________________
न्यायविनिश्चयविव
[
२
तत्राप्येवं प्रसङ्ग स्यादनवस्था महीयसी । तन्न व्याख्यानसम्यक्त्वं सुगम युक्तिसङ्गमात् ॥१२५॥ सर्वव्याख्यासमत्वे च सन्दिग्धा नियतार्थता । वेदस्य कुरुते तूर्णमप्रामाण्यभयन्वरम् ॥१२६॥ अथानियत एवार्थो वेदस्य विदुषां मतः । . तत्तव्याख्यानभेदेन तत्तदर्थगतिस्ततः ॥१२७॥ सर्वसम्प्रतिपत्तिः स्यात्सर्वार्थेषु तथा सति । . कश्चिदर्थः कथं नाम केनचित्प्रतिषिध्यते ॥१२८!! अनर्थेतररूपत्वं शबरोम्बेकसम्मतम् । . श्येनस्य यत्स वेदार्थो विरुद्धोऽपि भवेन्न किम् ? ॥१२९॥ अर्थानर्थत्वरूपेण त्यागोपादानवर्जितः । श्येनोऽपि यदि वेदार्थः सुस्थितः प्रेरको विधिः ! ॥१३०॥ अग्निहोत्रादिवाक्याद्यत् सव्याख्यानात्प्रतीयते । 'श्वमांसभक्षणं तस्य वेदार्थत्वं कथन्न व ? ॥१३॥ असव्याख्यानमेतच्चेत् सव्याख्यानं किमुच्यताम् । यत्र वेदानुकूल्यं चेदेतदत्रापि दृश्यते ॥१३२॥ ततो व्याख्यासहायाच्चेद्वेदादर्थोऽवसीयते । सर्वव्याख्यार्थतादर्थ्यमसमञ्जसमापतेत् ॥१३३॥ नित्यं तद्बोधशक्तस्य नापेक्षेति च वक्ष्यते । अशक्तस्यापि काऽपेक्षा नापेक्षा शक्तकारिणी ॥१३४॥ तस्माद्वेद [ : ] स्वतस्त्वं च स्वार्थ चान्यनिराश्रयः । व्यक्तं वक्तीति वक्तव्यं स्वतःप्रामाण्यवादिभिः ॥१३५॥ न चेदृशः स्व[-शस्व-भावस्य स्वरूपस्वार्थयोर्द्वयोः । सम्भवेन्मलिनीभावो नरयनशतादपि ॥१३६॥ न हीदमेव मे रूपमयमेवार्थ इत्यपि ।। जानुघातं वदन् वेदः शक्यप्रच्छादनः परैः ॥१३७॥ तत्स्वतो निश्चिते वेदे वेदार्थे च तदर्थकम् । यव्याकरणमीमांसाद्यतत्सर्वमनर्थकम् ॥१३८॥
ततः स्थितमेतत्- असम्भवन्मलिनीकारस्यैव यत्नान्तरवैफल्यं नापरस्य । सम्भव. ३० न्मलिनीकारश्च भगवदाम्नायः स्वरूपतोऽर्थतश्च छद्मस्थानां तत्राऽज्ञानादिमलसद्भावात् इति विवृतं
तात्पर्य वृत्तस्य ।
"तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । खादेच्छमांसमित्येष नार्थ इत्यत्र का प्रमा ॥"-प्र. वा. ३३.८।२ वेदस्य। ३ मीमांसकैः । नित्यस्वभावस्य वेदस्य । ५ अल्पज्ञानाम् ।