमित्यपि तस्यैव विशेषणम् । न हि वेदवचनवत् प्रवचनस्य कश्चिदेव विभागः प्रतिपादितेऽर्थे प्रमाणमपरस्य तु प्रतिपादितार्थासम्भवात् अर्थवादत्वमित्ययं विभागः, सर्वस्यापि प्रतिपादितार्थे प्रामाण्यात् । तदाह - सिद्धमिति । सिद्धं प्रमाणमित्यर्थः । सिद्ध्यति निर्णयविषयतां गच्छत्यनेनार्थं इति सिद्धम् इति करणे " कृतव्युदो बहुलम्" [ ] इति बहुलग्रहणेन ५ निष्ठाविधानात् । सिद्धत्वं च तस्य सिद्धेः निर्णीतेः निमित्तत्वेनोपचारात् मुख्यतो निर्णयात्मनो ज्ञान -
स्यैव सिद्धत्वात् । साधनं तंत्र निर्बाधत्वम् । तथा हि-यत् स्वविषये निर्बाधं तत्प्रमाणं यथा प्रत्यक्षादि, निर्बाधं च स्वविषये जीवादौ प्रवचनमिति । निरूपितं जीवाजीवयोस्तस्य निर्बाधत्वम्, निरूपयिष्यते चास्रवादाविति । 'सिद्धमेतत् साधनमेव' इति च सर्वथेत्यादिना प्रतिपादितम् । हेत्वन्तरमाह - 'सिद्धपरमात्माऽनुशासनम्' इति । सिद्धो निश्चितः परमात्मा सकल वस्तुयाथात्म्यदर्शी पुरुषविशेषोऽ१० नुशासन: काले देशे च क्वचिदुत्सन्नस्योत्सन्नस्य अनु पश्चाच्छासनः शास्ता यस्य तत्तथोक्तम् । यत एवं प्रवचनं ततः सिद्धमिति । प्रवचनस्य वेदवत् अपौरुषेयत्वात् असिद्धं तदनुशासनत्वमिति चेत्; न; वेदस्यापौरुषेयत्वासिद्धेः। तथा हि- पौरुषेयो वेदः स्वार्थप्रतिपादनात् भारतादिवत् । स्वशक्तित एव तस्य तत्प्रतिपादनं न पौरुषेयत्वादिति चेत्; नियतार्थं तच्छक्तिः, अनियतार्था वा ? द्वितीय कल्पनायां सर्वस्यापि ततः सर्वार्थप्रतिपत्तिर्भवेत् । तथा च,
ܕ
१५
२०
20
२५
२५०
नियोगमेव तस्यार्थं कथं ब्रूयात् प्रभाकरः । भावानामेव भट्टोऽपि तदर्थान्तरसम्भवे ॥ १५९२ ॥ समयापेक्षणी शक्तिर्वेदार्थप्रतिपादिनी । समयश्च न सर्वत्र भट्टादेरिति चेत् कथम् ॥ १५९३ ॥ अन्यस्यान्यमतावितौ तत्र दूषण कल्पनम् । तन्मतप्रतिपत्तौ वा समयासम्भवः कथम् ॥ १५९४ ॥ समयोऽप्येष वेदश्चेत्तादृशस्यापि तादृशात् । समयात्प्रतिपत्तौ स्यादनवस्था कथन्न वः ॥ १५९५ ॥ समयः कृत्रिमश्चेत्तत्कर्ता वेदार्थविन्न चेत् । पृथग्जनवदेवासौ कुर्वीत समयं कथम् ॥ १५९६ ॥ विनाऽपि समयात्तस्य तद्वेदित्वे वृथैव सः । स्वकृतात् समयाद्वित्तौ भवेदन्योऽन्यसंश्रयः ॥ १५९७ ॥ सिद्धे वेदार्थवेदित्वे समयस्तत्कृतो भवेत् । तत्कृतात् समयात्तस्य तद्वेदित्वमिति स्फुटम् || १५९८ ॥ नरान्तरकृतात्तस्य ततस्तद्वित्तिकल्पने । नरान्तरं तदर्था वित् कथं तत्कर्तृतां व्रजेत् ॥ १५९९ ॥
१ - दुत्पन्नस्यानु आ०, ब०, प० ।