________________
३४ न्यायविनिश्चयविवरणे
[२२ नह्यवदातत्वमेकमेवात्र विषयः, अवदाततरत्वादेरन्यस्यापि भावात्। अप्रतिपादितस्य कथं प्रतिपत्ति. रिति चेत् ? न ; अमलशब्देनैवै एतत्प्रतिपादनात् तस्य सामान्यशब्दत्वात् । भवति हि सामान्यशब्दाद्विशेषगतिः नीलशब्दात् नीलनीलतरादिविशेषव्यवसायदर्शनात् , तद्वदत्रापि अमलशब्दे.
नैव अमल तरत्वादेः प्रतिपत्तिः। ततोऽमलत्वं नीतो न्यायः पुनरमलतरत्वं पुनरमलतमत्वं ततोऽपि ५ सातिशयममलतमत्वं नीयत इति न शास्त्रस्यावृत्तिवैफल्यं बालक्रीडादोषो वा विशेषप्रतिलम्भात् ।
आम्नायस्य हि नैर्मल्यं नाम तज्ज्ञानस्य नैर्मल्यमेव। तच्चास्मान्न्यायशास्त्रादाविर्भवत् पुनरावृत्तिसहायात् सविशेषम् , ततोऽपि तथाविधात् सविशेषतरं सविशेषतमश्च भवति । दृश्यते च शास्त्रस्य अभ्यासाधिष्ठितस्य स्वविषये ज्ञानविशेषकारित्वमिति नात्र विद्वज्जनस्य- विवादः । कस्य पुनरभ्यासेन शास्त्रस्याधिष्ठानम् ? आचार्यस्येति चेत् ; न ; प्रयोजनाभावात् । तद्विषय१० ज्ञानविशेषः प्रयोजनमिति चेत् ; न ; तस्य प्रागेव सिद्धत्वात् , अन्यथा शास्त्रकरणस्यैवाऽसम्भ
वात् अस्मदादिवदिति चेत् ; सत्यम् , स्वयं प्रयोजनाभावः शास्त्रकारस्य, प्रतिपाद्यस्यैव तु तदभ्यासात्तद्विषयज्ञानविशेषोत्पत्तेः । शास्त्रकारो हि शास्त्रमावर्तयन् प्रतिपाद्यस्य शास्त्रार्थज्ञानं सातिशयमुपजनयति परार्थत्वात्तत्प्रर्वत्तेः । तन्न प्रयोजनाभावस्तदभ्यासस्य । अत एव भृशार्थस्यापि यङ
र्थस्योपपत्तिः, भृशं नीयते नेनीयत इति, फलातिशयरूपस्य भृशार्थस्य सम्भवात् । तदनेन पुन१५ रावृत्तिर्निग्रहस्थान प्रत्युक्तम् ; सातिशयज्ञानस्य तत्साध्यत्वात् । न हि सप्रयोजनादेव वच.
नात् निग्रहावाप्तिः ; अतिप्रसङ्गात् । तत्त्वजिज्ञासावन्तं प्रत्येव तद्वचनं सप्रयोजनं तेनैव ततः सातिशयज्ञानस्याभीष्टत्वात् न विजिगीषावन्तं प्रति, न ह्यसौ ततस्तत्त्वज्ञानमिच्छति, तत्तिरश्चिकीर्षयैव तस्य प्रवृत्तेः, अतस्तं प्रति पुनर्वचनस्य निरर्थकत्वान्निग्रहाधिकरणत्वमिति चेत् ; न ;
प्रथमवचनस्यापि तत्त्वप्रसङ्गात् , ततोऽपि तस्य तत्त्वज्ञानं प्रत्यनादरस्य तत्तिरस्कारपरत्वस्य २० चाविशेषात् , ततस्तद्वचनमपि" निग्रहस्थानेषु गणयितव्यम् । तदभावे वाद एव न भवेदिति चेत् ;
मा भूत् , को दोषः ? वादिनो जयलाभाद्यभाव इति चेत् ; न ; "तद्वचनेऽपि तदभावस्य समत्वात् । न हि निरर्थकात्प्रथमवचनादपि तल्लाभादि; द्वितीयादपि प्रसङ्गात् । "सार्थकत्वसमर्थनं पुनर्वचनेऽपि समानम् । निरूपयिष्यते चैतद्यथावसरमिति नेह प्रतन्यते । तस्मादुपपद्यत एव
सुखादियङर्थः पर्थप)रिग्रहः । पौनःपुन्यभृशार्थयोरेव "शब्दविद्यायां यङर्थत्वमनुश्रूयते न सुखा२५ दीनामिति चेत् ; न ; तेषामपि कैश्चित्तदर्थत्वानुस्मरणात् । तथा च पठ्यते
"पोनःपुन्यं भृशार्थो वा दूराभ्याससुखानि च ।
आशु सुष्ठु बहुत्वञ्च यङर्थाः परिकीर्तिताः॥" [ ] इति ।
पौनःपुन्यभृशार्थमात्रयङर्थवादिभिस्तु भृशार्थ एव दूराभ्यासादीनामन्तर्भावान्न पृथगुपादानं कृतमिति न कश्चित् व्याघातः ।
-
-
-
-
१-नैव प्रति-आ०, ब०, ५०, स०। २-त्वं ततो आ०, ब०, ५०, स०। ३ ते ज्ञानस्य ता । ४ -तिसाहाय्यात् आ०, २०, ५०, स.। ५ शास्त्राभ्यासा-ता० । ६ -पाकारत्व-ता० । ७ 'शास्त्राभ्यासकर्ता कः स्यात्' इति प्रश्नार्थः । ८ शास्त्रकारप्रवृत्तेः। ९ पुनरुक्तं नाम निग्रहस्थानम् । १० निग्रहाधिकरणत्व । " प्रथमवचनमपि । ११ प्रथमवचनेऽपि । १३ प्रथमवचने यदि सार्थकत्वं समर्थ्यते। १४ सिकौ ।