________________
१२]
प्रथमः प्रत्यक्षप्रस्ताव
अस्ति चायं वदत्येको' धर्म द्रव्यगुणादिकम् । वेदवादी परों धर्ममपूर्वाख्यं वदत्यलम् ॥११४॥ श्येनस्यानर्थरूपत्वादधर्मत्वं प्रपद्यते । भाष्यकारस्तदुम्बेको नैवमित्यवगच्छति ॥११५॥ वधस्य विहितस्यापि साङ्ख्याद्या दुखहेतुताम् । श्रेयस्करत्वमन्ये तु मन्यन्ते वेदवेदिनः ॥११६॥ एवमादिः परोप्यस्ति तव्याख्याभेदविस्तरः। तत्र न ज्ञायते किं तव्याख्यानं वस्तुगोचरम् ? ॥११७।। न चाविदिततत्त्वार्थव्याख्यानसहकारिणः । वेदात्तत्त्वं प्रपद्यन्ते प्रेक्षावन्तो विचक्षणाः ॥११८॥ वेदस्य नियतार्थत्वात्तद्भिन्नार्थावबोधनः । न च सर्वोऽपि तद्भेदस्तत्त्वार्थ इति युज्यते ॥११९॥ तत्त्वार्थ यदि मन्येथाः व्याख्यानं युक्तिसङ्गतम् । वेदात्मा यदि सा युक्तिः सर्वं तद्युक्तिसङ्गतम् ॥१२०॥ सर्वव्याख्यानुकूल्येन तं तमर्थं वदत्ययम् । वेदो न ह्येष तद्भदे कापि दृष्टः पराङ्मुखः ॥१२१॥ युक्तिरन्यैव वेदाच्चेत्साऽपि वेदार्थदृग्यदि । तदा धर्म प्रमाणत्वं वेदस्यैवेति नश्यति ॥१२२॥ अवेदार्थैव युक्तिश्चेत् व्याख्या तत्सङ्गमात्कथम् । तत्त्वार्था काचिदन्यासां सर्वासां तत्प्रसङ्गतः ॥१२३॥ अथ 'वेदान्तरं युक्तिस्तत्सङ्गाधुक्तिसङ्गमः । तद्व्याख्यायुक्तिसाङ्गत्ये तर्हि वेदान्तरं भवेत् ॥१२४॥
कुमारिलभः। "श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः। चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मता ॥"-मी. श्लो. १११२।१९।। २ प्रभाकरः। "चोदनेत्यपूर्व ब्रूमः"-शाबरभा० ११५। "तस्य स्वपूर्वरूपत्वं वेदवाक्यानुसारतः ।"-प्रक०प०पृ. १९५। ३ शबरस्वामी "कोऽनर्थः ? यः प्रत्यवायाय श्येनो वज्र इषुरित्येवमादिः । तत्रानों धर्म उक्तो मा भूत् इत्यर्थग्रहणम् । कथं पुनरसावनर्थः ? हिंसा हि सा, सा च प्रतिषिद्धति । कथं पुनरनर्थः कर्तव्यतयोपदिश्यते ? उच्यते । नैव श्येनादयः कर्त्तव्यलया विज्ञायन्ते। यो हि हिंसितुमिच्छेत्, तस्यायमभ्युपायः इति हि तेषामुपदेश:-'श्येनेनाभिचरन् यजेत' इति हि समामनन्ति न अमिचरितव्यमिति ।"-शाबरभा० ११२ । ४ "श्येनादीनां तु न साक्षान्नाप्युपचारेण नापि तत्फलस्यानर्थत्वमिति तस्यानर्थत्वप्रतिपादनपरम्-'श्येनो वज्र इषुः' इत्येवमादि भाष्यमुपेक्षणीयम् ।"-मी० श्लो. ता.पृ.१००। ५ “स श्रौतो हेतुः अविशुद्धः पशुहिंसात्मकत्वात् ।"-सां० माठर० का०२। "ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य पशुहिंसादिजन्मनाऽनर्थहेतुनापूर्वेण सङ्करः। "-सां• तत्त्वकौ० का०२। ६ मीमांसकाः। ७ व्याख्याभेदः । ८ वेदार्थदृशा यव्याख्यानं कृतं तत्सत्यमिति । ९ तथा धर्मे प्र-आ०, ब०, ५०, स०।१० वेदार्थदृशो नरस्यापि प्रामाण्यं स्यादिति भावः। ११ प्रकृतवेदव्याख्यासमर्थनार्थ यदि वेदान्तरमपेक्ष्यते । १२ वेदान्तरन्याख्या।