________________
न्यायविनिश्चयविवरणे
[ १२
?
करणं वेदस्वरूपमनुधावति; तत्तर्हि पौरुषेयमेव स्यात्, पुरुपेणान्यथाक्रियमाणत्वात् कलशादिवत् । अथ नानुधावति पुरुषकृतस्यान्यथाभावस्य वेदादन्यत्वादिति चेत ; कथं हि कथितम्' 'अन्यथाकरणे चास्य' इति ? न हि तस्मादेर्थान्तरं तस्येति सम्बन्धाभावे व्यपदेशमर्हति । न सम्बन्धात् तत्तस्येति व्यपदेशः, अपि तु पुरुषाभिप्रायादेव, निवारणस्यापि ५ बहुभिस्तत्रैव करणादिति चेत्; कुतस्तेभ्यस्तन्निवारणम् ? तेषां वेदेत्थम्भावपरिज्ञानाद चेत्; तदपि न प्रत्यक्षात् ; तत्र वेदेतरसाधारणस्यैव वर्णपदादेः प्रतिभासनात् । सम्प्रदायाश्चेत्; कुतस्तस्यैव सत्यत्वं नानित्यम्भाव सम्प्रदायस्यापि ? वेदस्य तथैव सत्यत्वाच्चेत्; तदपि कुतः तत्सम्प्रदायस्य सत्यत्वाच्चेत्; न; परस्परांश्रयात् । अनादित्वादित्थंसम्प्रदाय एव सत्यो नान्य इति चेत्; तदपि कुतोऽवसितम् ? अनादिः काल इत्थंसम्प्रदायवान् कालत्वात् अद्यकालवदिति २० चेत्; न; अन्यत्रापि साम्यात् - अनादिः कालः अन्यथा सम्प्रदायवान् कालत्वात् अद्यकालवदिति । साध्यविकलं निदर्शनम् अद्यकालस्यान्यथासम्प्रदायवत्त्वादर्शनादिति चेत् ; कस्य तर्हि निवारणम् ? येनोच्यते- 'अन्यथाकरणे चास्य बहुभ्यः स्यानिवारणम्' इति । न ह्यन्यथासम्प्रदायादन्यद् अन्यथाकरणं नाम । तस्मादनादित्वाद् इत्थंसम्प्रदायवद् अन्यथा - सम्प्रदायस्यापि सत्यत्वादनिवारणमेव स्यात् । अबहुजनपरिगृहीतत्वात् असत्य एवायम् १५ अत एव 'बहुभ्यस्तन्निवारणम्' उच्यत इति चेत्; न; म्लेच्छादीनां धर्मसम्प्रदायस्य प्रामाण्यप्रसङ्गात्, उक्तनीत्या तस्याप्यनादित्वाद्भूयोजनपरिग्रहाच्च । भूयांसो हि म्लेच्छादयः तेषां याज्ञि - कापेक्षयातिशयेन बहुत्वात्, तत्कथं जीवति तत्सम्प्रदाये चोदनाया एव धर्मे प्रामाण्यम् ? पौरुषेयत्वादप्रमाणमेव स इति चेत्; न; वेदेत्थम्भावसम्प्रदायस्यापि पौरुषेयत्वाविशेषात् । गुणवत्कृतोऽयमिति चेत्; कः पुनरत्र "सम्प्रदातुर्गुणः ? वेदतत्त्वज्ञानमेव अन्यस्यानुपयोगदिति २० चेत् ; कुतस्तस्य'" तज्ज्ञानम् ? सम्प्रदायान्तराच्चेत्; न; धर्मतत्त्वज्ञानस्यापि म्लेच्छादिषु तथाभावात् ''तेषामपि गुणवत्त्वापत्तेः । तन्न सम्प्रदायाद्वेदविवेचनम् अन्यथाऽपि तत्सम्प्रदायात् । तस्माद्वेदस्य स्वावद्योतनस्वभावत्वादेव विवेचनं नान्यथा । न च " तत्रान्यथाकरणं कुतश्चिदपीति व्यर्थं तन्निवारणार्थ मन्यापेक्षणम् । तथा
२५
३०
स्वभावादेव वेदस्य स्वार्थावद्योतकारिणः ।
किं परापेक्षया कार्य व्याख्यानादि यदिष्यते ॥ ११२ ॥ व्याख्यानादिसहायाश्चेद्वेदात् स्वार्थे मतिर्भवेत् ।
नियतो यदि तस्यार्थो व्याख्याभेदः कथं तथा ? ॥ ११३॥
१ कुमारिलभट्टेन । २-दर्थान्तरस्येति आ०, ब०, प०, स० । ३ तस्येदमिति व्यपदेशम् । ४ पुषाभिप्राय एव । ५ वेदेऽर्थभावनापरि - आ०, ब०, प०, स० । ६ वेदेत्थम्भावपरिज्ञानमपिं । ७ इत्थम्भावसम्प्रदायस्यैव । ८ इत्थम्भूतत्वेनैव । ९ सति हि सम्प्रदाय सत्यत्वे वेदस्य इत्थम्भूतत्वेन सत्यत्वसिद्धिः, सति च तस्मिन् सम्प्रदायसत्यत्वसिद्धिरिति । १० अनित्थम्भावसम्प्रदायः । ११- परिगृहीतत्वाच्च आ०, ब०, प०, स० । १२ म्लेच्छ सम्प्रदायः । १३ वेदेत्थम्भावसम्प्रदायः । १४ सम्प्रदायप्रवर्तकस्य । १५ सम्प्रदायकर्तुः । १६ म्लेच्छानामपि । १७ नित्यवेदस्वरूपे ।