________________
१।२]
प्रथमः प्रत्यक्षप्रस्ताव: स्वतो हि निर्मलज्ञाने जाते तत्र प्रदीपवत् । नाज्ञानादिमलं तस्मिन् हेत्वन्तरशतादपि ॥१९॥ एतेन व्यञ्जकास्तस्मिन् वेदे व्यर्था निरूपिताः । स्वतो हि तस्याभिव्यक्ती व्यञ्जकैः किं प्रयोजनम् ? ॥१०॥ आवारकप्रतिध्वंसो व्यञ्जकैर्यदि वर्ण्यते । स्वतस्तद्व्यक्तिशक्तिश्चेत् ; कुर्वन्त्यावारकाश्च किम् ॥१०१॥ शक्तिध्वंसे त्वनित्यत्वं वेदस्य स्यात्तदात्मनः । शक्तिर्भिन्नैव तस्माञ्चेत् स्वतोऽसौ वोधकः कथम् ? ॥१०२॥ शक्तरेव यदि ज्ञानं वेदस्य व्यर्थता भवेत् । ग्राह्यत्वाच्चेन्न वैयर्थ्यम् ; अहेतोः ग्राह्यता कथम् ? ॥१०३॥ वेदोऽपि शक्तिसम्बन्धाद्धेतुश्चेद्बोधजन्मनि । तत्सम्बन्धोऽपि तेंद्भिन्नस्योपकाराइते कथम् ? ॥१०४॥ अशक्तस्योपकर्त्तत्वे पूर्वशक्तिर्वृथा भवेत् । 'शक्तिरस्ति विभिन्ना चेत्सैव स्यादुपकारिणी ॥१०५॥ वेदोऽपि शक्तिसम्बन्धादुपकारी यदीष्यते । प्रसङ्गः पूर्व एव स्यादनवस्थाभयप्रदः ॥१०६॥ तस्मादभिन्ना तच्छक्तिर्नित्यं सा च व्यनक्ति तम् । तत्तदावृत्यभिव्यक्ती नान्यतो युक्तिमृच्छतः ॥१०७॥ न चान्यथाकृतिस्तस्य "तादृशस्योपपद्यते ।
अनाधेयादिरूपत्वात् कूटस्थस्य विशेषतः ।। १०८॥ अजानन्वेदसामर्थ्य भट्टस्तदिदमब्रवीत् । "अन्यथाकरणे चास्य बहुभ्यः स्यानिवारणम्' [मी०श्लो०१।१।२।१५०]इति। अन्यथाकरणस्यैवासम्भवादुक्तनीतितः ।
नाप्राप्तस्य निषेधोऽयं निषेधः प्राप्तिपूर्वकः ॥११०॥ किञ्च,
अन्यथाकरणं चैतत्स्वरूपमनुधावति ।
तत्पौरुषेयमेव स्यात्पुरुषेणान्यथाकृतः ॥१११॥ १ तस्मिन् वेदे अभिव्यक्तिशक्तिः । २ शक्त्यात्मनः । ३ सतोऽसौ आ०, ब०, ५०, स०। ४ ज्ञानानुत्पादकस्य । ५ शक्तिभिन्नस्य । यतः भिन्नयोः उपकार्योपकारकभावं विना सम्बन्धासम्भवात् । ६ यदि वेदोऽशतोऽपि शक्त्युपकारं कुर्यात् तद्वत् ज्ञानेत्पत्तिमपि विदध्यादिति ज्ञानोत्पादिकायाः पूर्वशक्तवयर्थ्य स्यात् । . वेदे पूर्वशक्त्युपकारिका अन्या शक्तिर्विद्यते परं सा भिन्ना। ८ पूर्वशक्तयुपकारकशक्तिसम्बन्धात् । ९ वेदः किमशक्तः सन् शक्त्युपकार करिष्यति शक्त्या वा ? शक्त्या चेत् ; सा ततो भिन्ना, ततस्तत्सम्बन्धार्थमन्या शक्तिः परिकल्पनीयेत्यनवस्था । १. अन्यथाकरणम् । ११ नित्यस्य । १२ नहि नित्ये कश्चिदप्यतिशयः आधीयते नापि तस्मात् कश्चन प्रहीयते, अनाधेयाप्रहेयातिशयरूपत्वान्नित्यस्य । १३ भाः आ०, ब०, ५०, स०।