________________
तृतीयः प्रवचनप्रस्तावः
मामा
पायान्नः परमागमामृतरसाद्वादेन संतृप्तवान्
. प्रद्युम्नारिमदच्छिदाईकृपया सम्पूर्णदिव्याकृतिः । वागीशः कमलापतिर्गुणनिधिः श्रीमल्लिषेणो मुनिः
.. सोऽयं श्रीपरवादिमल्ल इति यस्त्रैलोक्यचूडामणिः ॥ १५९१ ॥ तदेवं प्रस्तुतप्रस्तावाभ्यां प्रत्यक्षानुमानयोः प्रामाण्यं निश्चित्य साम्प्रतं प्रवचनस्य तन्निश्च- ५ यमतीतप्रस्तावान्त्यवृत्तेन सूचितं दर्शयितुमाह-
. सकलं [ सर्वथैकान्तप्रवादातीतगोचरम् । । - सिद्धं प्रवचनं सिद्धपरमात्मानुशासनम् ॥१॥] इत्यादि । प्रकृष्टं वचनं प्रवचनं तच्च विषयत्वलक्षणस्य प्रकर्षनिबन्धनस्य गुणस्य भावात् , नापरतीर्थकरशासनं तत्र तदभावात् । एतदेवाह-'सर्वथैकान्तप्रवादातीतगोचरम्। इति । १० सर्वथा सर्वेण धर्मिप्रकारेणेव धर्मप्रकारेणापि एकान्तो निष्कलस्वभावो भावो येषां ते सर्वथैकान्ताः । मिथ्यावादिनः तेषां प्रवादा अनेकान्ते संशयादिदोषाभिलापाः तदन्याभिलापानामतिक्रमानुपपत्तेः, तान् अतीतोऽतिक्रान्तोऽनेकान्तात्मा जीवादिगोचरो विषयो यस्य तत्तथोक्तम् । तदतिक्रमोऽपि तद्विषयस्य स्वयं प्रत्यक्षादिप्रमाणान्तरापरिपीडितशरीरत्वमेव । न हि प्रत्यक्षमन्यद्वा प्रमाणान्तरं तत्परिपीडनपरमुपलभ्यते तत्पोषणपरस्यैव तस्य प्रतीतः । तदुक्तम्"तदेव च स्यान्न तदेव च स्यात्तथाप्रतीतेस्तव तत्कथश्चित्" [बृहत्स्व० श्लो० ४२] इति।।
न चैवं सर्वथैकान्तशासनस्य तत्परिपोषितविग्रहविषयत्वम् , प्रत्यक्षादेः प्रमाणस्य तद्विषयपराङ्मु खस्यैव प्रतीतेः । ततो हि न स्वशास्त्रपरिकल्पितात् तस्य परिपोषणम्; तस्यैव निष्कलस्य स्वतोऽप्रतिवेदनात् । अन्यतो निष्कलादेव तस्यापि प्रतिवेदने पर्यनुयोगानतिवृत्तेरनवस्थापत्तेश्च । नापि लोकप्रसिद्धात; ततोऽपि स्वयं स्वपरभावाभिमतानेकवस्तुगोचरानेकनिश्चयव्यापारात्मनोऽनेकान्त- २० स्यैव परिपोषणोपपत्तेः, तद्विपरीतस्य च तस्य लोकप्रसिद्धस्याभावात् । ततो युक्तं प्रमाणान्तरापरिपीडि-2 तविषयतया भगवदर्हच्छासनमेव प्रवचनमिति । यदि पुनः प्रत्यक्षादेरपि प्रवचनार्थस्य परिपोषणं किं तत्र प्रवचनस्य प्रामाण्यनिश्चयेन प्रयोजनाभावादिति चेत् ! न; तत्र प्रमाणान्तराविसंवादेन तन्निश्चये सति तन्निदर्शनेन अत्यन्तपरोक्षेऽपि विषये निर्विवादस्य तन्निश्चयस्योपपत्तेः । अत एव प्रत्यक्षादेः प्रमाणान्तरस्य तदविसंवादोपदर्शनार्थं प्रागेव निरूपणं कृतम् । अनिरूपिते तस्मिन् तद- २५ विसंवादोपदर्शनासम्भवादित्यलं प्रसङ्गेन ।
१-यतया ल-आ०, २०, ५०। २-स्यैतत्परि-आं०, ब०, प०। .
.
4