________________
२०२]
प्रथमः प्रत्यक्षप्रस्तावः
३३ अधुना पुनरवयवव्याख्यानं क्रियते-न्यायोऽत्र स्याद्वादामोघलान्छनो भगवदाम्नायोऽभिमतः । न चैवमशब्दार्थत्वम् ; तस्यापि न्यायत्वात् । सामान्यवाचिना न्यायशब्देन कुतो विशेषप्रतिपत्तिरिति चेत् ? 'भव्याम्बुरुहभानवे' इत्युक्त्वा पुनरस्य वचनात् । भगवतो हि भव्यकमलाकरविकासकारिणा मरीचिनिकरेण भवितव्यं तदभावे तत्करणायोगात् । स च न भगवज्ञानरूपो युक्तः ; ततो' भव्यानां तत्त्वप्रतिपत्तिविकासासम्भवात् , प्रतिपुरुषं ज्ञानकल्पना- ५ वैयर्थ्यात् , सर्वस्य सर्वदर्शित्वापत्तेः, प्रतिपाद्यप्रतिपादकभावाभावप्रसङ्गाच्च । नाऽपि विनेयज्ञानरूपस्तनिकरः ; सदसद्विकल्पायोगात् । न ह्यसतस्तस्य तन्निकरत्वम् ; खरशृङ्गस्यापि प्रसङ्गात् । नापि सतः; प्रयोजनाभावात् । भव्यकमलविकासः प्रयोजनमिति चेत् ; न ; तदव्यतिरेकात् । तत्त्वप्रतिपत्तिरूपो हि तद्विकासः कथं तत्त्वज्ञानाद्भिद्येत यतस्ततः स स्यात् ? भेदे स्वमतविरोधात् । कुतो वा तस्य संत्त्वम् ? विनेयभाविन एव कुतश्चिद्धेतोरिति चेत् ; निष्फलस्तर्हि भग- १० वव्यापार इति नासौ तत्त्वजिज्ञासावद्भिरन्वेषणीयः स्यात् । भगवव्यापारादिति चेत् ; सा कोऽपरोऽन्यत्राम्नायात् इत्याम्नाय एँव न्यायग्रहणेन गृह्यते । यद्येवमाम्नाय इति वक्तव्यं स्पष्टत्वात् छन्दोभङ्गस्याप्यभावादिति चेत् ; न ; आम्नायस्यापि तत्त्वप्रतिपत्तिहेतुत्वेन न्यायरूपत्वो. पवर्णनार्थत्वादेववचनस्य । 'निश्चितं च निर्बाधं च वस्तुतत्त्वम्” ईयतेऽनेनेति न्यायः' इति व्युत्पत्तेः । तदुपवर्णनश्च प्रमाणमेकमेव द्वे एवेति नियमव्याघातोपदर्शनार्थम् । कुतः पुनाय. १५ रूपत्वमाम्नायस्येति चेत् ? आस्तां तावत्तृतीये तद्विस्तरात् ।
___कः पुनरसौ ? इत्याह-अयं प्रतीयमानो वर्णपदाद्यात्मको न प्रमाणागोचरः स्फोटादिरिति। स किम् ? इत्याह-नेनीयते। कः पुनरत्र यर्थः ? सुखाशुभावसौष्ठवलक्षण इति ब्रूमः । सुखेन नीयते नेनीयते इति । सुखं पुनरिह नयनोपायानां सुगमत्वम् , सुगमैरुपायैर्नीयत इति । अत एवाशुभावस्यापि परिग्रहः सुगमोपायस्योपेयस्य आशुभावोपपत्तेः । सुष्ठु नयनाद्वा २ नेनीयते । सौष्ठवं तु नयनस्याविचलितयुक्तिगोचरत्वम् । अविचलिताभिर्युक्तिभिर्नीयते नेनीयत इति । पौनःपुन्यं भृशार्थो वा "यङर्थः। पुनः पुनर्नीयते नीयमानः क्रियते नेनीयत इति । किं नेनीयते ? इत्याह-अमलम् । मलाभावम् अर्थाभावेऽव्ययीभावात्, अवदा"तत्वमिति यावत् ।
__ स्यान्मतम्-"एकदा यद्यवदातत्वं नीतो न्यायः किं पुनर्नीयते नयनप्रयोजनस्यावदा- २५ तत्वप्राप्तः प्रागेव सिद्धत्वाद् अशक्यत्वाच्च । तथा हि-तदेव, अन्यद्वा पुनर्नीयते न्यायः ? न तावत्तदेव ; यतस्तस्य प्राप्तत्वात् । न हि प्राप्तं प्रति नयनं सम्भवति, अप्राप्तस्य नयनविषयस्वात् । अन्यदेव तर्हि पुनर्नीयत इति चेत् ; न ; तस्यात्राऽनिर्देशात् , एकस्यैवामलार्थस्योपात्तस्वात् । तन्न पौनःपुन्यमत्र यर्थ उपपन्न इति ; तन्न "सुमतम् ; विषयभेदस्यात्र भावात् ।
मरीचिनिकरः । २ भगवज्ज्ञानात् । ३ विनेयज्ञानस्य । ४ स्वस्वम् ब०, प०।५-यत्वात् आ०, ब०, १०, स०।६ विनेयज्ञानसत्त्वम् । ७ एवं न्या- ता०। ८ 'आनायो मलिनीकृतः' इति कृते सति । ९-रूपोपमा०, ब०, १०, स०।१०-स्य अनि- आ०, ब०, १०, स०।११-तत्वं नी- भा०,०,०।१२ "पौनःपुन्य भृशार्थश्च क्रियासममिहारः तस्मिन् द्योत्ये यत् स्यात्"-सिक कौ० शा२१।५ निर्मलत्वम् । १५ एकधाब०। १५सुगमम् मा०,०, १०,०।